सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 350, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 350

४९] मौलिलक्षणम् ३१५
चक्रवर्त्यादि(र्त्यधि)राजस्य(योर्) महिषीमकुटोदयम् ।
अन्यत्सर्वं (अन्यसर्वं)महिषीणां मुखायामसमं बुधैः ॥ २६ ॥ 52
पादोनं च तदर्धं वा धम्मिल्ला[ल]कादिको(द्यो)दयम् ।
शेषं प्रागुक्तवन्मानं कुर्यात्तत्र विचक्षणः ॥ २७ ॥
शिरोनाहं त्रिभागैकं पट्टखो(स्यो)दयमेव च ।
एवं पट्टधरं(रस्य) प्रोक्तं पट्टमेवं शिरोवृत्तम् ॥ २८ ॥ 56
चतुर्भागीकपट्टं स्यात्तुङ्गानां मण्डलेश्वरम्(स्य) ।
पट्टमेवं शिरोनाहे षड्भागे चैकभागिकम् ॥ २९ ॥
पट्टभागाख्यभूपस्य पट्टतुङ्गमथैव च ।
सर्वानां(वेषां) चेति प्रोक्तमलङ्कारमिहोच्यते ॥ ३० ॥ 60
दशवर्णांश्च हे(र्हे)मादिभिर्माल्यादीनां प्रकल्पयेत् ।
पञ्चशत(तं) सहस्रं च निष्कं च द्विसहस्रकम् ॥ ३१ ॥
अथवा पञ्चशताधिक्यं निष्कान्तं द्विसहस्रकम् ।
कन्यसादुत्तमान्तं स्यात्स्वर्णसंख्यात्रयोदिते ॥ ३२ ॥ 64
प्राप्तं च मङ्गलं चैव वीरं च विजयं तथा ।
चतुर्विधाभिषेकस्य चक्रवर्तेश्च कथ्यते ॥ ३३ ॥
तदर्धं चावरोधस्य हिरण्य(ण्यं) मकुटस्य वा ।
द्विसहस्रान्त[तन्]मुक्तादित्रयसमं तथा [चैव] ॥ ३४ ॥ 68
अधिराजस्य मकुटे स्वर्णसंख्याप्रकीर्तितम्(ता) ।
पञ्चशतनिष्कमारभ्य पञ्चशतविवर्धनात् ॥ ३५ ॥
पञ्चाशतसहस्रादि(न्तं) कन्यसादुत्तमान्तकम् ।
पट्टयुक्तं तथाबेरे भूपानां च विशेषतः ॥ ३६ ॥ 72
एवं नरेन्द्रभूपस्य हेम स्यान्मकुटस्य च ।
चतुःशतनिष्कमादौ चतुःशतविवर्धनात् ॥ ३७ ॥
शतद्वादशनिष्कान्तं कन्यसादि त्रयं त्रयम् ।
पार्ष्णिकस्य शिरस्त्रस्य हेमं(म) तत्परिकीर्तितम् ॥ ३८ ॥ 76
त्रिशतनिष्कमारभ्य त्रिशतनिष्कविवर्धनात् ।
निष्कं नवशतान्तं स्यात्कन्यसादुत्तमान्तकम् ॥ ३९ ॥