मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 437, कुल 856 में से
संदर्भ में पढ़ेंप्रलम्बलक्षणम्
सर्वेषां देवदेवीनां ऋजु (शयन) स्थानके वा(का)सने ।
मानसूत्रविधिं सम्यगलक्षणं वक्ष्यतेऽधुना ॥ १ ॥
बेरायामसमं वापि त्रिपादं चार्धमेव वा ।
आयामं त्रिविधं प्रोक्तं तत्तदूर्ध्वविशालकम् ॥ २ ॥ 4
देव(ह)स्तद्व्यङ्गुलं चैव चतुस्त्रिद्व्यङ्गुलं घनम् ।
एवं प्रलम्बफलका प्र(ल)म्बां चतुरश्रकम् ॥ ३ ॥
तत्समं चासनं कुर्याद् घनं मानाङ्गुलेन च ।
चतुष्पादं त्रिपादं च द्विपादैकाङ्घ्रिमेव वा ॥ ४ ॥ 8
भासनस्योपरि स्थाप्य मध्य(ध्ये) बेरं विनिक्षिपेत् ।
सपादबेरायतं वाप्यध्यर्धेनाङ्घ्रितुङ्गकम् ॥ ५ ॥
पादतारं यथायुक्त्या कारयेत्तच्चकेन तु ।
फलका चा(मा)सने चैव मुनि(मान)सूत्रं प्रसारयेत् ॥ ६ ॥ 12
कुर्याद्युक्त्या च पादोर्ध्वे प्रलम्बफलकां न्यसेत् ।
सूत्राग्रे कन्दुकाकारं लौहे पाषाणकेऽथवा ॥ ७ ॥
तन्मध्ये सुधिरं कृत्वा बन्धयेच्छिल्पिवित्तमः ।
फलके योजयेत्सर्वं सूत्रमेवं प्रशस्यते ॥ ८ ॥ 16
पूर्वापरपार्श्वे तु कायमध्ये प्रलम्बयेत् ।
स्थानके चासने वापि पञ्चसूत्रमुदीरितम् ॥ ९ ॥
मुखान्तं द्विद्विमात्रं स्याल्लम्बं सप्तमिति स्मृतम् ।
तत्पृष्ठशिरःपार्श्वे तु वक्रान्तं रज्जुं लम्बयेत् ॥ १० ॥ 20
नवसूत्रमिति प्रोक्तमेकादशमि(चे)होच्यते ।
कक्षतारं द्वयो(यं) सूत्रं लम्बयेद् रुद्रसूत्रकम् ॥ ११ ॥