मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 43, कुल 856 में से
संदर्भ में पढ़ें[Header]
८ | मानमारे | [अध्यायः
भूमिसंग्रहविधानम्
भूपरीक्षाविधिं (भूमिसंग्रहणं) वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना ।
दक्षिणे पश्चिमे चैव चोन्नतं चतुरश्रकम् ॥ १ ॥
तद्वास्तु जायते वाऽपि देवानां मनुजः (ज) क्रमात् ।
तुरङ्गद्विरदं (द) वेणुं (णु) वीणासाक (ग) रदुन्दुभिः ॥ २ ॥
धेनुभिश्च समायुकं (क्ता) किं च पुंनागजातिभिः ।
सरसीरुहधान्यैश्च पाटलीपुष्पगन्धकैः ॥ ३ ॥
संयुक्तं (क्ता) सर्वबीजानां वर्धनं (ना) चैकवर्णयुक् ।
निविडा (डा) स्निग्धसंयुक्ता सुखसंस्पर्शना भवेत् ॥ ४ ॥
श्रीवृक्षनिम्बसे (स्वा) शोकैः संयुक्तं (क्ता) सप्तपर्णकैः
सू (चू) तैश्चापि वृ (वि) धवृक्षैः संयुक्ता च समस्थले (ला) ॥ ५ ॥
धवलं रक्तवर्णं च पीतं कृष्णं कपोतकम् ।
षड्वर्णैश्च समायुक्ता सर्वसम्पत्प्रदा धरा ॥ ६ ॥
दक्षिणावर्तसलिला [प्र]दक्षिणाकारा वर्णनैः ।
मानवाञ्जलिमानेन दृष्टिनीला मनोहरा ॥ ७ ॥
कृमिवल्मीकरहिता निर्मूषी निष्कपालिनी ।
निरस्थि (स्थिः) शुक्तिसिकतारन्ध्रवर्ज्या शुभावहा ॥ ८ ॥
पृथग्विधैश्च शूलैश्च स्थाणुभिश्च मही धृता ।
सकर्दमितवाराही विलेकं (क्ता) सरसंयुतम् (युता) ॥ ९ ॥
निस्तुषा निर्विभूतिश्च शर्करादर्शिता अपि (तापि च) ।
सा भूमिः ब्राह्मणादीनां वर्णानां संपदावहा ॥ १० ॥
मधुतैलाज्यगन्धाश्च (च) दग्धदुर्गन्धिनी च या ।
अण्डजमीनगन्धैश्च (न्धा च) शवगन्धैश्च (न्धा च) वर्जिता ॥ ११ ॥
नृपप्रासादसंयुक्ता सभाचैत्यसमीपगा ।
सकण्टकवरोरु (तरुणा) युक्ता द्रुमशाल[य]संकुला ॥ १२ ॥