सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 457, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 457

त्रिषष्ट्यर्धभागेन प्रयु(प्यु)क्तमेकभागय
अर्धंशावाजनाव्नेत्स्यत्कंत्यकांतमुदाहृतं
उपानोच्‍चं द्विभागेन कंबमेकेन कारयेत्
षडांशकमलोच्‍चं तु व्योमांशं गलमानकं
शिवांशां पद्मतुंगं तु भूतांशं तु गलोदयं
दक्षमर्धांशमित्युक्तं कंबमेकेन कारयेत्
कंठतुंगं युगांशं तु योगांशं वेत्रमानतुंगकं
तत्सममंबुजोत्सेधं पट्टिकोच्चं गुणांशकं
पद्ममंशेन कर्त्तव्यं कंबमेकेन कारयेत्
षष्ट्याविंशतिभागेन सुंदरंाबुजमेरितं
तद्घटं वृत्तरूपं स्याद्दुरगासनमेवहि
धरातलोच्चसप्तांशे द्विभागं विप्रमानकं
गुणांशं गलमानं तु पट्टांशं पट्टिकोच्चयं
भद्रबंधमितिप्रोक्तं सप्तविंशतिभागय
उपानोच्‍चं द्विभागेन जगत्युच्‍चं रसांशकं
षडंगं कुमुदोच्चं तु कंबमंशेन कारयेत्
कंठतुंगयुगांशेकं पद्ममंशेन कारयेत्
पद्ममर्धे(द्येँ)न कर्तव्यं कपोतोच्चं द्वितीयकं
कंत्यमंशेन कर्त्तव्यं त्रिषष्ट्येकभागय
प्रदिष्टं तृतियंशेन अर्धांशं वाजनोदयं
सप्तविंशतिभागेन कुंभबंध प्रकीर्तितं
द्वियांशं पादुकोत्सेधमथात्वांांशं विप्रमानकं
कंठमेकेन कर्त्तव्यं ऊर्ध्वपद्म शिवांशकं
गुणांशकं घटमानं तु पद्ममानं शिवांशकं
कंबमेकेन कर्त्तव्यं गुणांशं गलमानकं
कंबमेकेन कर्त्तव्यं पद्मं तत्सममुच्यते
कपोतोष्टं गुणांशं स्यादालिंगंकैकभागय
पंचविंशतिभागेन कर्त्तव्यं वज्रबंधं प्रशस्यते
ततो वा वृत्तभागं स्याच्चक्रबंधमिति स्मृतं
अंशवार्धं त्रिपादं वा शोभा बाला समन्वितं
न्यूनं वा बघिकं वा पियोत्तु न दोष कं
पादबंधमधिष्टानं दिग्वि दिक्षु प्रकल्पयेत्
कल्पयेदष्टरात्री तु प्रतिबंधनमसूरकं
अन्योन्यासंकरं चेतु कर्ता मरखमभ्युयात्

[R1] तस्मात् सर्वप्रयत्नेन संकरं न समाचरेत्
[R2] पंचप्रकार बाह्ये तु संकरं न च दोषभाक्
[R3] वृत्तकुंभसमायुक्तं प्रतिबंधममूरकं
[R4] वज्रगं कुमुदोपेतं विप्रबंधमिति स्मृतं
[R5] वर्गेण संकरं कुर्यादशुभं विपरीतकं
[R6] तदा कोष्टादिमानं तु संकरं शुभदं भवेत्
[R7] जगतेति प्रमाणं यत् कुंभं निम्नं प्रकल्पयेत्
[R8] चतुरभागैकभागं वा अर्धं वा कंपनिम्नकं
[R9] उत्सेधसमनोव्रां वा द्विगुणं वाजननिन्रकं
[R10] तत्त्रिपादसमावार्धे महावाजनन्योन्नकं
[R11] अधिष्ठानक्रमं प्रोक्तं शृणु नालस्य लक्षणं
[R12] एकहस्तं समारभ्य त्रित्र्यंगुलविवर्धनात्
[R13] सप्तमानावसानं यत् तद्बाह्ये तु निर्गमं
[R14] तदायामं त्रिधा कृत्वा व्योमांशं मूलविस्तरम्
[R15] तच्चतुर्थांशहीनं यत् अग्रतारं प्रकल्पयेत्
[R16] अग्रतारसमं वाथ त्रिपादं चाग्र चोदयं
[R17] मूलात्तारोदयं मूलं सिंहवक्त्रेण घट्टितं
[R18] विस्तारस्य त्रिभागैकं मध्ये नीत्रं प्रकल्पयेत्
[R19] अग्र वर्ये समायुकंत...........अश्ववक्त्रसादृशे
[R20] पत्रपुष्पसमायुक्तं सर्वोलंकारसंयुक्तं
[R21] भित्तितारत्रिभागैकमथवाष्टांगुलाधिकं
[R22] संकल्य विधियुक्तेन स्थापयेत्कोष्ठमध्यमे
[R23] नाललक्षणमेवोक्तं स्तंभायानं विधि शृणु
[R24] प्रासादस्यांशमानेन स्तंभमानं प्रकल्पयेत्
[R25] कोष्टमानं चतुर्विशदेकांशं पादविस्तृतं
[R26] त्रिचतुःपंचमात्रं वा भित्तिपादस्य विस्तृतं
[R27] चतुरंगलमारभ्यांगुलांगुलबर्धनात्
[R28] न......पाद्यांगुलमयात् कलाभूष्यावसानकं
[R29] भित्तिमानस्य विस्तारं क्रमेण परिकल्पयेत्
[R30] तदग्रांशोनमग्रं तु युगाग्रं ब्रह्मकांतकं
[R31] अष्टाश्रं विष्णुकांतं स्यात् षडाश्रं स्कंदकांतक
[R32] आमूलतोग्रपर्यंतं मानाश्रं भानुकांतकं
[R33] प्रथादिमूलपर्यंतमिन्द्रकांतमिति स्मृतं
[R34] सर्व्वांगवृत्तरूपं यंत इंद्रकांतमुदीरितं