सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 271, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 271

तत्पुरे च द्विभागेन युक्ता मध्ये तु चाङ्गिकम् ।
तत्पुरे च द्विपार्थे च ए(तु चै)कभागेनलिन्द्र(नालिन्द)कम् ॥ २०८ ॥ 416
तद्बहिश्श्रावृतांशेन मण्डपानां तु अ(त्व)लिन्दकम् ।
मध्ये च(द्वा)रं तु संकल्प्य विस्तारे चाथ दैवतम् ॥ २०६ ॥
तद्द्विद्विभागेन विस्तारं निर्गमं भद्रसंयुक्तम् ।
एकं वाथ द्वयं वापि द्वारं च त्रयमेव च ॥ २१० ॥ 420
तद्बहिश्श्रावृतांशेन कुर्यादावृतालिन्दकम् ।
सर्वालङ्कारसंयुक्तं कर्णहर्म्यादिमण्डितम् ॥ २११ ॥
द्रोणाख्यं मण्डपं प्रोक्तं देवाराभं प्रकल्पयेत् ।
अथवा भूपतीनां च आ(तु चा)त्मार्थ यजनार्थकम् ॥ २१२ ॥ 424
विप्राणां शुभकर्मार्थ सन्ध्यायोज्यकमण्डपम् ।
अथवा तपस्विनीनां च मठं वा नाटकाहक(हित)म् ॥ २१३ ॥
एकभागाधिकायामं विस्तारं पूर्ववत्क्रमात् ।
षट्त्रिंभागाङ्कयां मध्ये परितद्विं(ती यां)शेन मण्डपम् ॥ २१४ ॥ 428
ललाटे मण्डपे पूर्वे चैकभागेनलिन्द्र(नालिन्द)कम् ।
एवं तु भूपहर्म्ये तु मल्लयोग्यं तु कारयेत् ॥ २१५ ॥
तस्मा[द्] द्व्यंशाधिकायामं विस्तारं सप्तभागिकम् ।
पञ्चांशं चैकपङ्क्त्यंशं तन्मध्ये चाङ्गयं भवेत् ॥ २१६ ॥ 432
तद्बाह्यं परितः कुर्यादेकभागेन वेदिकाम् ।
एतद् द्रोणं च भूपानामायुधाभ्यासमण्डपम् ॥ २१७ ॥
पञ्चदशांशकं दीर्घ(दैर्घ्यं) नेत्रत्रिभागमण्डपम् ।
तत्पुरेऽलिन्द्र(न्द)मेकांशं नवांशेन युताङ्गकम् ॥ २१८ ॥ 436
तत्पार्थे पुरतश्चैव युगांशेन खल्लूरिकाः ।
द्रोणाख्यमण्डपं चैव मेषयुद्धार्थयोग्यकम् ॥ २१६ ॥
अष्टादशविस्तारमायामं [च] तत्र कल्पयेत् ।
तन्मध्ये द्विद्विभागेन कल्पयेद् विवृताङ्गकम् ॥ २२० ॥ 440
तद्बहिश्श्रावृतांशेन कुर्याच्चैका खलूरिका ।
तद्बहिश्च द्व्यंशेन मण्डपं परितस्तथा ॥ २२१ ॥