मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 638, कुल 672 में से
संदर्भ में पढ़ें596 मानमेयरहस्यश्लोकवार्तिके
आचार्यानुग्रहाभावमूलशास्त्रनिबन्धनः ।
इति प्राहुर्महाचार्याः पाराशर्यजये स्फुटम् ॥
मानं रहस्याम्नायस्थं असूयायाः परस्परम् ।
प्रादुर्भावप्रकरणं इति तत्त्वविदां मतम् ॥
तस्मिन् प्रकरणे सर्वाधिकारं ज्ञानमुच्यते ।
ज्ञानपर्युत्थानकर्मा शूद्र इत्यंशदर्शनात् ॥
न पर्युत्थास्याम इति यदाऽवोचन्नसूयया ।
न वो वक्ष्याम इतिच ब्राह्मणा अपिचाब्रुवन् ॥
पर्युत्थानं हि शुश्रूषा तत्तस्मादाभ्यसूयकम् ।
दूरीकरणमित्येवं रहस्यं प्रकटीकृतम् ।
अधिकारविचारोऽयं गम्भीरोऽपि निरूपितः ।
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु ॥
(119) कर्मज्ञानतत्त्वम्.
1 अथ कर्मज्ञानतत्त्वं सूक्ष्मदृष्ट्या विचार्यते ।
लौकिका हि विदुः कर्मज्ञानयोर्महदन्तरम् ॥
परीक्षकास्तु तत्त्वज्ञाः प्रविवेकं न कंचन ।
परिभाषामन्तरेण न निरूपयितुं क्षमाः ॥
ज्ञानं कर्मैव सूक्ष्मं स्यादान्तरं स्फुरणं हि तत् ।
बाह्यं तु स्फुरणं लोके क्रिया कर्मेति कथ्यते ॥