सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 179, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 179

१४४ मानसार [अध्यायः
कन्धरं तत्समं कुर्यात्तद्द्वयं शिखरोदयम्(यः) ।
तदर्धं स्तूपिकोत्तुङ्गं वक्रं बहुविधमीरितम् ॥ १२ ॥ 24
हर्म्यताराष्टभागैकं हीनं वेदिविशालकम् ।
क्वचतुर्भागमेकांशं हीनं ग्रीवविशालकम् ॥ १३ ॥
शिखरालम्बनान्तं च वेदितारसमन्वितम् ।
लम्बनं [च] त्रिभागै(गमे)कं मध्यनासिविशालकम् ॥ १४ ॥ 28
तत्समं च त्रिपादं वा चार्धं वा निर्गमं भवेत् ।
मध्यनासिविशाले तु चतुर्विंशद्विभाजिते ॥ १५ ॥
तन्त्रिभागं तु तुङ्गं स्यात्पञ्चांशं त्र्यंशमेव वा ।
स्थितस्य लुपमूलं तु तदूर्ध्वं नासिकन्धरम् ॥ १६ ॥ 32
तदर्धं च त्रिभागं च कन्धरं मूर्ध्नि तत्समम् ।
तत्तुङ्ग्यं मौलितुङ्गं स्याद्युक्त्या तत्पालिकान्तकम् ॥ १७ ॥
मध्यनास्यर्धमानेन सान्तरं नासिमानकम् ।
नासिकाग्राननं सर्वं किम्बरीसमलङ्कृतम् ॥ १८ ॥ 36
नासितारं(र) त्रिभागैकं कुञ्चितारमिति स्मृतम् ।
भूतादिचित्रसंयुक्तं सर्वालङ्कारसंयुक्तम् ॥ १९ ॥
लम्बनोर्ध्वे दलं ब[न्]ध्वा सर्वालङ्कारसंयुतम् ।
आोग्राग्रं(अग्राङ्गं) पत्रसंयुक्तं भूष्यै(षणैः) पट्टैरलङ्कृतम् ॥ २० ॥ 40
करोटीवदलङ्कृत्य लम्बने पत्रसंयुतम् ।
पालिके लम्बनं तत्र श्रेण्या दर्पणवृत्तवत् ॥ २१ ॥
युक्ता्वलङ्कारसंयुक्तं शेषं प्रागुक्तवन्नयेत् ।
ग्रीवोर्ध्वं [तु] त्रिभागै(गमे)कं वेदिकोदयमीरितम् ॥ २२ ॥ 44
तत्समं तु गलाग्रे तु चोत्तरादीनि वर्गकम् ।
तदेवावालम्बनं तत्र गोपानादिश्रियान्वितम् ॥ २३ ॥
वेदितुङ्गसमं कुर्यात्क्षुद्रनासिविभूषितम् ।
अथवा तुङ्गमाने तु दशभागं विभाजिते ॥ २४ ॥ 48
सपादांशमधिष्ठानं तदूर्ध्वं पादतुङ्गकम् ।
तदर्धं प्रस्तरोच्चं तु चाश्विन्यंशे[न] गलोदयम् ॥ २५ ॥