सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 339, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 339

३०४ मानमारे [अध्यायः ४५]
अस्त्रग्राहस्य नृपतेः सिंहपादं न कारयेत् ।
क्षुद्रभूपविशां शूद्रैः ऽ(द्राणाम्पु)पपीठादि योजयेत् ॥ ९४ ॥
चतुरश्र(स्र)समायुक्तं सर्वेषां सर्वमासनम् । 192
देवानां मौलिनामुक्तं युक्तं सर्वेषु योग्यकम् ॥ ९५ ॥
प्रथमासनादि सर्वेषां भूपानां तान्युदीरितम् ।
षट्पादेन समायुक्तं सिंहरूपं प्रकल्पयेत् ॥ ९६ ॥
तत्सर्वं प्राङ्मुखं कुर्याद्विपरीतं चेद्विनाशनम् । 196
देवानामासनानां तु चतुर्दिक्षु निरीक्ष्यकम् ॥ ९७ ॥
त्रिय(त्रया)ङ्गुलं समारभ्य द्वियङ्गुलविवर्धनात् ।
नवपङ्क्त्यङ्गुलान्तं स्यात्सर्वेषां पादतुङ्गकम् ॥ ९८ ॥
एवं च विविधं प्रोक्तं यन्मानोरम्यं मानयेत् । 200
पादोत्सेधं नवांशं स्यात्सिंहतुङ्गं युगांशकम् ॥ ९९ ॥
शेषं तु पूर्ववत्कुर्याद्युक्त्या तत्रैव योजयेत् ॥ १०० ॥
आदितो(त उ)क्तमुपचक्रवर्त्यै
सिंहमुद्रितमनोहरासनम् । 204
अष्टभूपतिभिश्च केसरी
लाञ्छितं त्वथ मनोहरासनम् ॥ १०१ ॥
प्रथमासनं मङ्गलासनम्
अथ वीरविजयाख्यासनम् । 208
नवभूपतिविशेषतत्त्वम्
अथ सामान्यमुदीरितं बुधैः ॥ १०२ ॥
विष्णुरुद्रजिनकेन्द्र(बौद्ध)मुख्यकैः(कानां) सर्वदेवगणचक्रवर्तिने ।
आसनानि कथितानि तानि वै चोत्सवाश्च(वानि) कथितानि सु(सू)रिभिः ॥ १०३ ॥
इति मानमारे वास्तुशास्त्रे सिंहासनलक्षणविधानं नाम पञ्चचत्वारिंशोऽध्यायः ॥