मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 118, कुल 856 में से
संदर्भ में पढ़ें१४] अधिष्ठानविधानम् ८३
द्विभागं जन्मतुङ्गं स्यात्तत्समम्बुजं भवेत् ।
एकांशं क्षेपणं चैव वप्रतुङ्गं रसांशकम् ॥ ६६ ॥ 132
कुमुदोर्ध्वं युगांशं स्यात्कम्पमेकेन कारयेत् ।
कन्धरं च द्विभागं स्यात्कम्पमंशेन योजयेत् ॥ ६७ ॥
पट्टिकोच्चं द्विभागं स्यात्कम्पमंशं तदूर्ध्वके ।
कर्णमेकेन कर्तव्यं वाजनं चैकभागिकम् ॥ ६८ ॥ 136
प्रतिमं चैकांशकं स्याद्वाजनं चैकभागिकम् ।
त्रिपट्टं कुमुदं वापि प्रतिरे(मे)वं त्रिपट्टकम् ॥ ६६ ॥
शेषं तु पूर्ववत्कुर्यात्प्रत्यलङ्कार(रं) पूर्ववत् ।
तदेव पट्टिकं चोर्ध्वे कन्धरं चैकभागिकम् ॥ ७० ॥ 140
शेषं पूर्ववदुद्दिष्टं युक्तालंकार(रं) योजयेत् ।
एवं चतुर्विधं प्रोक्तं श्रेणीबन्धमिति स्मृतम् ॥ ७१ ॥
देवानांमपि सर्वेषां हर्म्याणां कल्पयेद्बुधः ।
(श्रेणीबन्धं चतुर्विधम्)
अष्टादशांशकं तुङ्गे जन्ममर्धा(न्माध्य)र्धभागिकम् ॥ ७२ ॥ 144
अर्धार्श क्षुद्रकम्पं तु भूतांशं तन्महाम्बुजम् ।
एकांशं कन्धरं चांशं चाब्जं कुम्भं गुणांशकम् ॥ ७३ ॥
तदूर्ध्वं पद्मांशं स्यादालिङ्गां(ङ्गमं)शं तदूर्ध्वके ।
एकांशं वाजनं चोर्ध्वे प्रतिं ह्यंशमंशं वाजनम् ॥ ७४ ॥ 148
द्वाविंशांशकं कृत्वा पञ्चांशं जन्मतुङ्गकम् ।
क्षुद्रं क्षेपणमर्धाशं सार्धवेदांशका(कम)म्बुजम् ॥ ७५ ॥
एकांशं कन्धरं चोर्ध्वं तत्समं चाब्जकं भवेत् ।
कुम्भं(म्भ)तुङ्गं गुहाशं च पद्मतुङ्गं शिवांशकम् ॥ ७६ ॥ 152
कम्पमेकं तदूर्ध्वं तु कन्धरं चाक्षभागिकम् ।
क्षेपणं चैकभागं तु पद्मं चैकेन कारयेत् ॥ ७७ ॥
द्विभागं पट्टिकोत्तुङ्गं पद्मांशमंशं वाजनम् ।
तस्मादेकांशमाधिक्यं सार्धयुग्मं तु पादुकम् ॥ ७८ ॥ 156