मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 126, कुल 856 में से
संदर्भ में पढ़ें१४] अधिष्ठानविधानम् ६१
तदूर्ध्वं चांश(शं) कम्पं चं तत्समं चोर्ध्वकन्धरम् ।
कम्पमेकं तदूर्ध्वं तु पद्ममेकेन कारयेत् ॥ १७१ ॥
कपोतोर्ध्वं त्रियं(त्रयां)शं स्यादेकांशं कन्धरं भवेत् ।
तत्समो(ममू)र्ध्वं प्रतिं चैव कुम्भमष्टांशमेव च ॥ १७२ ॥ 344
कपोते भद्रपट्टं स्यात्पत्रपट्टकमेव च ।
एतच्चतुर्विधं प्रोक्तं कम्पबन्धं प्रकीर्तितम् ॥ १७३ ॥
(कम्पबन्धम्)
षट्षड्भागकृते तुङ्गे जन्मादी(दि)वाजनान्तकम् ।
चतुर्भागेन जन्म स्यात्क्षुद्रोपानं शिवांशकम् ॥ १७४ ॥ 348
महाब्जं पञ्चभागं स्यात्क्षुद्राब्जं तु शिवांशकम् ।
तदूर्ध्वं कम्पमेकेन निम्नमंशेन योजयेत् ॥ १७५ ॥
तदूर्ध्वं वाजना(नमं)शं तत्समं चोर्ध्वं पद्मकम् ।
महाब्जोच्चसमं कुम्भं तदूर्ध्वं चाब्जमंशकम् ॥ १७६ ॥ 352
कम्पमेकं तदूर्ध्वं तु चालिङ्गोपरि चांशकम् ।
तदूर्ध्वन्तरितं चांशं प्रति(र्ति) द्वयंशेन योजयेत् ॥ १७७ ॥
तस्योर्ध्वं वाजनं चांशं क्षेपणं चैकभागिकम् ।
तस्योर्ध्वं कन्धरं चांशं कम्पमेकेन कारयेत् ॥ १७८ ॥ 356
पद्यमंशं तदूर्ध्वं तु कपोतांशं त्रियं(त्रयां)शकम् ।
आलिङ्गमंशकं चोर्ध्वं प्रतिमेकेन कारयेत् ॥ १७९ ॥
(श्रीकान्तम्)
वृत्तं वा तत्र पट्टं वा कुम्भं(म्भ)देशे विशेषतः ।
श्रीकान्तं चतुर्विधं(तथाविधं) प्रोक्तं सर्वालङ्कारशोभितम् ॥ १८० ॥ 360
तदेव (अष्टत्रिंशत्) तुङ्गभागे[न] त्र्यंशं चोपानतुङ्गकम् ।
क्षुद्रोपानं तथैकांशं चाष्टांशं महाम्बुजम् ॥ १८१ ॥
क्षुद्राब्जं चैकभागेन कन्धरं तत्समं भवेत् ।
पद्ममेकं तदूर्ध्वं तु पट्टिकोर्ध्वं गुहांशकम् ॥ १८२ ॥ 364
क्षुद्रकम्पं शिवांशं स्यात्पद्मात्तुङ्गं युगांशकम् ।
क्षुद्राब्जं(ब्ज)तुङ्गमंशं च निम्नं चोर्ध्वैकभागिकम् ॥ १८३ ॥