सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 341, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 341

३०६ मानमारे [अध्यायः
पादतारसमं वापि द्विगुणं वाजनोदयम् ।
तद्दीर्घं फलकान्तं वा चतुष्पञ्चाङ्गुलान्ति(न्त)कम् ॥ १२ ॥ 24
वाजनादितोरणो(णं) ह्येवं केवलं वाथ तोरणम् ।
तोरणस्योक्ततुङ्गे तु चाष्टभागं विभाजिते ॥ १३ ॥
तदेवं पञ्चभागाङ्घ्रितुङ्गं बन्धा(त्र्यां)शतोरणम् ।
अथवा नवशिकं(के) तुङ्गे षड्भागं चाघ्रि(ङ्घ्रि)तुङ्गकम् ॥ १४ ॥ 28
दशभागे सप्तभागे तु पादं शेषांशतोरणम् ।
देवानां भूपतीनां च स्थानकस्यासनस्य च ॥ १५ ॥
वृत्तं वाथ त्रियुग्मं वा चार्धचन्द्राकृतिस्त(त)था ।
जना(त्रिधा) चाप(पा)कृतिर्वा(वा)पि यथेष्टाकारं तोरणम् ॥ १६ ॥ 32
मध्यात्तु भ्रामयेच्छिल्पी वृत्ताकारं च तोरणम् ।
तदर्धे नासिकादौ तद् भ्रामयेदर्धचन्द्रकम् ॥ १७ ॥
तदर्धेन द्विपार्श्वे तु भ्रामयेद्धनुराकृतिम् ।
त्रिभुजं तत्समं नीत्वा तोरणं युक्तितो न्यसेत् ॥ १८ ॥ 36
पत्रं पुष्पं च रत्नं च चित्रतोरणमेव च ।
एवं चतुर्विधं प्रोक्तं देवानां च त्रिमौलिनाम् ॥ १९ ॥
अन्येषां भूपतीनां च पुष्पं रत्नं च तोरणम् ।
पत्रवल्यादि[भिः] संभूष्य पत्रतोरणमीरितम् ॥ २० ॥ 40
नानापुष्पैरलङ्कृत्य पुष्पतेोरणमेव च ।
सर्वरत्नैरलङ्कृत्य कर्तव्यं रत्नतोरणम् ॥ २१ ॥
नानालङ्कारसंयुक्तं यक्षविद्याधरादिभिः ।
तच्चित्रतोरणं प्रोक्तं पूर्वोक्तानां तु संमतम् ॥ २२ ॥ 44
सर्वेषां तोरणमध्ये चोर्ध्वे तुम्बु(म्बु)रुनारदम् ।
तत्प्रदेशे द्विपार्श्वे तु मकरादिविभूषितम् ॥ २३ ॥
तोरणस्याग्रमूले तु गुहा(ग्राह)पत्रैश्च भूषितम् ।
तोरणार्थं तु पत्रादिभूतवल्यासनान्वितम् ॥ २४ ॥ 48
पादानां च द्विपार्श्वे तु व्याल(लं) तोरणधारिणम् ।
पत्रतोरणमित्युक्तं शेषं युक्त्या प्रयोजयेत् ॥ २५ ॥