मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 340, कुल 856 में से
संदर्भ में पढ़ेंतोरणविधानम्
देवानां भूपतीनां च भूषणार्थं (?गृहादीनां) च तोरणम् ।
तल्लक्षणं विधानं च यथा सम्यक् प्रवक्ष्यते ॥ १ ॥
आसनोपरि विन्यस्य(सेत्) सर्वेषामपि तोरणम् ।
विस्तारे मध्यसूत्रस्य चापरे तोरणा[नि] न्यसेत् ॥ २ ॥
पीठतारार्धभागे तु मध्ये चाङ्घ्रिकमध्यमम् ।
अथवा वह्निभागैकद्वांशं चापरपूर्वके ॥ ३ ॥
तन्मध्ये तोरणस्तम्भं मध्यं वा सर्वतो न्यसेत् ।
पीठायामं त्रिभागैकं द्व्यंशायामार्धमेव वा (च) ॥ ४ ॥
पीठायामे चतुर्भागे त्रियं(त्रयां)शं चाघ्रि(ङ्घ्रि)कान्त[र]म् ।
अथवा पञ्चषट्सप्ताष्टभागैकहीनकम् ॥ ५ ॥
स्तम्भमध्ये तु बाह्ये वा पूर्ववच्चान्तरं तु वा ।
पीठतारसमोच्चं वा सपादाधिकमेव वा ॥ ६ ॥
त्रिपादाधिकोत्सेधं तत्समं वाधिकोन्नतम् ।
आयामसदृशोत्सेधं तत्पादाधिकमेव वा ॥ ७ ॥
अर्धं त्रिपादं तत्तुल्याधिकं वा तोरणोदयम् ।
तेन मानोदयं सर्वं शुद्धतोरणमानकम् ॥ ८ ॥
त्रिचतुष्पञ्चषट्सप्तचा(ष्टा)ष्टनन्ददशाङ्गुलम् ।
एकादशाङ्गुलं वापि नवधा तोरणोदयम् ॥ ९ ॥
त्रिचतुष्पञ्चषण्मात्रं पादविष्कम्भमिष्यते ।
तत्समं च त्रिपादं च सा(चा)र्धं वा बहलं भवेत् ॥ १० ॥
पादं सतोरणं कुर्यात्तोरणाङ्घ्रिं परिन्यसेत् ।
पादाग्रे पट्टिकोपेतं तन्मानं वक्ष्यतेऽधुना ॥ ११ ॥
38