मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 107, कुल 856 में से
संदर्भ में पढ़ें७२ मानमारे [अध्यायः
उपपीठविधानम्
उपपीठविधिं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना ।
अधिष्ठानेनोन्नते देशे चोपपीठं हि संश्रितम् ॥ १॥
एते(तम्) वत्त्वमधिष्ठानं तुङ्गं तच्चतुरंशकतम् ।
विभजेत्त्वादिमांशेन ए(चै)कैकांशं(श)विवर्धनात् ॥ २॥ 4
तदष्टांशावसानं स्याज्जन्मादिपट्टिकान्ति(न्त)कम् ।
एवं हि चोपपीठाख्यं नवभिर्भेदमीरितम् ॥ ३॥
अथवा द्वादशान्तं वा मध्यभूम्यन्तिकं क्रमात् ।
अथवा क्षुद्रहर्म्ये तु चतुर्थांशांशमु(गसमो)न्नतम् ॥४॥ 8
द्विभागं वा त्रिभागं वा चतुर्भागमथापि वा ।
पञ्चा(ञ्च)दशोदयं वापि रिन्ति(शान्ति)कादिशरोन्नतम् ॥ ५॥
अथवा मध्यहर्म्ये तु द्विभागं वा त्रिभागिकम् ।
चतुर्भागं पञ्चभागं षड्भागावसानकम् ॥ ६॥ 12
शान्तिकं सर्वभूम्य(काम्या)न्तं पञ्चधोत्तुङ्गमीरितम् ।
अथवा मुख्यहर्म्ये तु त्रयं वा चतुरंशकम् ॥ ७॥
पञ्चांशं वा षडंशं वा सप्तांशं वावसानकम् ।
एवं पञ्चविधं प्रोक्तं शान्तिकादिशरोन्नतम् ॥ ८॥ 16
क्षुद्रोत्सेधं वापि पादाधिकमेव च(चार्धाधिकम्) ।
पादोनद्विगुणं वापि द्विगुणं वा(च) विशेषतः ॥ ६ ॥
मूलहर्म्यस्य पादं(दे) तु वप्रजन्म तु(नो) बाह्यतः ।
उपपीठनिर्गमं स्यादङ्गामानेन वच्यते ॥ १०॥ 20
सप्ताष्टनवभागं वा दशमेकादशस्(शम्) तथा ।
द्वादशैकार्कभागं वा चतुर्दशांशिकमेव वा ॥ ११॥
पञ्चा(ञ्च)दशांशकं वापि विभजेत्तु विशेषतः ।
तत्तद्भागैकभागं वा द्विभागं वा त्रिभागिकम् ॥ १२॥ 24