मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 446, कुल 856 में से
संदर्भ में पढ़ेंआलयाद्यङ्गसर्वेषु हीनाधिक्यं भवेद्यदि ।
राजराष्ट्रादिकर्तॄणां दोषप्राप्तिरिहोच्यते ॥ १ ॥
विस्तारे च समुत्सेधे ऽ(चो)पाने च मसूरेके ।
पादे च प्रस्तरे चैव वेदिकायां गले तथा ॥ २ ॥
शिखरे स्तूपिकायाश्(यां) च नासिकापञ्जरादिभिः(षु) ।
द्वारे च भद्रदेशे च मूषालादिषु देशके ॥ ३ ॥
गर्भगेहे तले सर्वे(वै)सोपानादिषु सालके ।
गोपुरैः(रे) मण्डपाद्यैः च(दिषु) चान्तराले त्वलिन्द्र(न्द)के ॥ ४ ॥
प्रच्छादने प्रपाङ्गे च व(तु चो)प्रप्रान्ते तथोत्तरे ।
भित्तिदेशे च भागे च सर्वाङ्गे च न दोषयुक् ॥ ५ ॥
तस्मात्तु दोषसंप्राप्तिः शिल्पिदृष्टानि(ष्टिभिर्) वारयेत् ।
विस्तारे न्यूनं तत्मात्तु कर्तुर्दारिद्र्यमावहेत् ॥ ६ ॥
तद्भूयोधिकमानं चेद् दारानाशो भवेद् ध्रुवम् ।
आदिताङ्घ्रिविहीनं चेत्कर्तुर्व्याधिमतो विदुः ॥ ७ ॥
तदेवाधिकमानं चेच्छत्रुवृद्धिन्न संशयः ।
अन्तर्जन्म बहिर्जन्म निम्नमु(स्रो)न्नतया स्थितम् ॥ ८ ॥
निर्वंशमेव तत्सर्वं कर्तृवंशं भवेद् ध्रुवम् ।
तज्जन्मदेशमार्गे च निम्नोन्नतमथापि ते(वा) ॥ ९ ॥
निर्गमोद्गमने वापि पुत्रनाशमवाप्नुयात् ।
अधिष्ठानाङ्कहीनं स्यात्स्थाननाशं धनक्षयम् ॥ १० ॥
वप्रादिवर्गसर्वेषु तन्मार्गे निम्नमुन्नतम् ।
कर्तॄणां क्षयरोगः स्यात्तुङ्गेन करणेन च ॥ ११ ॥