मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 270, कुल 856 में से
संदर्भ में पढ़ें३४] मण्डपविधानम् २३५
चतुर्दिग्भद्रसंयुक्तमेकदित्रिकभागिकम् । ३८८
देवानां च विलासार्थं शृङ्गाराख्यं तु मण्डपम् ॥ १६४ ॥
आयामं चाष्टभागेन विस्तारं पूर्ववद् भवेत् ।
तद्भागे द्विचतुर्भागं तन्मध्ये चाङ्गणं भवेत् ॥ १६५ ॥
तद्बहिश्चावृतांशेन कुर्यात्तत्तदलिन्द्र(न्द)कम् ।
तद्बहिश्चावृतांशेन मण्डपं द्वि(द्व्यं)शमेव वा ॥ १६६ ॥ ३९२
चतुर्वासं चतुष्कर्णे द्वित्रिभागेन योजयेत् ।
तद्बहिश्चैकभागेन परितो वारमिष्यते ॥ १६७॥
तद्दीर्घे(दैर्घ्यं) मध्यसूत्रं तु(त्रस्य) वामे द्वारं तु पूर्ववत् ।
वंशमूलाग्रयोः सर्वे(र्वं) कर्करीकृतनेत्रकम् ॥ १६८ ॥ ३९६
द्व्यंशैकं तत्र विस्तारं निर्गमं भद्रसंयुक्तम् ।
सर्वेषामपि वर्णानां सु(सृ)गतं सर्वदेशिकम् ॥ १६९ ॥
चतुर्भागाधिकायामं विस्तारं पूर्ववद् भवेत् ।
ललाटे द्व्यंशविस्तारं रसभागं तदायतम् ॥ २०० ॥ ४००
पुरतः पृष्ठवामे(भागे) तु ए(चै)कभागेनलिन्द्र(नालिन्द)कम् ।
वंशमूले तु वासं स्यात्कुर्यात्तु द्वित्रिभागतः ॥ २०१ ॥
शेषं प्रागुक्तवत्सर्वं युक्त्या तत्रैव योजयेत् ।
तदेवाग्रे चतुर्भागं चोक्तवन्मण्डपं तु वा ॥ २०२ ॥ ४०४
केचित्षडष्टभागेन विस्तारायाम(मं) कल्पयेत् ।
ललाटे द्वि(द्व्यं)शषड्भागं विस्तारायाम(मं) मण्डपम् ॥ २०३ ॥
एकांशे तत्पुरेऽलिन्द्रं(न्दं) द्वित्रिभागाङ्गणं भवेत् ।
तत्पुरे पार्श्वयोः शेषं महावा(द्वा)रं तु कल्पयेत् ॥ २०४ ॥ ४०८
ललाटे द्वि(द्व्यं)शविस्तारमा(रा)यामं मण्डपं भवेत् ।
एवं तु प्रागतं प्रोक्तं सर्वकर्मसुखावहम् ॥ २०५ ॥
सप्तांशं तु(क्रम)विस्तारं नवभागं तदायतम् ।
त्रिभागं(गेन) पञ्चभागेन चाङ्गणं विस्तृतायतम् ॥ २०६ ॥ ४१२
तद्बहिश्च द्विभागेन परितो मण्डपं भवेत् ।
अथवा तन्त्रिभागेन ललाटे मण्डपं भवेत् ॥ २०७ ॥