मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 178, कुल 856 में से
संदर्भ में पढ़ेंएकतलविधानम्
एकभूमिविधिं वक्ष्ये (धानं च) लक्षणं वक्ष्यतेऽधुना ।
जातिश्छन्दं विकल्पं तु चाभासं तु चतुर्विधम् ॥ १ ॥
पूर्वहस्तेन संयुक्तं हर्म्यं जातिरिति स्मृतम् ।
छन्दं त्रिपादहस्तेन विकल्पं स्यात्तदर्धकम् ॥ २ ॥ 4
आभासं चार्धहस्तेन हर्म्यादीनां तु मानयेत् ।
एतदायादिशुद्ध्यर्थं स्थानकादि त्रिधा भवेत् ॥ ३ ॥
उत्सेधे मान(नं) गृ(ग्रा)ह्यं चेत्स्थानकं तत्प्रकथ्यते ।
विस्तारे मान(नं) संकल्प्य चासनं तदुदीरितम् ॥ ४ ॥ 8
परिणाहे पदे वापि मानं शयनमीरितम् ।
आसनं संचितं प्रोक्तं स्थानकं स्यात्त्वसंचितम् ॥ ५ ॥
अपसंचित(तं) शयनं चे(स्या)त्तत्तत्त्रिविधहर्म्यके ।
स्थानकादि यस्य मूलं बिम्बहर्म्यं यथाक्रमम् ॥ ६ ॥ 12
कुर्यात्तत्तद्विमाने(द्विम्बं तु) स्याद्विपरीतं विनाशनम् ।
समाश्रं समवृत्तं यत्पुरुषं चेति कथ्यते ॥ ७ ॥
आयताकारधिष्ण्यं वा वनितेति प्रकीर्तितम् ।
पुंविमाने पुरुषं [च] वनितायां(ते) वनितां क्षिपेत् ॥ ८ ॥ 16
शक्तीनां वनितं(तां) वापि पुरु ˙ वापि कल्पयेत् ।
विस्तारोत्सेधभक्तिश्च पूर्ववच्चोक्तवत्क्रमात् ॥ ९ ॥
कुर्यात्तदेकभौमस्य कन्यसादीनि तुङ्गकम्(कानि) ।
आगम्य(कृत्य)म(चा)ष्टधा हर्म्यं गण्यमानमिहोच्यते ॥ १० ॥ 20
उत्सेधे चाष्टभागे तु चैकांशेन मसूरकम् ।
द्विभागं चाङ्घ्रिकोत्तुङ्गं मञ्चमेकेन कारयेत् ॥ ११ ॥