मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 438, कुल 856 में से
संदर्भ में पढ़ें[अध्यायः ६७] प्रलम्बकलक्षणम् ४०३
अथवा पृष्ठमध्ये तु सूत्र(त्रं) म(ह)न्वन्त(न्तं) लम्बयेत् ।
चतुर्दिक्षु चतुर्मध्ये पञ्चसूत्रं प्रधानकम् ॥ १२॥ 24
अन्यथा पुरतो देशे सर्वं मध्यादि लम्बयेत् ।
पुटपार्श्वौ मुखान्तौ च कु[च]चौ [वा] बाहुपार्श्वकौ ॥ १३॥
लम्बयेत्सूत्रमित्युक्तमेतदेकादश[स्] तथा ।
परहस्तौ पुटपार्श्वं सूत्रं त्यक्त्वा चतुष्टयम् ॥ १४॥ 28
शेषं तु सर्वसूत्रं स्यादासने च प्रकल्पयेत् ।
स्थानके रुद्रसूत्रं स्याल्लम्बयेद्(त्तु) विचक्षणः ॥ १५॥
शिखामणिस(णौ) तु मौल्यग्रे मध्यमे मौलिमध्यमे ।
मौलिमूलं(ले) च पट्टं(ट्टे) च ललाटस्य तु मध्यमे ॥ १६॥ 32
भ्रुवयो(वो)र्मध्ये [च] नासिमध्ये हनुमध्यमे ।
हिक्काच(या) मध्यमे चैव तथा हृदयमध्यमे ॥ १७॥
तस्याधो नाभिमध्ये च मेढ्रमध्यं(ध्ये) तथैव च ।
ऊरुमूलद्वयोर्मध्ये जान्वयो(वो)र्मध्ये तथा ॥ १८॥ 36
नलका [च] द्वयोर्मध्ये [च] पाणिर्यो(ष्ण्यो)र्मध्यमे तथा ।
तलमध्यद्वयोर्मध्यमङ्गुष्ठयोर्मध्यमे तथा ॥ १९॥
एवं तु लम्बयेत्कुक्षिनासाग्रे स्पर्शयेद् बुधः ।
सूत्रात् शि(च्छि)खामणि(णिः) स्याद् ह्यन्तरं द्वादशाङ्गुलम् ॥ २०॥ 40
सूत्रान्मौलिमूलान्तं रसमात्रान्तरं भवेत् ।
सूत्रं ललाटमध्यं तद् ह्यन्तरं द्व्यङ्गुलं भवेत् ॥ २१॥
हिक्कामध्यं तु सूत्रान्तं ह्यन्तरं तु षडङ्गुलम् ।
तत्सूत्राद्धृदयान्तं च ह्यन्तरं सार्धमात्रकम् ॥ २२॥ 44
तत्सूत्रान्नाभिसीमान्तं ह्यन्तरं तु शिवाङ्गुलम् ।
तत्सूत्रान्मेढ्रमूलान्तं ह्यन्तरं तु गुणाङ्गुलम् ॥ २३॥
स्थानके चासने वापि स्थानकेषु विशेषतः ।
पार्श्वसूत्रद्वयं काये ह्यन्तरं तदिहोच्यते ॥ २४॥ 48
तत्सूत्रादूरुमूलान्तं ह्यन्तरं तद् द्विमात्रकम् ।
सूत्रं च जानुमध्यं तत्सार्धवेदाङ्गुलान्तरम् ॥ २५॥