सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 184, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 184

१९] एकतलविधानम् १४६
पञ्चधा रु(र)चितं नालं विस्तारं परिकीर्तितम् ।
वितस्त्याः स्तूपि(सार्धाङ्घ्रि)हस्तान्तं पञ्चधायाममीरितम् ॥ ८२ ॥ 164
एतत्क्षुद्रा(द्र)विमाने तु मध्यदेशस्य वामके ।
पूर्वदिक्कोत्तरे वापि युक्त्या नालं प्रयोजयेत् ॥ ८३ ॥
यथापूर्वोक्तमानं तु तदूर्ध्वं च गुणांशकम् ।
मध्यमे चोत्तमे हर्म्ये दन्तनालं प्रमाणकम् ॥ ८४ ॥ 168
यथाधिष्ठानतुङ्गं तत्समं नालोदयं भवेत् ।
उत्सेधे च त्रिभागैकं तस्याधो चाम्रलम्बनम् ॥ ८५ ॥
नालमूलविशाले तु भूतभागं विभाजिते ।
त्रयांशं चाम्रविस्तारं लम्बनं पञ्चभागिकम् ॥ ८६ ॥ 172
कुड्‌मलोञ्च(शं) त्रिभागं स्यात्पद्ममेकेन कारयेत् ।
तदूर्ध्वं वाजनं चांशं युक्त्या च समलङ्कृतम् ॥ ८७ ॥
धराय(द्वारं वा) वाथ वृत्तं वा भद्रवा(द्वा)रं स्वलङ्कृतम् ।
एकद्वित्र्यङ्गुलो वापि चतुष्पञ्चाङ्गुलेन वा ॥ ८८ ॥ 176
मूलविस्तारमुत्सेधं युक्त्याच्छिद्रं प्रकल्पयेत् ।
मूलपादत्र्यंशेन चाग्रे छिद्रं(द्र) विशालकम् ॥ ८९ ॥
मूले तुङ्गं स(सिंह)वक्त्रं स्यात्तदा स्यान्निर्गमोदयम् ।
रम्भानालं प्रसूनाभं कुर्यात्तच्छिल्पि(ल्प)वित्तमः ॥ ९० ॥ 180
शीर्षं च शिखा ग्रीवं वृत्तं स्याद्वैजयन्तिकम् ।
तदेव कर्णकूटं चेद्वा भोगमिति कीर्तितम् ॥ ९१ ॥
तन्मध्ये भद्रसंयुक्तं श्रीविशालमिति स्मृतम् ।
तदष्टाश्रं शीर्षं स्यात्स्वस्तिबन्धमिति स्मृतम् ॥ ९२ ॥ 184
तदेवं चतुरश्रं चेच्छिखरं श्रीकरं भवेत् ।
तद्द्व्यश्रवृत्तसंयुक्तं हस्तिपृष्ठमुदाहृतम् ॥ ९३ ॥
शिरो ग्रीवे षडश्रं स्यात्स्कन्धतारमिहोच्यते ।
मध्ये भद्र(द्रं) विशालं स्यात्कर्णकूटोपसंयुक्तम् ॥ ९४ ॥ 188
तच्छालाभद्रनास्यङ्गं शिरो ग्रीवं तु वृत्तकम् ।
अथवा चतुरश्रं स्यात्केसरं तत्प्रकथ्यते ॥ ९५ ॥