सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 365, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 365

३३० मानमारे [ध्यायः
शुकपञ्जरविस्तारं नवधा परिकीर्तितम् ।
उत्सेधं पूर्ववत्कुर्यात्समग्रं चापि विस्तृतम् ॥ ११० ॥ 220
सप्ताङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ।
त्रयोविंशाङ्गुलान्तं स्यान्नवधा कन्यसादिभिः ॥ १११ ॥
चातकस्य चकोरस्य पञ्जरस्य विशालकम् ।
विस्तारं द्विगुणं वापि त्रिगुणं वा चतुर्गुणम् ॥ ११२ ॥ 224
आयाममिति हि प्रोक्तमुत्सेधं पूर्ववद् भवेत् ।
एतत्तु दण्डाकारं मरालस्यापि योग्यकम् ॥ ११३ ॥
तदेव चतुरश्रं स्यान्नीडं पारावतस्य च ।
पञ्चविंशाङ्गुलमारभ्य षट्षडङ्गुलवर्धनात् ॥ ११४ ॥ 228
सैकाष्टकनन्दमात्रान्तं कन्यसादि त्रयं त्रयम् ।
पञ्जरं नीलकण्ठस्य नवधा विस्तृतं भवेत् ॥ ११५ ॥
सममेवं विशालं स्यादुत्सेधं पूर्ववद् भवेत् ।
पञ्चाङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ॥ ११६ ॥ 232
एकविंशाङ्गुलान्तं स्यात्कन्यसादि त्रयं त्रयम् ।
कुञ्जरीयकुलालस्य नवधा विस्तृतं भवेत् ॥ ११७ ॥
उत्सेधं पूर्ववत्कुर्यात्समतारं समाश्रकम् ।
सप्ताङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ॥ ११८ ॥ 236
त्रयोविंशाङ्गुलान्तं स्यात्कन्यसादीनि पूर्ववत् ।
विशालं नवधा प्रोक्तं खञ्जरीटस्य पञ्जरम् ॥ ११९ ॥
समाश्रं चतुरश्रं स्यादुत्सेधं पूर्ववद् भवेत् ।
पञ्चदशाङ्गुलमारभ्य द्व्यङ्गुलविवर्धनात् ॥ १२० ॥ 240
एकाद(कत्रिं)शाङ्गुलान्तं स्यान्नवधा कन्यसादिभिः ।
कुक्कुटस्य कुलालस्य विशालं तुङ्गं पूर्ववत् ॥ १२१ ॥
एकादशाङ्गुलमारभ्य द्व्यङ्गुलविवर्धनात् ।
सप्तविंशाङ्गुलान्तं च कन्यसादि त्रयं त्रयम् ॥ १२२ ॥ 244
विशालं पूर्ववत्तं तु नकुलस्यापि पञ्जरम् ।
चटकस्य पञ्जरस्य विचित्रीवोक्तवत्कुरु ॥ १२३ ॥

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश) · पृष्ठ 365, कुल 856 में से · SarvaKosh