सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 335, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 335

३०० मानमारे [अध्यायः
त्रिधतुष्पञ्चवृद्धा तु क्षपयेत्तु नवांशकम् ।
गजयोनिं विनाकुर्यात्सिंहासनम्(नि) यथाशुभम् ॥ ४० ॥ 80
आयाधिक्यं व्ययहीनं सर्वसंपच्छुभावहम् ।
आयहीनं व्ययाधिक्यं सर्वसम्पद्विनाशनम् ॥ ४१ ॥
धूमयोनिश्च काकाञ्च गर्दभान् श्वानं वर्जयेत् ।
अन्ययोनिः शुभं(भा) सर्वे(र्वी) शुभयोनिमिह योजयेत् ॥ ४२ ॥ 84
सर्वेषां मानमित्युक्तं गण्यमानमिहोच्यते ।
सोपपीठमधिष्ठानं केवलं वा मसूरकम् ॥ ४३ ॥
केवलं चोपपीठं वा कुर्यात् सिंहासनं बुधः ॥ ४४ ॥
अंशं जन्म शशिसार्धं पद्म(पाद्)कम् 88
कम्पकर्णं शरमर्धं कम्पकम् ।
अंशमब्जं शशि बाजनो(नमु)परि
क्षेपमर्धं रविभागतुङ्गके ॥ ४५ ॥
वेदिभद्रं(द्रं) विविधा(ध)कपोतधृक् 92
चोध्वँयोगभुव(र्गलं वि)ना कपोतका ।
देवभूपति यत्योर्यथा तथासने
योग्यमेव कृतय(म)स्तु मूलके ॥ ४६ ॥
आसनस्योदयार्धं वा त्रिभागैकोनमेव वा । 96
उपपीठोदयं ह्येव चोक्ततुङ्गेऽधिकं तु वा ॥ ४७ ॥
शेषं मसूरकं वापि समाधिष्ठानतुङ्गकम् ।
उत्सेधर्विभागे तु जन्मतुङ्गं शिवांशकम् ॥ ४८ ॥
तदूर्ध्वे सार्धकम्पं स्यात्पाद(दं) भागेन योजयेत् । 100
त्रिपादाधिकमंशेन महापद्मं प्रयोजयेत् ॥ ४९ ॥
तदूर्ध्वे सार्धभागेन कर्णवृत्तं च पद्मकम् ।
कन्धरं चार्धभागेन तत्समं चोपरिष्टा(त)था ॥ ५० ॥
कम्पवृत्तदलं कुर्यात्तदूर्ध्वेऽर्धेन पद्माकम् । 104
एकांशं कुम्भवृत्तं स्यात्तदूर्ध्वेऽर्धेन पद्मकम् ॥ ५१ ॥