सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 345, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 345

कल्पवृक्षविधानम्
देवानां चक्रवर्त्यादिभूपालानां च योग्यकम् ।
कल्पवृक्षादिन(दे)स्तारं मानं लक्षणमुच्यते ॥ १ ॥
तोरणोदयपादं तु पादार्धाधिकोदयम् ।
एवं वृक्षस्य तुङ्गस्य भा(ङ्गानि चा)सनस्योपरि न्यसेत् ॥ २ ॥
आसनायाममध्ये तु तोरणस्योपरि न्यसेत् ।
षट्सप्ताष्टाङ्गुलं वापि मानदेवा(ष्टा)ङ्गुलेन वा ॥ ३ ॥
कल्पवृक्षस्य मूले तु विशालं परिकीर्तितम् ।
तत्तदेकाङ्गुलाहीनं वृक्षस्याग्रविशालकम् ॥ ४ ॥
वृक्षपादमिति प्रोक्तं चक्र(पत्र)वल्लयादिभूषितम् ।
अथवा ऋज्वाङ्ग(ज्वङ्गं) तं कुर्यान्मूलादग्रविशालकम् ॥ ५ ॥
भुजङ्गेनावृतं पादं मूर्ध्नि पञ्चफणान्वितम् ।
उल्लासनफणं सर्वं स्फुरज्जिह्वेक्षणान्वितम् ॥ ६ ॥
षट्सप्ताष्टनवाङ्गुल्य(ङ्गान्ति) दशमैकादशाङ्गुलम् ।
द्वादशाङ्गुलमेवं वा सैकार्काङ्गुलमेव वा ॥ ७ ॥
चतुर्दशाङ्गुलान्तं स्यान्नवभेदफणान्वितम् ।
तत्समं मध्यविस्तारं किञ्चिद्धीनाग्रविस्तृतम् ॥ ८ ॥
तदर्धं मूलविस्तारं पुच्छाग्राङ्गुलकं ततः ।
आमूलाग्रं चयं कुर्याद्युक्त्या च सर्वरूपकम् ॥ ९ ॥
वक्रं व्यालान्तरं भावे शेषं युक्त्या प्रयोजयेत् ।
तदूर्ध्वं वृक्षशाखाश्च नवपङ्क्तीश्च शाखयुक् ॥ १० ॥
एकादश च शाखाश्च त्रयोविंशच संख्यया ।
तन्नवविधं प्रोक्तं कन्यसादि त्रयं त्रयम् ॥ ११ ॥