मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 427, कुल 856 में से
संदर्भ में पढ़ेंउत्तमदशतालविधानम्
उत्तमं(म)दशतालस्य लक्षणं वक्ष्यतेऽधुना ।
मूर्धादिपादपर्यन्तं तुङ्गमानं प्रशस्यते ॥ १ ॥
चतुर्विंशच्छतं कृत्वा तथैवांशेन मानयेत् ।
उष्णीषात्केशपर्यन्तं चतुर्मात्रं प्रशस्यते ॥ २ ॥
केशान्ताद्धिहन्वन्तं सैकार्कांशं मुखायतम् ।
अर्धांशं गलमानं स्याद् वेदांशं गलतुङ्गकम् ॥ ३ ॥
गलान्ताद्धृदयान्तश्च ङ(स्तु चो)दरं नाभिसीमकम् ।
नाभेस्तु मेढ्रसीमन्तं सार्धत्रयोदशांशकम् ॥ ४ ॥
मेढ्रान्तमूरुदीर्घं(दैर्घ्यं) स्यात् सप्तविंशाङ्गुलं भवेत् ।
जानुतुङ्गं युगाङ्गुल्यं जङ्घा चोरुसमायतम् ॥ ५ ॥
पादजानुसमोत्तुङ्गं मुखायामं त्रिधा भवेत् ।
अक्षित्सूत्रावसानं च तस्याधो त(स्त)त्पदान्तकम् ॥ ६ ॥
हिक्कासूत्रादधो बाहुदीर्घ(दैर्घ्य)मृत्त्यङ्गुलं भवेत् ।
कूर्परं च द्विमात्रं स्यान्मणिवन्धावसानकम् ॥ ७ ॥
प्रकोष्ठमेकविंशांशं दीर्घं तस्य तलायतम् ।
मध्याङ्गुल्याग्रपर्यन्तं सार्धत्रयोदशांशकम् ॥ ८ ॥
तन्मध्यम(मा)ङ्गुलायामं सार्धं षडङ्गुलं भवेत् ।
शेषं चान्तस्तलायामं पाद(दं) सप्तदशांशकम् ॥ ९ ॥
अङ्गुष्ठात्पार्ष्णिपर्यन्तं तद्द्दीर्घाङ्गुष्ठ मायतम् ।
सपाद्द(सार्ध)वेदाङ्गुलं प्रोक्तं तदर्धं विस्तृतं भवेत् ॥ १० ॥
तदर्धं नखविस्तारं तत्पादोनायतं तथा ।
नखं वृत्तायतं चैव चांशं तन्मुखं मांसलम् ॥ ११ ॥