मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 273, कुल 856 में से
संदर्भ में पढ़ें२३८ | मानमारे | [अध्यायः
नवभागं तु विस्तारं तत्समांशमुख्यायतम् ।
मध्यरङ्गं त्रिभागं स्यादंशेनावृत(ता)लिन्द्र(न्द)कम् ॥ २३६ ॥ 472
तद्बहिश्च द्विभागेन मण्डपावृतमेव च ।
तस्मात्त्रिभागषड्भागं विस्तारायामरङ्गकम् ॥ २३७ ॥
कुर्यात्तु शिल्पि(ल्प)विद्भूभिर्मुखमण्डप(पं) मध्यमे ।
तत्पुरे पार्श्वयोश्चैव ए(चै)कभागेन(ना)लिन्द्र(न्द)कम् ॥ २३८ ॥ 476
तद्बहिस्तद्वशात्कुर्यान्मण्डपं तद्व्यंशकम् ।
शेषं प्रागुक्तवत्कुर्यात् श्री(च्छ्रो)रूपाख्यं च मण्डपम् ॥ २३६ ॥
एवं देवालये कुर्याद् भूपा[भिषे]कयोग्यकम् ।
दशभागविशालं स्याद्द्विंशत्यंशं तदायतम् ॥ २४० ॥ 480
मध्यरङ्गं युगांशं स्यान्मध्यस्तम्भान् परित्यजेत् ।
तद्बहिश्चावृतांशेन(ना) लिन्द्रं(न्दं) द्व्यंशेन मण्डपम् ॥ २४१ ॥
तद्बहिश्चावृतांशेन चोर्ध्वं तु जलस्थलम् ।
तस्मात्तु तन्मुखे रङ्गं द्व्यंशं षड्भागमेव च ॥ २४२ ॥ 484
तन्मुखे पार्श्वयोश्चैव मण्डपाकारं योजयेत् ।
मङ्गलाख्यमिति प्रोक्तं शेषं तु पुरतो(त ऽ)क्तवत् ॥ २४३ ॥
एवं तु नृपहर्म्ये तु तुलाभारार्थयोग्यकम् ।
भूपानां च यथास्थाने(न)मण्डपं बक्ष्यते क्रमात् ॥ २४४ ॥ 488
एकादशविभागेन मूलविस्तारदीर्घ(दैर्ध्य)कम् ।
तत्समांशेन विस्तारमेकद्वित्रिमुख्यायतम् ॥ २४५ ॥
विस्तारसमसूत्रं स्यात्कुर्यादास्थानमण्डपम् ।
मूलमण्डपमध्ये तु पञ्चपञ्चाशरङ्गकम् ॥ २४६ ॥ 492
तद्बाह्ये द्वित्रिभागेन परितो मण्डपं भवेत् ।
चतुर्दिक्षु चतुर्द्वारं कर्णे लाङ्गलभित्तिकम् ॥ २४७ ॥
बाह्ये च द्वित्रिभागेन भृतालिन्दकम्[कं भवेत्] ।
चतुर्दिक्षु [द्वि]त्रिभागेन भद्रद्वारखसंयुतम् ॥ २४८ ॥ 496
पार्श्वे सोपानसंयुक्तं हस्तिहस्तविभूषितम् ।
सोपपीठमधिष्ठानं स्तम्भादीन्प्रस्तरान्वितम्(तान्) ॥ २४६ ॥