सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 428, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 428

[अध्याय ६५] उत्तमदशतालविधानम् ३६३
नखं तत्पार्श्वयोश्चैव शेषं तु तत्समाङ्गु(मांस)लम् ।
यवहीनाधंवेदांशं तर्जनीदीर्घकं भवेत् ॥ १२ ॥ 24
पादहीनं चतुर्भागं मध्यमाङ्गुलमायतम् ।
सयवत्र्यंशकं चैवानामिकायाममिष्यते ॥ १३ ॥
अर्धींशकद्वयाङ्गुल्यं कनिष्ठाङ्गुलदीर्घकम् ।
यवाधिक्यांशकं सार्ध यवहीनांशकं तथा ॥ १४ ॥ 28
यवाधिकं त्रिपादं च त्रिपादं तद्यथाक्रमम् ।
प्रादेशिन्यादि कनिष्ठान्तं विस्तारं तत्प्रशस्यते ॥ १५ ॥
स्वस्वतारार्धविस्तारं नखं प्रागुक्तवद् भवेत् ।
गुल्फार्विं(च्छि) मध्यसूत्रं तु तल(ला)ग्रान्तं तलायतम् ॥ १६ ॥ 32
षड्यवाधिकमष्टांशं तत्सूत्रात्पार्ष्णिमूलकम् ।
वेदांशं चायतं तारं यवोपेताशरांशकम् ॥ १७ ॥
पश्चात्पार्ष्णिकपर्यन्तं बह्वयधींशकमायतम् ।
पाष्णिमूलं षडंशं स्याद् गुल्फाधो त(धस्त)नप्रदेशके ॥ १८ ॥ 36
तलमध्यमविस्तारं षडंशं यद्वयवाधिकम् ।
अग्रतारं षडंशं तु तद्घनं च त्रयाङ्गुलम् ॥ १९ ॥
पादमध्योच्छ्रयं सार्धवेदमात्रं प्रशस्यते ।
अङ्गुलीनां द्वि(त्रि)पर्व(वं) स्याच्छ्रेधं युक्त्या प्रयोजयेत् ॥ २० ॥ 40
सपादभूताङ्गुलं चैव गुल्फतारमिति स्मृतम् ।
सपादवेदाङ्गुलं चोर्ध्वं नालिकाविस्तृतं भवेत् ॥ २१ ॥
जङ्घामध्ये च विस्तारं सार्धषण्मात्रं मानयेत् ।
जङ्घामूलस्य विस्तारं वसुमात्रं प्रशस्यते ॥ २२ ॥ 44
नवाङ्गुलं प्रकर्तव्यं जानुदेशविशालकम् ।
ऊरुमध्यविशालं तु द्वादशाङ्गुलमीरितम् ॥ २३ ॥
सार्धत्रयोदशांशं स्यादाङ्गमूलविशालकम् ।
विंशांशं च कटितारमूर्ध्वं श्रोणि विशालकम् ॥ २४ ॥ 48
सार्धमष्टादशाङ्गुल्यं मध्योदरविशालकम् ।
षोडशांशं भवेच्चोर्ध्वं हृदयावधितारकम् ॥ २५ ॥
49