मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 426, कुल 856 में से
संदर्भ में पढ़ें६४] प्रतिमाविधानम् ३६१
गुरुशुक्रबुध[श्]चन्द्रमुख्यवारं प्रशस्यते ।
तस्करोधन(नं) षण्डञ्च(ण्डं च) प्रेष्यान्यानि शुभांशकम् ॥ ४० ॥ 80
वर्ज्य षष्ठाष्टमं राशिमन्यत्सर्वं शुभं भवेत् ।
गस्(जः) सर्वशुभं प्रोक्तं मानुषासुरं वर्जयेत् ॥ ४१ ॥
एकनेत्रं द्विनेत्रं वा संयुक्ता सं(त्कां) विसर्जयेत् ।
शुभयोगं शुभमेवं मृत्युयोगविनाशनम् ॥ ४२ ॥ 84
यत्र दोषो गुणाधिक्यं तत्र दोषो न विद्यते ।
तेषामधिकगुणं वानं(न्यं) सर्वदोषकरं भवेत् ॥ ४३ ॥
तस्मात्परिहरेद् विद्वान् जनमेवं प्रकल्पयेत् ।
तन्मात्राङ्गुळमानोक्तमात्मार्थं प्र˙˙ यम्(योजयेत्) ॥ ४४ ॥ 88
कुर्यादायादि सर्वेषां चोक्तवच्छिल्पिवित्तमः ।
अन्या(न्यो)न्यमन्यतो ग्राह्यं चोक्तवत्तत्र(त्त)वित्तमः ॥ ४५ ॥
ब्रह्माविष्णु[श्च] रुद्राणां बुध(द्ध)स्य ज(जि)नकस्य च ।
अन्यैश्च˙˙व(न्येषां च प्रतिमानामेवं) मानं तु संग्रहम् ॥ ४६ ॥ 92
एवं तु चोत्सवादीनां स्थावरं(र) जङ्गमादिनः(दीनाम्) ॥
इति मानहारे वास्तुशास्त्रे प्रतिमाविधानं नाम चतुःषष्टितमोऽध्यायः ॥