मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 116, कुल 856 में से
संदर्भ में पढ़ें१४] अधिष्ठानविधानम् ८१
त्रिय(त्र्या)श्रं कुमुदं वापि षडश्राकृतिर्(ति) एव वा ।
एवमष्टविधं(ष्टाश्रकं) कुर्यात्पद्मकेसरमीरितम् ॥ ३९ ॥
सर्वहर्म्येषु योग्यं स्यात्कारयेच्छिल्पि(ल्प)वित्तमः ।
नवाधिकविंशांशं तत्तच्चाधिकतुङ्गके [स्यात्] ॥ ४० ॥ 80
जन्मतुङ्गं तदर्द्धाभागं [वा] वेदांशं वप्रतुङ्गकम् ।
अर्धांश(शं) पद्मातुङ्गं तु कन्धरं तत्समं भवेत् ॥ ४१ ॥
तत्समं चोर्ध्वपद्मं स्यादेकांशं कुमुदोदयम् ।
पद्ममध्यर्ध तथा कम्पं कर्णतुङ्गं द्वयांशकम् ॥ ४२ ॥ 84
कम्पमर्ध तथा पद्मं पट्टिकोचं द्वयांशकम् ।
तदूर्ध्वं पद्ममेकांशं चोर्ध्वकम्पं तु तत्समम् ॥ ४३ ॥
धार्धा(ध्य)र्धं वाथ जन्मोच्चं कम्पमूर्द्धेऽर्धमेव वा ।
शेषं प्रागुक्तवत्कुर्यात्तत्तद्देवद्विशेषतः ॥ ४४ ॥ 88
एकांशं जन्मतुङ्गं स्यादर्धांशं पद्ममेव च ।
शेषं तु पूर्ववत्कुर्यात्किञ्चिदेवं विशेषतः ॥ ४५ ॥
पट्टिके तत्कपोतं वा शेषं युक्त्या प्रयोजयेत् ।
एतच्चतुर्विधं प्रोक्तं पुष्पपुष्कलनामकम् ॥ ४६ ॥ 92
क्षुद्रमध्ये तु मुख्ये तु प्रथमार्थं तु भूमिकम् ।
तेन(षु) हर्म्येषु योग्यं स्यात्कल्पयेच्छिल्पि(ल्प)वित्तमः ॥ ४७ ॥
जन्मादिवाजनान्तं स्याद्द्वात्रिंशद्विभाजिते ।
द्विभागं जन्मतुङ्गं स्यादेकांशे(श)केन वाजनम् ॥ ४८ ॥ 96
सप्तांशेन महापद्मं कर्णांशं तथाम्बुजम् ।
ऊर्ध्वं कुम्भं तु वेदांशं पद्ममेकेन कारयेत् ॥ ४९ ॥
तदूर्ध्वं कम्पमेकांशं त्र्यंशकैरर्गलमुन्नतम् ।
कम्पमंशं गलं चांशं गोपानं चतुरंशकम् ॥ ५० ॥ 100
आलिङ्गमंशकं चोर्ध्वं अं(चां)शेनान्तरितं तथा ।
प्रतिमुखं तद्धि(द्वि)भागं स्यादूर्ध्वं वाजनमंशकम् ॥ ५१ ॥
अथैकांशेन समाधिक्यं मष्टांशो(म्बुजो)परि पद्मकम् ।
जन्मस्यो(न ऽ)परि पद्मं वा शिवांशेनांशमाधिकम् ॥ ५२ ॥ 104
11