सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 265, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 265

२३० मानंसारे [अध्यायः
दशांशं चतुरश्रं स्यात्षट्षडंशं तु मध्यमे ।
ऊर्ध्वकूटसमायुक्तं परितो द्वयंशेन मण्डपम् ॥ १२४ ॥ 248
मध्ये द्वारं द्विभागं स्याद् द्विषड्भागेन चाग्रतः ।
तद्भागेन द्विभागेन द्वारे(र)पार्श्वे तु वेदिकम् ॥ १२५ ॥
परितोऽलिन्द्र(न्द)भागेन वारणं मुखभद्रकम् ।
अथवा नेत्रभद्रं स्यात् शे(च्छे)षं युक्त्या प्रयोजयेत् ॥ १२६ ॥ 252
दर्भाख्यं मण्डपं प्रोक्तं कुञ्जरस्यालयं तथा ।
एकादशांशविस्तारमायतं विंशदंशकम् ॥ १२७ ॥
एकभाग(गं) द्विभागं वा मण्डपं परितस्तथा ।
शेषं तु चाङ्गणं मध्ये चेष्टदिग्द्वारसंयुक्तम् ॥ १२८ ॥ 256
अष्टमेकैकपङ्क्तिः स्यादश्वानां निलयान्वितम् ।
कौशिकं मण्डपं प्रोक्तं शेषं युक्त्या प्रयोजयेत् ॥ १२९ ॥
द्वादशांशं तु विस्तारमायामं तद्द्वयं भवेत् ।
अष्टांशं चाङ्गणं मध्ये परितः द्वयंशेन मण्डपम् ॥ १३० ॥ 260
इष्टदिगवा(ग्द्वा)रसयुक्तमिष्टदिग्गतभित्तिकम् ।
कूलधारामित्युक्तं गोसहस्रैर्वा(इवा)सयोग्यकम् ॥ १३१ ॥
त्रयोदशांशविस्तारं समाश्रं वायताश्रकम् ।
विस्तारं च यदायामं युक्त्या तत्रैव योजयेत् ॥ १३२ ॥ 264
सप्तांशं विस्तृतं मध्ये कल्पयेदङ्गणं भवेत् ।
तस्य बाह्यावृतांशेन कारयेत्सन्मसूरकम् ॥ १३३ ॥
विस्तारद्वयमायामशेषं युक्त्या प्रयोजयेत् ।
तद्वाह्ये मण्डपं कुर्याद् द्विं(ह्यं)शेनावृतमेव च ॥ १३४ ॥ 268
चतुर्दिक्षु चतुर्द्वारमिष्टदिग्गतभित्तिकम् ।
तत्तद्बाह्यावृतांशेन कुर्यात्तत्समलिन्द्र(मालिन्द)कम् ॥ १३५ ॥
पञ्चांशं चन्द्र(द्व्यंशं) विस्तारं निर्गमं भद्रसंयुग् ।
सुखाङ्गाख्यमिति प्रोक्तं सत्रयोग्यं तु मण्डपम् ॥ १३६ ॥ 272
मन्वंशसमविस्तारम(रं तत्समा)धिका(कमा)यतम् ।
दक्षिणे पश्चिमे वापि चतुर्दंशांशमायतम् ॥ १३७ ॥