सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 334, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 334

४५] सिंहासनलक्षणम् २६६

पञ्चाङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ।
एकविंशाङ्गुलान्तं स्यान्नित्योत्सवासनोदयम् ॥ २६ ॥
एवं नवविधं प्रोक्तं कन्यसादीनि पूर्ववत् ।
सप्ताङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ॥ २७ ॥
त्रयोविंशाङ्गुलान्तं स्याद्विशेषार्चानोदयम् ।
क्षुद्रादि त्रित्रिमानं स्यात्कुर्यात्तु पूर्ववत् क्रमात् ॥ २८ ॥
नवाङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ।
पञ्चत्रिं(विं)शाङ्गुलान्तं स्यात्कन्यसादिनवोदयम् ॥ २९ ॥
महोत्सवासनं त्वेवं यथाक्रमेण पूर्ववत् ।
त्रिचतुष्पञ्चषण्मात्रं सप्ताष्टकनवाङ्गुलम् ॥ ३० ॥
दशैकादशमात्रान्तं नवभेदमुदीरितम् ।
कन्यसाद्युत्तमान्तं स्याच्छिखरोदयमेव च ॥ ३१ ॥
नवाङ्गुलं समारभ्य चैकैकाङ्गुलवर्धनात् ।
सप्तदशाङ्गुलान्तं स्यात्प्रथमासनतुङ्गकम् ॥ ३२ ॥
एकादशाङ्गुला(लमा)रभ्य नवपञ्चत्त्वङ्गुलान्तकम् ।
मङ्गलासनमु(नो)त्तुङ्गं नवभेदमुदीरितम् ॥ ३३ ॥
त्रयोदशाङ्गुला(लमा)रभ्य चैकविंशाङ्गुलान्तकम् ।
वीरासनमिति प्रोक्तं नवधा तुङ्गमेव च ॥ ३४ ॥
पञ्चा(ञ्च)दशाङ्गुला(लमा)रभ्य त्रयोविंशाङ्गुलान्तकम् ।
नवभेदमिति प्रोक्तं विजयासनतुङ्गकम् ॥ ३५ ॥
विस्तारे चतुरङ्गे वा षट्शुभायादि कारयेत् ।
त्रिचतुष्पञ्चषड्वृद्ध्या चाष्टहानिंश्च योनयः ॥ ३६ ॥
षट्सप्ताष्टकवृद्ध्या तु द्वादश[भिः] क्षपयेद् बुधः ।
शेषमायमिति प्रोक्तं सप्ताष्टनववर्धनात् ॥ ३७ ॥
दशभिः क्षपयेच्छेषमेवं व्ययमुदीरितम् ।
अष्टनन्ददशे(श)वृद्ध्या सप्तविंशे(श)क्षयो भवेत् ॥ ३८ ॥
शेषं दिनमिति प्रोक्तं वृद्ध्याष्टनन्दनाधिका ।
सप्तके चन्द्रेगे(हृतके) शेषं वारमेवमुदीरितम् ॥ ३६ ॥

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश) · पृष्ठ 334, कुल 856 में से · SarvaKosh