मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 333, कुल 856 में से
संदर्भ में पढ़ें२६८ मानमारे [अध्यायः
विस्तारं च तथा प्रोक्तं नित्योत्सवस्य चासने ।
आयामं पूर्ववत्कुर्याद् द्विगुणान्तं यथाक्रमम् ॥ १२ ॥ 24
नवपङ्क्त्यङ्गुला(लमा)रभ्य द्व्यङ्गुलविवर्धनात् ।
पञ्चत्रिंशाङ्गुलान्तं स्याद्विस्तारं परिकीर्तितम् ॥ १३ ॥
महोत्सवे चासनं ह्येवं कन्यसादि त्रयं त्रयम् ।
विस्तारं(र)द्विगुणायामं पादोनद्विगुणं तु वा ॥ १४ ॥ 28
विस्तारार्धायतं वापि पादाभ्यन्तरमानकम् ।
पाद्वाह्यावसानं स्यात्पादमध्यावसानकम् ॥ १५ ॥
विस्तारे चायते कुर्यान्मानमेवं तु सर्वतः ।
एवं तु देवतानां च महीपानां च वक्ष्यते ॥ १६ ॥ 32
पञ्चा(चा)दशाङ्गुला(लमा)रभ्य द्व्यङ्गुलविवर्धनात् ।
सैकत्रिंशाङ्गुलान्तं स्यात्प्रथमवासनमेव च ॥ १७ ॥
विस्तारं नवधा प्रोक्तं कन्यसादि त्रयं त्रयम् ।
तस्मादर्धाधिकं वापि त्रिपादाधिकमेव वा ॥ १८ ॥ 36
तत्समेना(नं वा)धिकं वापि त्रिविधं चायतं तथा ।
सप्तदशाङ्गुला(लमा)दौ स्याद् द्व्यङ्गुलविवर्धनात् ॥ १६ ॥
पञ्चत्रिंशतिमात्रान्तं नवतारं तु पूर्ववत् ।
वीरासनमिति प्रोक्तं दीर्घं(दैर्घ्यं) प्रागुक्तवन्नयेत् ॥ २० ॥ 40
एकविंशाङ्गुलमारभ्य द्व्यङ्गुलविवर्धनात् ।
सप्तत्रिंशाङ्गुलान्तं स्याद्द्विजवासनं विस्तृतम् ॥ २१ ॥
नवभेदमिति प्रोक्तं दीर्घं(दैर्घ्यं) पूर्ववदाचरेत् ।
विस्तारमायतं प्रोक्तं तत्तत्तुङ्गमथोच्यते ॥ २२ ॥ 44
एकाङ्गुलं समारभ्य चैकाङ्गुलविवर्धनात् ।
नवाङ्गुलान्तमुत्सेधं कन्यसादि त्रयं त्रयम् ॥ २३ ॥
आत्मनश्चासनोत्तुङ्गं तद्विस्तारवशात्क्रमात् ।
वह्न्यङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ॥ २४ ॥ 48
नन्दपङ्क्त्यङ्गुलान्तं स्यान्नित्यार्चनासनोदयम् ।
एवं नवविधं प्रोक्तं विस्तारस्य वसा(शान्) न्यसेत् ॥ २५ ॥