मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 266, कुल 856 में से
संदर्भ में पढ़ें३४] मण्डपविधानम् २६१
तदंशोनावृतालिन्दं त्र्यंश(शं) मध्ये तु मण्डपम् ।
मध्यस्तम्भं तु सर्वेषां युक्त्या द्वारं प्रयोजयेत् ॥ १३८ ॥ 276
तन्मुखे द्व्यंशमावृत्य(तं) द्वा˚ शेषं तथाङ्गणम् ।
परितश्चैकभागेन तद्बाह्ये भ्रम(मा)लिन्द्र(न्द)कम् ॥ १३९ ॥
एवं तु सौख्यकं प्रोक्तं शे˚ प्रागुक्तवन्नयेत् ।
नदीतीरे तटाके वा सिन्धुतीरे प्रकल्पयेत् ॥ १४० ॥ 280
सर्वेषां(वार्सां) देवतानां च तीर्थयोग्यं प्रकीर्तितम् ।
पञ्चदशांशविस्तारमेकविंशायतं तथा ॥ १४१ ॥
अथवा चतुरश्रं स्याच्चतुर्द्वारसमन्वितम् ।
तन्मध्ये पञ्चभागेन सप्तभागाङ्गणं तथा ॥ १४२ ॥ 284
तद्बाह्ये परितोऽंशेन कुर्यादन्तर(रा)लिन्दकम् ।
खलूरिकापि तद्बाह्ये त्रित्रिभागेन मण्डपम् ॥ १४३ ॥
तद्बाह्यावृतालिन्दमेकभागेन कारयेत् ।
तद्बहिश्चावृतांशेन कारयेद् भ्रमालिन्दकम् ॥ १४४ ॥ 288
पञ्चाशं द्वि(द्व्यं)शविस्तारं निर्गमं भद्रसंयुक्तम् ।
मण्डपस्य बहिर्देशे प्रपां परितस्तु कारयेत् ॥ १४५ ॥
मण्डपे चोर्ध्वकूटं स्यान्मालिकाकृति(तिं) विन्यसेत् ।
अथवा रुद्र(तत्तोरण)संयुक्तं वातायनसमन्वितम् ॥ १४६ ॥ 292
कर्णे(र्णौ) ककर(कर्करी)भद्रं स्याद्युक्त्या तत्रैव योजयेत् ।
सर्वालङ्कारसंयुक्तं मालिकाख्यं तु मण्डपम् ॥ १४७ ॥
मध्या(ध्य)कर्णे जलं पूर्य(र्ये) जलं पुष्पैरलङ्कृतम् ।
एवं वसन्तयोग्यं स्याद् देवानां क्षत्रियादि(दी)नाम् ॥ १४८ ॥ 296
षोडशांशेन विस्तारं द्वात्रिंशायामकं तथा ।
पूर्ववच्चतुरश्रं स्यान्मध्यस्तम्भानपरित्यजेत् ॥ १४९॥
मध्याङ्गणं तु षड्भागं शेषं प्रागुक्तवन्नयेत् ।
तदेव षोडशांशे तु मध्यरङ्गात(ङ्गै) षडंशकम् ॥ १५०॥ 300
तद्बाह्यावृतांशेन चान्तर(रा)लिन्दमिष्यते ।
तद्बहिश्च त्रियं(त्र्यं)शेन मण्डपं परितस्तथा ॥ १५१ ॥