मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 364, कुल 856 में से
संदर्भ में पढ़ें५०] भूपबाललक्षणम् ३२६
पत्रद्वयसमायुक्तं चायसेनेव कारयेत् ।
दार्विकं चायसे वापि तुला(लां) युक्त्वा च कारयेत् ॥ ९६ ॥ 192
जिह्वां च तोरणां वापि सर्वथा लोहजं भवेत् ।
बन्धयेन्त्रि(द्)गलैः पत्रैः(त्रे) द्विषण्डे चोभयाग्रकौ ॥ ९७ ॥
तुलालक्ष्य(लक्षण)मिदं प्रोक्तं शेषं युक्त्या प्रयोजयेत् ।
भूपानां दक्षिणे हस्ते मध्यमालक्ष्यमुच्यते ॥ ९८ ॥ 196
पत्रतुल्यं(ङ्गं) युगाङ्गुल्यं पीठे तुङ्गद्वयाङ्गुलम् ।
नालं द्वादशमात्रं स्यादायाममिति कथ्यते ॥ ९९ ॥
पत्रतारं द्वयाङ्गुल्यं पीठतारं तथैव च ।
पत्रपृष्ठं(पीठं) तदर्घाशं वक्रतुङ्गं तु निश्चितम् ॥ १०० ॥ 200
नालतारा(रम)र्धमात्रं स्यात्पीठयुक्तं तुलां(नालं) घनम् ।
मूलं तु सूक्ष्मसूचिवत्कुर्यात्तद्विचक्षणः ॥ १०१ ॥
मूले च त्रित्रिमात्रे तु नालतारार्धं विस्तृतम् ।
तदूर्ध्वे च त्रिमात्रे तु त्रिधा विस्तृतं भवेत् ॥ १०२ ॥ 204
सुवृत्त(त्तं) नालदेशे तु पत्रमूले तु कर्णयुक् ।
स्निग्धं च पुलकैर्युक्तं हेमरत्नैः(खाभिः) स्वलङ्कृतम् ॥ १०३ ॥
पत्रे तु ब्रह्मदैवत्यं(तं) पीठे तु विष्णुदैवतम् ।
नाले तु रुद्रदैवत्यं(तं) सूक्ष्मं(कर्णे) चैव सरस्वती ॥ १०४ ॥ 208
एवं तु चाधिदैवत्यं(तं) कर्णमेवं प्रकल्पयेत् ।
सर्वेषामपि नीलं(डं) च चलं वाप्यचलं भवेत् ॥ १०५ ॥
एकहस्तं समारभ्य त्रित्र्यङ्गुलविवर्धनात् ।
साष्टाष्टपञ्चमात्रान्तं कन्यसादि त्रयं त्रयम् ॥ १०६ ॥ 212
मृगनाभिविलाडस्य पञ्जरस्य विशालकम् ।
तदर्धं च त्रिपादं च तत्समं पाद्मा(म)धिकम् ॥ १०७ ॥
अत्यर्धे[को]न [च] तस्यैव शान्तिकादिशरांशकम् ।
द्वो(भौ)मात्रस्तरान्तं वा मस्तकान्तं शिखान्तकम् ॥ १०८ ॥ 216
नवाङ्गुलं समारभ्य द्विय्यङ्गुलविवर्धनात् ।
त्रयोविंशाङ्गुलान्तं स्यात्कन्यसादि त्रयं त्रयम् ॥ १०९ ॥
41