सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 108, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 108

१३] उपपीठविधानम् ७३
चतुर्भागं पञ्चभागं वा षट्सप्ताष्टकमेव च।
पूर्ववन्निर्गमं प्रोक्तं यन्मानोरम्य(न्यं) मानतः ॥ १३॥
अथवा हस्तमानेन निर्गमं तत्प्रवच्यते ।
एकहस्तं समारभ्य चतुर्थांशेन वर्धनात् ॥ १४॥ 28
तन्त्रिहस्तावसानं स्यान्निर्गमं नवधा भवेत् ।
अथवा दण्डमानेन चोपपीठस्य निर्गमम् ॥ १५॥
दण्डं सार्धं द्विद्ण्डं वा सार्धद्विदण्डमेव च ।
त्रिदण्डं सार्धमाधिक्यं चतुर्दण्डमथापि वा ॥ १६॥ 32
पञ्चषट्सप्तदण्डं वा दण्डाष्टनवदण्डकम् ।
निर्गमं चोपपीठं(ठस्य) स्यात्पादबाह्यावसानकम् ॥ १७॥
एतत्तु निर्गमं प्रोक्तं गण्यमानमिहोच्यते ।
उत्सेधे तु चतुर्विंशत्य्रूद्धांशो(शमु)पानमीरितम् ॥ १८॥ 36
एकेन कम्पमित्युक्तं ग्रीवाञ्चं द्वादशान्तिकम् ।
कम्पमेकं तु वेदांशं वाजनं कम्पमंशकम् ॥ १९॥
वेदिभद्रमिति प्रोक्तमथवा द्वादशांशकम् ।
जन्म द्व्यंशमंशकं पद्मं कम्पमर्धेन कारयेत् ॥ २०॥ 40
पञ्चांशं कण्ठमर्धेन क्षेपणं पद्मामंशकम् ।
तद(अप्य)र्धं पट्टिकोत्सेधं कम्पमर्धेन कारयेत् ॥ २१॥
अथवा भागमानेन सार्धांशं पादुकोदयम् ।
तदूर्ध्वे तत्समा(मम)ब्जं कम्पमर्धेन कारयेत् ॥ २२॥ 44
सार्धपञ्चांशकं ग्रीवं क्षेपणं चार्धभागिकम् ।
तदूर्ध्वे पद्मामंशेन वाजनं चैकभागिकम् ॥ २३॥
तदूर्ध्वे सार्धकम्पं स्याद्योजयेत्तु विचक्षणः ।
तदेवांशेन युग्मेन सोपानाम्बुजमेव वा ॥ २४॥ 48
कम्पमर्धं तथा कर्णं तदूर्ध्वेऽशेन पट्टिका ।
पञ्चांश(शं) कन्धरं प्रोक्तं कम्पमर्धेन कारयेत् ॥ २५॥
द्व्यंशं तद्वाजनोत्तुङ्गं कम्पमर्धेन कारयेत् ।
सर्वहर्म्येषु योग्यं स्याद्वेदिभद्रं चतुर्विधम् ॥ २६॥ 52