सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 440, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 440

६७] प्रलम्बलक्षणम् ४०५
पूर्वं च मध्यसूत्रं तु पृष्ठसूत्रं प्रलम्बयेत् ।
तदेव मौल्यग्रमध्ये मौलिमूलस्य मध्यमे ॥ ४० ॥ 80
तत्कृत्वाथ ककुन्मध्ये वंशमध्ये तु लम्बयेत् ।
जघनस्य द्वयोर्मध्ये ऊ(चो) रूर्द्वयोश्च मध्यमे ॥ ४१ ॥
पृष्ठजानुद्वयोर्मध्ये पाष्णियो(ष्ण्यो)र्मध्ये [च] लम्बयेत् ।
एवं तु वरसूत्रं स्यात्पार्श्वसूत्रमिहोच्यते ॥ ४२ ॥ 84
कर्णयोः सुषिरमध्ये पार्श्वकायस्य मध्यमे ।
गुल्फस्य मध्यमे चैव पार्श्वसूत्रं प्रलम्बयेत् ॥ ४३ ॥
पिप्पलीबाह्यदेशे तु स्तनचूचुकमध्यमे ।
ऊरुजानु(न्वोर्) यथादेशे तर्जन्यङ्गुलमध्यमे ॥ ४४ ॥ 88
कच्छसूत्रात्कटिपार्श्वेऽपरे सा(चा)ङ्गुलाष्टकम् ।
शक्तीनां कटिदेशे तु लम्बयेत्तु कनिष्ठके ॥ ४५ ॥
बाह्यके मध्यमे वापि कटी च(टि)पुटपार्श्वके [च] ।
एवं तु कार्यसूत्रं स्याल्लम्बयेच्छिल्पिवित्तमः ॥ ४६ ॥ 92
परहस्तपार्श्वयोः सूत्रं मानयेज्जानुपार्श्वकम् ।
सर्वाङ्गं च ऋजुं कुर्यात्पूर्वापर(वरयोर) योजयेत् ॥ ४७ ॥
ऋज्वाङ्गकभावं सामान्यमिति विद्यते ।
सर्वेषां(र्वासां) देवदेवीनां भङ्गमानमिहोच्यते ॥ ४८ ॥ 96
आभङ्गं समभङ्गं च अ(तु वा)तिभङ्गं त्रिधा भवेत् ।
त्रिचतुष्पञ्चमात्रं स्यात्तुङ्गमानमिति क्रमात् ॥ ४९ ॥
उष्णीषमध्यमे चैव ललाटं चै(टस्यै)व मध्यमे ।
नासिकाग्रस्य मध्ये तु हिका(या) यथोक्तपार्श्वके ॥ ५० ॥ 100
यथोक्तचूचुकस्यान्तं नाभिपाश्वें यथोक्तवत् ।
यथोक्तश्वो(स्फो)रगुल्फस्य [च] पार्श्वसूत्रं प्रलम्बयेत् ॥ ५१ ॥
एवमाभङ्गसूत्रं स्यात् समभङ्गमिहोच्यते ।
उष्णीषात्(वस्य) तु यथापार्श्व ललाटस्य तु पार्श्वके ॥ ५२ ॥ 104
यत्तत्पुटपार्श्वे तु स्तनचूचुकमध्यमे ।
नाभिश्चोरुस्तथा जङ्घा यथोक्तं गुल्फपार्श्वके ॥ ५३ ॥