सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 424, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 424

[अध्यायः ६४] प्रतिभाविधानम् ३८९
नवमेकादशं चैव द्व्यधिक्यं वाथ हीनकम् ।
एवं लिङ्गवशात्प्रोक्तं विष्णुबेरवशो(शादु)च्यते ॥ १२ ॥ 24
मूलबेरसमं वापि नेत्रान्तं वा पुटान्तकम् ।
हन्वन्तं बाहुसीमान्तं स्तनान्तं हृदयान्तकम् ॥ १३ ॥
नाभ्यन्तं मेढ्रसीमान्तं नवमानं चोत्सवोदयम् ।
तदर्धं कौतुकोत्सेधं कन्यसादि त्रयं त्रयम् ॥ १४ ॥ 28
शुद्धगर्भगृहं कृत्वा नन्दनन्दोदयं भवेत् ।
तदेवं नवमानं स्यान्नवतिविधमानकम् ॥ १५ ॥
एवं गर्भगृहमानवशन्मानं प्रकल्पयेत् ।
प्रासादविधृ(स्तु)ते मानं गर्भगृहप्रमाणवत् ॥ १६ ॥ 32
शुद्धद्वारोदयं वाथ विस्तारे ००० [चाया]मे [ए]व वा ।
तत्पादाधिकहीनं वा तत्त(च्चो)योर्मध्यमानके ॥ १७ ॥
समं वा पादमाधिक्यं द्वारमानं दशो(नवो)दयम् ।
अधिष्ठानोदयं चैव पादतुङ्ग(ङ्गं) द्वयं ततः ॥ १८ ॥ 36
प्रत्येकं नवधा कृत्वा नवमानमुदीरितम् ।
हस्तादिनवहस्तान्तं हस्तमानवशोदयम् ॥ १९ ॥
तालादिनवताळान्तं नवताळादिमानकम् ।
मुष्ट्यादि नवमुष्ट्यन्तं मुष्टिमाननवोदयम् ॥ २० ॥ 40
कर्तृतुङ्गसमं वापि नेत्रान्तं च पुटान्तकम् ।
हन्वन्तं स्कन्धसीमान्तं स्तनान्तं हृदयान्तकम् ॥ २१ ॥
नाभिमेढ्रविधानं स्यात्कर्तृमानं नवोदयम् ।
एतेषां चाष्टमानं तज्जात्यंशैस्तु नियोजयेत् ॥ २२ ॥ 44
तन्मानं शिल्पिभिः प्राज्ञा(ज्ञैः) षट्शुभायादि कारयेत् ।
अशुभायादिकं चोक्तं त्रिंशद्भाग(गे) विभाजिते ॥ २३ ॥
तद्भागैकेन वृद्धिः स्याद् यश्रु(च्छु)भायादिसंभवम् ।
सकलं चोत्सवादीनां यश्रु(च्छु)भांशावसानकम् ॥ २४ ॥ 48
अंशकं मानमेवोक्तमङ्गुलैर्मानमुच्यते ।
यल्लिङ्गतुङ्गं संग्राह्यं चतुर्विंशच्छतान्तकम् ॥ २५ ॥