मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 31, कुल 856 में से
संदर्भ में पढ़ेंकारणागमे वैखानसागमे कामिकागमे चेदं तालमानं समुपवर्णितम् (१) । मानसारस्य पञ्च-
षष्टितमषट्षष्टितमाध्याययोरुत्तमदशताललक्षणं मध्यमदशताललक्षणे यथाक्रमं विशेषेणोदा-
हृते । ततः प्रलम्बलक्षणाभिधेऽध्याये समभङ्ग आभङ्गोऽतिभङ्गस्त्रिभङ्गश्चेति भङ्गस्थानां मूर्तीनां
कतिभिः शिरसः पार्श्वादिभ्यश्च निर्गताभिः काल्पनिकीभी रेखाभिर्मानादिकं निर्द्धारितम् ।
ततो मधूच्छिष्टनाम्न्यध्याये मूर्तीनां स्वर्णरजतादिनिर्मितानां मधूच्छिष्टादिना शोधनं वर्णि-
तम् । ततो मूर्तीनां तथा च गृहादीनां निर्माणदोषपरिहारार्थोऽङ्गदूषणविधाननामकोऽध्यायः ।
अन्तिमे सप्ततितमे नयनान्मीलनाध्याये मूर्तीनां निर्माणशेषे चक्षुरुन्मीलनं वर्णितम् ।
अस्य मानसारस्य सप्ततिसंख्यकेष्वध्यायेषु प्रथमाष्टकं प्राथमिकं प्रस्तावनामूलकमानु-
षङ्गिकविषया