सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 117, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 117

८२ मानमारे [अध्यायः
एतन्महाम्बुजस्याधो कम्पमेकेन कारयेत् ।
रसांशं तन्महाब्जं स्याच्छेषं प्रागुक्तवन्नयेत् ॥ ५३ ॥
एतच्चतुर्विधं प्रोक्तं श्रीबन्धमिति नामकम् ।
चक्रवर्तेश्च विष्णोश्च शिवस्यापि च योग्यकम् ॥ ५४ ॥ 108
(श्रीबन्धं चतुर्विधम्)
षड्विंशद्भागमुत्तुङ्गे जन्ममै(चै)कांशमीरितम् ।
वप्रोर्ध्वं तु षडंशं स्यात्कुमुदोच्चं षडंशकम् ॥ ५५ ॥
कर्णैमेकेन बन्धा(न्ध्यं)शं कर्ण(र्णा) कम्पं शिवांशकम् ।
पद्मांशं तदूर्ध्वं तु त्र्यंशं गोपानकोदयम् ॥ ५६ ॥ 112
आलिङ्गमंशकं चोर्ध्वं चांशमन्तरितं तथा ।
प्रतिवक्त्रं तु युग्मांशं वाजनं चैकभागिकम् ॥ ५७ ॥
अथवा जन्म युग्मांशं तदेव प्रतिकांशकम् ।
शेषं तु पूर्ववत्कुर्याज्जन्मोर्ध्वं चेप्यणांशकम् ॥ ५८ ॥ 116
गोपानोपरि चाध्येना(र्धेना) लिङ्गा(ङ्गम)न्तरितां(तमं)शकम् ।
अंशं तत्प्रतिवक्त्रं स्यादर्धाशश्चार्ध(मर्ध) वाजनम् ॥ ५९ ॥
अथवा जन्म मे(ए)कांशं तत्समं चाब्जकं तथा ।
तदूर्ध्वं कम्पमेकांशं शेषं प्रागुक्तवन्नयेत् ॥ ६० ॥ 120
एतच्चतुर्विधं प्रोक्तं मञ्चबन्धमुदीरितम् ।
देवानां भूपतीनां च हर्म्याणां तत्प्रकल्पयेत् ॥ ६१ ॥
(मञ्चबन्धं चतुर्विधम्)
जन्मादिवाजनान्तं च कृत्वा विंशत्षडाधिकम् ।
जन्मतुङ्गं तु सार्धांशं युगलं पद्मत्तुङ्गकम् ॥ ६२ ॥ 124
एवं कम्पं च वप्रो(प्रागु)क्तं षडंशं कुम्भ(म्भं) युगांशकम् ।
तस्योर्ध्वं कम्पमेकांशं कन्धरञ्च(रं च) द्विभागिकम् ॥ ६३ ॥
एकांश(शं) कम्पकं चाधां(द्वाभ्यां) पट्टं तत्क्षेपणां(शार्मं)शकम् ।
आलिङ्गं चा(सा)र्धकं चोर्ध्वं कम्पमेकेन कारयेत् ॥ ६४ ॥ 128
अध्यर्धांशं प्रतिं चैव सार्धांशं वाजनं भवेत् ।
व्यालरूपादिसिंहैश्च मकराद्यै(दिभि)र्विभूषितम् ॥ ६५ ॥