मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 264, कुल 856 में से
संदर्भ में पढ़ें३४] मण्डपविधानम् २२१
तन्मध्ये (ध्यां) शासनादीनां तोरणं कल्पवृक्षकम् ।
तन्मानं चोक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ॥ ११० ॥ 220
मण्डपे द्वे(द्वि)विमानं स्यादेकं वा द्वितलं तु वा ।
मण्डपाग्रे प्रपाङ्गं स्याद्यथेष्टायामं कल्पयेत् ॥ १११ ॥
तस्य मध्ये त्रिभागेन विस्तारमायामं चोक्तवद् भवेत् ।
नाटकादि प्रच्छादनं शेषभागावृत्तं प्रपा ॥ ११२ ॥ 224
प्रपामैकद्विभागं वा कर्णे लाङ्गलभित्तिकम् ।
तन्मुखे त्यंश(शं) विस्तारं भद्रमंशेन निर्गमम् ॥ ११३ ॥
विस्तारसमभद्रं वा सोपानं मुखभद्र(पार्श्व)योः ।
शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ॥ ११४ ॥ 228
अथवा मण्डपदेवाख्ये द्वित्रिभागेन पूर्ववत् ।
अथवा मण्डपाख्ये(द्ये) तत्प्रपासंयुक्तं बाह्यके ॥ ११५ ॥
एकभाग(गं) द्विभागं वा परितोऽलिन्द्र(न्द)मिष्यते ।
शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ॥ ११६ ॥ 232
अथवा मण्डपो[प]देशे सप्तसप्तांश(शं) हृत्तिकम् ।
त्रिपञ्चांशेन विस्तारमायामं मध्यरङ्गतम् ॥ २१७ ॥
तद्वाह्ये चैकभागेन मण्डपं परितस्तथा ।
तन्मुखे च (द्वि) त्रिभागेन भद्रं शेषं तु पूर्ववत् ॥ ११८ ॥ 236
अथवा मण्डपाद्ये तत्प्रपासयुक्तं बाह्यके ।
एकभाग(गं) द्विभागं वा परितोऽलिन्द्र(न्द)मिष्यते ॥ ११९ ॥
शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ।
शतपाद्युतं वाथ सहस्राङ्घ्रिक(कं) मण्डपम् ॥ १२० ॥ 240
युक्त्या तद्भक्तिमध्येन यथेष्टायतविस्तृतम् ।
देवानां भूपतीनां च कुर्यादास्थानमण्डपम् ॥ १२१ ॥
अष्टांशं चतुरश्रं वा नवांशं चतुरश्रकम् ।
तत्तदायाममेवं च भूपतीनां च योग्यकम् ॥ १२२ ॥ 244
मण्डपं पूर्ववत्कुर्याद्देवता(वस्यः) चोत्सवार्थकम् ।
साङ्गाख्या तु कृताख्या स्यात्कुट्याथो रङ्गकं सुधीः ॥ १२३ ॥