सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 114, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 114

१४] अधिष्ठानविधानम् ७६
कम्पमेकेन कर्तव्यं कन्धरं तत्समं भवेत् ।
पट्टं च पट्टिकैद्यंशं कम्पमेकेन कारयेत् ॥ १३ ॥
अथवा द्व्यंशमाधिक्यं तुङ्गं कृत्वा विशेषतः ।
वाजनं चैकभागं स्यात्तस्याधा(धः) कन्धर(रं) द्वयम् ॥ १४ ॥ 28
तस्याधो वाजनं चांशं शेषं प्रागुक्तवन्नयेत् ।
तदेव द्व्यंशमाधिक्यं कुम्भस्योर्ध्वे विशेषतः ॥ १५ ॥
कम्पमेकं तथा कर्णं कम्पं तस्योर्ध्वमंशकम् ।
द्व्यंशं गोपानकं चोर्ध्वं शेषं तत्प्रतिवाजनम् ॥ १६ ॥ 32
अथवा तच्चतुर्विंशाद्भागं कृत्वा यथोक्तयम् ।
सप्तांशं वप्रतुङ्गं स्यात्कुमुदोचं षडंशकम् ॥ १७ ॥
तदूर्ध्वं कम्पमेकांशं कन्धरं तत्समं भवेत् ।
तदूर्ध्वं वाजनं चांशं कन्धरोध्वं गुखांशकम् ॥ १८ ॥ 36
तत्प्रदेशे विशेषोऽस्ति मकरादिविभूषितम् ।
तदूर्ध्वं वाजनं चांशं कम्पनं चैकभागिकम् ॥ १९ ॥
तदूर्ध्वं कम्पमेकांशं शेषं तत्प्रतिवाजनम् ।
एतच्चतुर्विधं ज्ञात्वोरगबन्धमिति स्मृतम् ॥ २० ॥ 40
सर्व(पं) वक्राकृतिं कुर्यात्तदूर्ध्वे तत्रतद्वयम् ।
एतच्चतुर्विधाकारं वृत्तं कुम्भं प्रकारयेत् ॥ २१ ॥
देवभूसुरभूपानां हर्म्याणां तत्प्रकल्पयेत् ।
( प्रतिक्रमं चतुर्विधम् )
एकविंशांशकं तुङ्गे क्षुद्रोपाने शिवांशकम् ॥ २२ ॥ 44
सार्धद्व्यंशं तु पद्मं स्यात्तदूर्ध्वे सार्ध(र्ध) कम्पकम् ।
ऊर्ध्वे वप्रं तु सप्तांशं धाराकुम्भं रसांशकम् ॥ २३ ॥
आलिङ्गमंशकं चैव तत्समा(मम)न्तरितं तथा ।
एकैकपद्मकम्पं वा पट्टं वाथ द्व्यंशकम् ॥ २४ ॥ 48
गजैरश्वैश्च सिंहैश्च भूषितैः(तं) मकरादिभिः ।
द्वाविंशांशकं कुम्भे(म्भं) कुमुदो(द्भू)र्ध्वे विशेषतः ॥ २५ ॥