मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 387, कुल 856 में से
संदर्भ में पढ़ेंपीठलक्षणम्
सर्वेषामपि लिङ्गानां वच्यते पीठलक्षणम् ।
लिङ्गतारं त्रिथापीठं(ठ)तारं स्वयम्भुलिङ्गके ॥ १ ॥
अथवा लिङ्गनाहे तु स्थूलदेशे समं भवेत् ।
लिङ्गतुङ्गसमं वापि तत्पादाधिकमेव वा ॥ २ ॥ 4
अध्यर्धं वा त्रिपादेनं द्विगुणं त्रिगुणं तु वा ।
स्वयम्भुलिङ्गपीठस्य चोत्सेधमिति कथ्यते ॥ ३ ॥
एवं पूज्यां(लिङ्गं)शमानेन पीठं तन्मानयेद् बुधः ।
पूर्वोक्तमानलिङ्गानामधुना पीठलक्षणम् ॥ ४ ॥ 8
लिङ्गस्य बाह्यदेशे तु लिङ्गतारं समन्ततः ।
यल्लिङ्गपरिणाहस्य समं वा पीठविस्तृतम् ॥ ५ ॥
वैष्णवांशं समोत्सेधं पीठं स्वस्तिकलिङ्गके ।
अथवा पादांशाधिक्यं ब्रह्मांशे संभवं(महं) भवेत् ॥ ६ ॥ 12
अन्यैस्तु सर्वलिङ्गानां ब्रह्मांशोदयं बुधैः ।
कुर्यात्तन्मान(नं) संग्राह्य द्वित्रिवेदशरांशकम् ॥ ७ ॥
तदेकांशाधिकं विष्णुमानं पीठोदये तथा ।
पीठांशसार्धयोर्दे(र्धोदे)शे वैष्णवांशं नवधाश्र(श्रि)तम् ॥ ८ ॥ 16
पीठं तु योजयेत्तत्तद्विस्तारे तु त्रिभागिकम् ।
एकांशं नालदीर्घ(दैर्घ्यं) स्यान्मूलविस्तारं तत्समम् ॥ ६ ॥
चतुर्भागेकांशहीनं स्यात् शे(च्छे)षाग्रविस्तृतम् ।
अथवा पञ्चत्र्यंशेन चापनालं(ल) विशालकम् ॥ १० ॥ 20