मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 342, कुल 856 में से
संदर्भ में पढ़ें४६] तोरणविधानम् ३०७
तदेव रत्नपुष्पैश्च नानालङ्कारसंयुतम् ।
यक्षविद्याधराद्यैश्च युक्तं स्याच्चित्रतोरणम् ॥ २६ ॥ 52
ग्राहकिम्ब(न्न)रीसंयुक्तं चित्रपद्मादिभिर्विना ।
सर्वाङ्गं पुष्पसंयुक्तं सर्वालङ्कारसंयुतम् ॥ २७ ॥
पुष्पतोरणमित्युक्तं मकरन्दैश्च पुष्पकम् ।
सर्वाङ्गं नवरत्नैश्च ग्राहकिन्नरभूषितम् ॥ २८ ॥ 56
ग्राहपुच्छादिसर्वेषां सर्वरत्नेन बन्धयेत् ।
रत्नतारागणैर्युक्तं कुक्षि रा(घा)तृतलम्बितम् ॥ २९ ॥
तोरणस्योपरि देशे तु भुजङ्गपादद्वयोरपि ।
ग्राहान्तं सर्वरत्नैश्च पूरितं श्रेणिसंयुतम् ॥ ३० ॥ 60
रत्नतोरणमित्युक्तं सर्वालङ्कारसंयुतम् ।
वाजनपाद(दा)लङ्कारं सर्वं प्रागुक्तवन्नयेत् ॥ ३१ ॥
[तोरणस्य] कृतं मध्ये कमलां(क्षं) कुर्यात् [तु] वारकम् ।
तन्मध्ये कल्पयेल्लक्ष्मीं नानालङ्कारभूषित(ता)म् ॥ ३२ ॥ 64
ना(ता)टिकाफलकामुष्टिवन्धनं पत्रवल्लिकम् ।
मकरं किम्प(न्न)रीवक्त्रं नाटकादि(दौ) भुजङ्गवत् ॥ ३३ ॥
केसरिमण्डनं भवति चित्रतोरणनाटकैः ॥ ३४ ॥
पत्रपुष्पमयरत्नतोरणैः 68
चित्रहीनमित्युच्चभूषणैः ।
कल्पयेत्क्वपि च रत्नतोरणैः
चित्रहीनमित्युच्चभूषणैः ॥ ३५ ॥
कल्पयेत्क्वपि च तोरणैः 72
पुष्पहीनमथ पत्रहीनकम् ।
रत्नहीनमथ पत्रतोरणैः
पद्मायुक्तमथ पुष्पतोरणैः ॥ ३६ ॥
पत्रपुष्पनहि(हीने) चान्यभूषणम् । 76
कल्पयेत्क्वपि शिल्पिवरैः ॥ ३७ ॥
इति मानसारे वास्तुशास्त्रे तोरणविधानं नाम षट्चत्वारिंशोऽध्यायः ॥