मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 30, कुल 856 में से
संदर्भ में पढ़ेंभूमिका [ ख
भूमिलम्बविधानं वर्णितम् । प्रसङ्गक्रमेण कतिसंख्यकतलेषु गृहेषु के के वसन्तीत्येतदपि
निर्धारितम् । अनन्तरं सर्वप्रकाराणां वास्तूनां गर्भन्यासविधिः, उपपीठलक्षणम्, अधिष्ठान-
विधिः, स्तम्भलक्षणम्, प्रस्तरविधिः, सन्धिकर्म च विस्तरेण वर्णितानि । ततो विमान-
लक्षणाभिधेऽध्याये सर्वप्रकाराणां गृहाणां कतिचित् साधारणविवरणानि कृतानि । ततो
द्वादशसु प्रकरणेष्वेकाद्विद्वादशान्ततलानि विस्तरेण प्रतिपादितानि । ततः प्राकारनामक-
वास्तुविशेषस्य विस्तृतं विवरणम् । परिवारकाख्येऽध्याये मन्दिरस्य प्राङ्गणे कुत्र केषां
परिवारदेवानां गृहाणि भवेयुरित्यालोचितम् । ततः षोडशतलान्तानां गोपुराभिधानानां देव-
मानवसदनबहिर्द्वारगृहाणां विशदं विवरणं कृतम् । तत एकस्मिन् सुदीर्घप्रकरणे मण्डपानाम्,
अन्यस्मिंश्च शालानां वर्णनमस्ति । ततो गृहविन्यासो गृहप्रवेशश्चेति द्वे प्रकरणे । एवं क्रमेण
सर्वप्रकाराणां हर्म्याणां द्वारमानं द्वारस्थानं चाध्यायद्वयं वर्णितम् । तदनु राजहर्म्यवर्णनानन्तरं
राज्याङ्गस्य भूपतीनां च लक्षणानि कृतानि । ततो यानरथादिलक्षणम् । अथ क्रमेण शयनं
सिंहासनं तोरणं चाध्यायत्रये विवृतानि । प्राङ्गणमध्यरङ्गनामकस्य वास्तुविशेषस्य वर्णनं
तथा तोरणासनमण्डपप्राङ्गणादीनां भूषणार्थं कल्पवृक्षलक्षणमध्यायद्वये ततो लभ्यम् ।
ऊनपञ्चाशत्तमे प्रकरणे नानाविधराजमुकुटराजाभिषेकवर्णनं कृत्वा सर्वप्रकाराणां गृहाभर-
णानां तथाऽङ्गाभरणानां च वर्णनं भूषणानामके पञ्चाशत्तमेऽध्याये कृतम् ।
ततो विंशतावध्यायेषु भास्कर्याणां वर्णनम् । तत्रैकपञ्चाशत्तमेऽध्याये ब्रह्मादित्रिमूर्ति-
लक्षणम् । शिवलिङ्गस्य तत्पीठस्य च लक्षणमध्यायद्वयं विस्तृतम् । शक्तिनामकेऽध्याये
स्त्रीमूर्तीनां भेदा लक्षणानि च वर्णितानि । बौद्धदेवानां जैनदेवानां च मूर्त्तिवर्णनं ततः परं
दृश्यते । अनन्तरं मुनिलक्षणं यक्षविद्याधरादिलक्षणं च । ततो भक्तलक्षणाङ्केऽध्याये
सालोक्यसामीप्यसारूप्यसायुज्यभेदभिन्नानां महापुरुषाणां मूर्त्तिलक्षणं विशदीकृतम् ।
ततो देववाहनानां मूर्त्तिलक्षणम्—तत्राध्यायचतुष्टये हंस-गरुड-वृषभ-सिंहलक्षणानि
क्रमेणालोचितानि । परवर्त्तिन्यध्याये प्रतिमाविधानाख्ये सर्वविधप्रतिमानां किञ्चित्साधारणं
विवरणं प्रदत्तम् ।
अतःपरं तालमानं विशदीकृतम् । तालमानं तु मूर्त्तीनां पादादिमस्तकान्ताङ्गप्रत्यङ्गानामा-
पेक्षिकं षड्विधं मानादिकम् । तथा हि—मानं प्रमाणं परिमाणं लम्बमानमुन्मानमुपमानं
चेति । अत्र मानसारे तालमानस्य दश एव भेदाः । परन्तु बिम्बमाने द्वादश भेदाः स्वीकृताः ।
काश्यपीये अंशुमद्भेदे बृहत्संहितायां ब्रह्माण्डपुराणे मत्स्यपुराणे शिल्परत्ने सुप्रभेदागमे
( ९ )