सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 288, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 288

३५] शालाविधानम् २५३
सनन्दविंशात्र्यंशं च हस्तान्तं रुद्रसंख्यया ।
एतत्तु विस्तृतं प्रोक्तं द्विगुणान्तं पूर्ववदिति ॥ १५२ ॥ 304
आयाममिति तत्प्रोक्तमुत्सेधं पूर्ववद् भवेत् ।
विस्तारे दशभागे(गं) तु द्वादशांशं तथायतम् ॥ १५३ ॥
द्विचतुर्भागविस्तारमा(रा)यामं [च] मध्यमाङ्गणाम् ।
तद्बाह्ये परितोऽलिन्दं द्व्यंशं शेन मे(वै)व वा ॥ १५४ ॥ 308
तद्बाह्ये परितः शालाविस्तारं तद्वि(द्वि)भागिकम् ।
तत्समेनावृतालिन्दं तद्बहिः परिकल्पयेत् ॥ १५५ ॥
ईशे चैकतलं कुर्यादाग्नेये द्वितलं भवेत् ।
वायव्ये त्रितलं कुर्यान्नैर्ऋत्ये पञ्चभूमिकम् ॥ १५६ ॥ 312
याम्ये च पश्चिमे चैव दण्डकं च चतुःष(स्त)लम् ।
पूर्वे च चोत्तरे मध्ये दण्डकं चैकभूमिकम् ॥ १५७ ॥
चतुष्कोणे द्विभागेन गृहविस्तारदीर्घ(दैर्घ्य)कम् ।
पूर्वे च द्विद्वीभागेन मुखमण्डपमीरितम् ॥ १५८ ॥ 316
पश्चिमे तत्समं कुर्यान्मण्डपं तत्प्रकल्पयेत् ।
दक्षिणे चोत्तरे मध्ये त्रिचतुर्भागेन मण्डपम् ॥ १५६ ॥
शेषं तु चावृतालिन्दं कुर्यात्तत्पञ्जरान्वितम् ।
द्विचतुर्भागविस्तारं पार्श्वयोर्भद्रसंयुतम् ॥ १६० ॥ 320
पृष्ठे च द्वौ(द्व्ये)कभागेन भद्रं कुर्याद् विचक्षणः ।
पूर्वे च त्रिचतुर्भागं मुखद्वारं तु संयुतम् ॥ १६१ ॥
सर्वेषां भद्रपार्श्वे तु पूर्वे चैकेनालिन्दकम् ।
सोपपीठमधिष्ठानं पादादीन्(दि)प्रस्तरन्वितम् ॥ १६२ ॥ 324
कर्णहर्म्यादिवर्गाह्यं चान्तरं प्रस्तरन्वितम् ।
कूटकोष्ठादिसर्वाङ्गं नासिकापञ्जरान्वितम् ॥ १६३ ॥
कुम्भकुम्भवल्लै(लतै)र्युक्तं तोरणादिविभूषितम् ।
सर्वेषां मकराज्ञाना(ननैः) सर्वालङ्कारसंयुक्तम् ॥ १६४ ॥ 328
शिरोग्रोवशिखायुक्तं नासिकावेदिकान्वितम् ।
एवं तु वर्धमानं स्यात् क्षत्रियाणां तु योग्यकम् ॥ १६५ ॥