मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
562 मानमेयरहस्यश्लोकवार्तिके
श्रवणादिविधेरेवेत्याशयं वर्णयत्यसौ ।
अथाविद्यानिवृत्त्यंशे विकल्पोऽप्यवधार्यताम् ॥
11 अविद्याया निवृत्तिस्तु ब्रह्मेति ब्रह्मसिद्धिकृत् ।
आनन्दबोधाचार्यास्तु ब्रह्मान्येति प्रचक्षते ॥
न सन्नासन्न सदसन्नानिर्वाच्यश्च तत्क्षयः ।
यक्षानुरूपो बलिरित्याचार्याः प्रत्यपीपदन् ॥
न सती साऽद्वैतहानेः नासती ख्यातिसंभवात् ।
विरोधान्नोभयात्मेयं नानिर्वाच्याऽनवस्थितेः ॥
उक्तप्रकारोत्तीर्णेयं अवस्था पञ्चमी मता ।
चतुष्कोटिविनिर्मुक्तशून्यतत्त्वविलक्षणा ॥
अविद्यां विश्वजननीमर्धपञ्चमरूपिणीम् ।
निवृत्तिपञ्चमाकारां कल्पयन्ति विपश्चितः ॥
अद्वैतविद्याचार्यास्तु साऽनिर्वाच्येति मन्वते ।
सच भावविकारोऽन्यः क्षणिकः नानुवर्तते ॥
प्रथमक्षणसंबन्धो यथोत्पत्तिः तथैव सा ।
चरमक्षणसंबन्धः क्षणिकः नानुवर्तते ॥
12 जीवैक्यपक्षे मुक्तिस्तु शुद्धब्रह्मैकरूपता ।
अनेकजीववादेऽपि प्रतिबिम्बो यदीश्वरः ॥
मुक्तस्य शुद्धचैतन्यरूपैवावस्थितिर्मता ।
ईश्वरो यदि बिम्बात्मा प्रतिबिम्बः पुमान्यदि
उभयानुगतं शुद्धचैतन्यमिति सिद्ध्यति ।
तदा यावत्सर्वमुक्ति चितिमात्राविरोधि यत् ॥
बद्धान्तराज्ञानकृतमैश्वर्यं निरवग्रहम् ।
गुणाष्टकं च निरतिशयानन्दप्रकाशनम् ॥
तैर्युक्ता निस्सन्धिबन्धे श्वरतापत्तिलक्षणा ।
मुक्तिस्सम्पद्यत इति सूत्रभाष्यादिसम्मता ॥
सैषा विशुद्धचिन्मात्रभावेऽन्ते पर्यवस्यति ।
इत्यद्वैतमते सूक्ष्मविचारोऽन्यत्र विस्तृतः ॥
(114) भक्तिः.
1 विशिष्टाद्वैतसिद्धान्ते नारायणकटाक्षतः ।
विनश्यत्यखिलं कर्माविद्यानिग्रहलक्षणम् ॥
वेदनं ध्यानविश्रान्तं ध्यानं श्रान्तं ध्रुवास्मृतौ ।
सा च दृष्टित्वमभ्येति दृष्टिः भक्तित्वमृच्छति ॥
स्मृतिसन्ततिधारेयं ध्यानमित्यभिधीयते ।
विजातीयप्रत्ययाव्यवहिता सा ध्रुवा स्मृतिः ॥
तैलादिधारावदविच्छिन्ना सन्ततिरेव सा ।
सा दर्शनसमाकारा दृष्टिरित्यभिधीयते ॥
वैशद्यातिशयश्चैषः भवेदाकारशब्दितः ।
एवंरीत्युपचारस्य निदानं स्यादिदं यथा ॥
564 मानमेयरहस्यश्लोकवार्तिके
शास्त्रैकसमधिगम्यं ब्रह्मौपनिषदं मतम् ।
अतश्च शास्त्रयोनीति संरम्भेण निरूपितम् ॥
तदन्तःकरणाध्यक्षवेद्यत्वे हि विरुध्यते ।
भावनाबलजाध्यक्षवेद्यत्वेऽपि तथैव हि ॥
अतः प्रत्यक्षशब्दस्स्यात्समानाकारगोचरः ।
वृक्षेवृक्षे च पश्यामीत्यादिभूरिप्रयोगतः ॥
2 सा स्मर्यमाणस्यात्यर्थप्रियत्वेन स्वयं तथा ।
अत्यर्थप्रीतिरूपत्वमापन्ना भक्तिरुच्यते ॥
भज इत्येष धातुर्वै सेवायां परिकीर्तितः ।
तस्मात्सेवा बुधैः प्रोक्ता भक्तिशब्देन भूयसा ॥
इति बोधायनवचः प्रस्पष्टं समुदाहृतम् ।
प्रकाशिकादीपिकयोः श्रीसुदर्शनसूरिभिः ॥
प्रीतिरूपमनुध्यानं भक्तिरित्यभिधीयते ।
भक्तिस्सेवोपास्तिरिति यास्कोऽपि निरघण्टयत् ॥
परभक्तिः परं ज्ञानं परमा भक्तिरित्यपि ।
पर्वक्रमेणोपचितं विज्ञानं मुक्तिसाधनम् ॥
साक्षात्कृतस्यानुभवाभिनिवेशस्तु सा परा ।
या फलस्याव्यवहितपूर्वावस्थेति कीर्त्यते ॥
तत्संबन्धाद्भक्तिशब्दः स्तुत्यादावुपचारतः ।
साऽनेकधा सदहरभूमविद्यादिभेदतः ॥
अविशिष्टफलत्वेन विकल्पश्च व्यवस्थितः ।
प्रपत्तिरपि च ब्रह्मविद्यैवेदि पुरः स्थितम् ॥
यैवैषा परभक्तिस्स्यात्तदेव परमं सुखम् ।
उपायश्च स एवायमीशनिग्रहशान्तये ॥
ज्ञानस्यैव विकारोऽयमिच्छाद्वेषसुखादिकः ।
अनुकूलतया वेद्यं सर्वं सुखमितीष्यते ॥
कार्यं नियोगश्चापूर्वं धर्मो वेदार्थ इत्यपि ।
यद्वचः सकलं प्राह कृष्णं धर्मं सनातनम् ॥
देवताभक्तितो मुक्तिर्न तत्त्वज्ञानसंपदा ।
इति वामनकाव्यालंकारसूत्रेऽप्यनूदितम् ॥
ज्ञानमार्गो भक्तिमार्गः विभिन्नः मोक्षसाधनम् ।
इति सिद्धान्तयोरैक्यं विशिष्टाद्वैतसम्मतम् ॥
३ मोक्षप्रभेदं कैवल्यं केचिदिच्छन्ति सूरयः ।
तत्र स्वात्मानन्दलाभः पुनरावृत्तिवर्जितः ॥
कैश्चित्तु कैवल्यभोग्यः स्वात्मा ब्रह्मापृथक्स्थितः।
विशेषणतया भानमात्रं ब्रह्मण इष्यते ॥
केषांचित्स्वात्मसंतोषः कैवल्यमिति निर्णयः ।
पुनरावृत्तिरस्यास्ति स्थितिः प्रकृतिमण्डले ॥
परिपूर्णपरब्रह्मानुभवे मोक्षलक्षणे ।
प्रभेदं केचिदिच्छन्ति तत्त्वमवधार्यताम् ॥
66 मानमेयरहस्यश्लोकवार्तिके
परब्रह्मोपासनया ये मुक्तास्ते तु केवलम् ।
परिपूर्णपरब्रह्मानुभवैकपरायणाः ॥
कैङ्कर्यलिप्सया ये तु मुक्तास्ते किङ्कराः पुनः ।
परार्थस्वार्थभेदेन द्विविधाः परिनिष्ठिताः ॥
एवं मोक्षे विधाभेदं केचिन्नेच्छन्ति सूरयः ।
कैवल्यनिष्ठया मुक्ताः न मुक्ता इति तैर्मताः ॥
स्वरूपतो मुक्तभेदं द्वैतसिद्धान्तिनो विदुः ।
आनन्दतारतम्येन मुक्तिभेदो व्यवस्थितः ॥
नित्यमुक्तो नित्यबद्धः आर्हतैर्नोपगम्यते ।
आद्यो विशिष्टाद्वैतेष्टः द्वितीयो द्वैतसम्मतः ॥
4 अथ वृत्तिकृतां मार्गं पाञ्चरात्रमतानुगम् ।
समाश्रयन् बुधा एते तत्तत्त्वमवधार्यताम् ॥
द्वापरान्ते वासुदेवः भगवान् स हरिस्स्वयम् ।
अवातरदिति प्रायः सर्वैरभ्युपगम्यते ॥
तस्य संकर्षणो नाम भ्राताऽऽसीदिति च श्रुतम्
प्रद्युम्नस्तनयः पौत्रोऽनिरुद्ध इति च श्रुतः ॥
सैषा परंपरा पाञ्चरात्रशास्त्रप्रवर्तिका ।
एते हि सात्त्वताः प्रोक्ताः शास्त्रं चापिहि सात्त्वतम्
5 सत्त्वच्छब्दो हि भगवच्छब्दवद्विष्णुतत्परः ।
अण्प्रत्ययश्च भक्तार्थः ते भागवतसात्त्वताः ॥
एवंहि श्रीयामुनेयागमप्रामाण्यनिर्णयः ।
वैश्यात्तु जायते व्रात्यात् मैत्रस्सात्त्वत एवच ॥
पञ्चमस्सात्त्वतो नाम विष्णोरायतनानि सः ।
पूजयेदाज्ञया राज्ञां स तु भागवतः स्मृतः ॥
इत्यादिवचनैर्हीनजातिशङ्का न युज्यते ।
मा भूदाचार्यशब्दत्वाद्व्राह्मणस्य निकृष्टता ॥
विष्णुपूजादिसंबन्धाज्जात्यन्तरभवा अपि ।
प्रसिद्धास्सात्त्वताश्चेति तथा भागवता इति ॥
6 एवं शास्त्रं संप्रदायं कर्तारं विषयं तथा ।
आचष्ट भगवान् व्यासः भारते शान्तिपर्वणि ॥
सांख्यस्य वक्ता कपिल इत्यारभ्य हि पठ्यते ।
पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ॥
वेदान्तेषु यथा सारं संगृह्य भगवान् हरिः ।
भक्तानुकम्पया विद्वान् संचिक्षेप यथासुखम् ॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः ।
अर्चनीयश्च सेव्यश्च पूजनीयश्च माधवः ॥
सात्त्वतं विधिमास्थाय गीतस्संकर्षणेन यः ।
द्वापरस्य युगस्यान्ते ह्यादौ कलियुगस्य च ॥
नारदेन तु संप्राप्तस्सरहस्यः ससंग्रहः ।
एष धर्मो जगन्नाथात् साक्षान्नारायणान्नृप ॥
568 मानमेयरहस्यश्लोकवार्तिके
एवमेष महान् धर्मः स ते पूर्वं नृपोत्तम ।
कथितो हरिगीतासु समासविधिकल्पितः ॥
नूनमेकान्तिधर्मोऽयं श्रेष्ठो नारायणप्रियः ।
सहोपनिषदान् वेदान् ये विप्रास्सम्यगास्थिताः ॥
पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः ।
तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम्।
समुपोढेष्वनीकेषु कुरुपाण्डवयोर्मृधे ।
अर्जुने विमनस्के च गीता भगवता स्वयम् ॥
आगतिश्च गतिश्चैव पूर्वं ते कथितं मया ।
गहनो ह्येष धर्मो वै दुर्विज्ञेयोऽकृतात्मभिः ॥
7 एवमेकं सांख्ययोगं वेदारण्यकमेवच ।
परस्पराङ्गन्येतानि पञ्चरात्रं तु कथ्यते ॥
इत्यादीनि प्रमाणानि प्रसिद्धानि विपश्चिताम् ।
तत्र चान्तिमपद्येन शास्त्रसारार्थ उद्धृतः ॥
तस्यायमर्थश्श्रीभाष्ये तर्कपादे निरूपितः ।
पञ्चविंशतितत्त्वानि सांख्योक्तानीति विश्रुतम् ।
योगोक्तश्वापि साष्टाङ्गयोगस्संयमलक्षणः ।
वेदोदितं च कर्मापि यागहोमादिलक्षणम् ॥
आरण्यकं परं ब्रह्म प्रतिपादयति स्फुटम् ।
परस्पराङ्गता तावत् तत्त्वं ब्रह्मात्मकं स्वतः ॥
भक्तिः 56
ब्रह्मोपासनरूपश्च योगः कर्मापि कृत्स्नशः ।
तदाराधनरूपं चेत्येतदत्राभिधीयते ॥
तत्पञ्चरात्रे प्रख्याते शास्त्रेऽस्मिन्विशदीकृतम् ।
इति नारायणेनैव स्वयं हि कथितं त्विति ॥
8 एवमेतच्छास्त्रतत्त्वं संग्रहादिह सूचितम् ।
तच्छास्त्रमनुरुद्ध्यैव कर्मब्रह्मात्मनोरपि ॥
शास्त्रयोस्संधिरुदितस्सांकर्षे चात्र मन्यमे ।
प्रतिपाद्यमिदं तत्र पूर्वाचार्यनिरूपितम् ॥
स्वरूपमादौ तद्भेदस्तदुपासनपूर्वकम् ।
फलं च देवताकाण्डे देवतानां तु कथ्यते ।
ततश्च संहितं शास्त्रमेतद्विंशतिलक्षणम् ।
इति वृत्तिकृतां वाक्यमेतत्तात्पर्यगर्भितम् ॥
एतेन कर्ममीमांसासिद्धान्ते जडविश्रुतः ।
निर्देववादो निस्संविद्देववादोऽप्यपाकृतः ॥
तं च संकर्षकाण्डं तु काशकृत्स्नविनिर्मितम् ।
प्राहुः केचिद्बुधास्त्वन्ये विदुः जैमिनिनिर्मितम् ॥
समाख्ययोल्लिखन्त्यन्ये संकर्षणविनिर्मितम् ।
सर्वथा पाञ्चरात्रस्य सिद्धान्तमनुवर्तते ॥
स्पन्दप्रदीपिका नाम भट्टोत्पलविनिर्मिता ।
तत्र चोदाहृतं ग्रन्थजातमेतन्निशम्यताम् ॥
M.R. 72
70 मानमेयरहस्यश्लोकवार्तिके
पाञ्चरात्रश्रुतिः पाञ्चरात्रोपनिषदोऽपि च ।
संकर्षणस्य सूत्राणीत्यादिकं विविधं तु तत् ॥
तत्सूत्रस्थं वाक्यमेकमिदं तावदुदाहृतम् ।
येनेदं दृश्यते विश्वं द्रष्टा सर्वस्य यस्सदा ॥
दृश्यश्चराचरत्वे यः स विष्णुरिति गीयते ।
एतेन विष्णुपारम्यसिद्धान्तोऽयमिति स्थितम् ॥
तत्सूत्रमनुसृत्यैव काशकृत्स्नेन वाऽथवा ।
कृतं जैमिनिना सूत्रं देवताकाण्ड इष्यते ॥
पूर्णप्रज्ञैरनुव्याख्याप्रबन्धे देवकाण्डगः ।
द्वितीयलक्षणश्शेषप्रणीत इति भाषितम् ॥
स एष संकर्षकाण्डः मीमांसाभाष्यकर्तृभिः ।
आचार्यशबरैः पूर्वाचार्यैश्च समुदाहृतः ॥
अन्ते हरौ स विष्णुश्च तं ब्रह्मेति च सूत्रणात्
अथातो ब्रह्मजिज्ञासा चेति शास्त्रं सुसङ्गतम्
१ तत्र शारीरकं शास्त्रं बादरायणनिर्मितम् ।
स बादरायणो व्यास इत्याहुर्बहवो बुधाः ॥
श्रीमद्रामानुजाचार्यः बादरायणनिस्वनम् ।
भाष्ये स्वे सूत्रकृत्त्वेन व्यासत्वेनाप्यभाषत ॥
तथा श्रीयामुनाचार्यस्सिद्धित्रयनिबन्धने ।
उपक्रमे प्राह सूत्रं बादरायणनिर्मितम् ॥
भक्ति: 57
श्रीशाङ्करे भास्करेऽपि चान्त्यसूत्रावतारणे ।
सूत्रकर्तेति विस्पष्टो भगवान् बादरायणः ॥
स्मरन्ति चेत्यादिसूत्रे व्यासादय इतीरणात् ।
कृष्णद्वैपायनो नासाविति भङ्ग्याऽत्र सूच्यते ॥
स्मृतेश्चेत्यादिसूत्रेषु गीतावचनलेखनात् ।
ब्रह्मसूत्रपदैश्चेति गीतायामपि दर्शनात् ॥
परस्परगृहीतिस्तु विरोधायेति दृष्टितः ।
ब्रह्मसूत्रपदं वेदमौळिवाक्यपरं कृतम् ॥
इत्युल्लिखन्ति कतिचित् न तत्तु विदुषां मतम् ।
कृष्णद्वैपायनस्सूत्रकर्ता भारतकृच्च सः ॥
द्वीपे बदरिकामिश्रे बादरायणमच्युतम् ।
पराशरात्सत्यवती लेभे पुत्रं परंतपम् ॥
तस्यैव सूत्रकर्तृत्वं पूर्णप्रज्ञैरुदाहृतात् ।
स्कान्दवाक्यादपि स्पष्टं निर्णयन्ति यथा पुनः ।
अवतीर्णो महायोगी सत्यवत्यां पराशरात् ।
उत्सन्नान् भगवान् वेदान् उज्जहार हरिस्स्वयम्
चतुर्धा व्यभजत्तांश्च चतुर्विंशतिधा पुनः ।
शतधा चैकधा चैव तथैवच सहस्रधा ॥
कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये ।
चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा ॥
श्रुतप्रकाशिकातत्त्वटीकयोरप्युदाहृतम् ।
वचस्त्विदं तथा वाचस्पतिवाक्यं निशम्यताम् ॥
ब्रह्मसूत्रकृते वेदव्यासायापरवेधसे ।
ज्ञानशक्त्यवताराय नमो भगवते हरेः ॥
इत्यन्यत्र प्रपञ्चोऽथ गीताकर्ताऽप्यसौ मतः ।
यतो भारतकर्ता सः, यद्गीतासूत्रयोर्मिथः ॥
ग्रहणं ब्रह्मसूत्रेति स्मृतेश्चेत्यातिशङ्कितम् ।
तत्रेदमवधातव्यं निर्णीतं तत्त्वटीकया ॥
ब्रह्मसूत्रपदैश्चेति भाविदृग्भगवद्वचः ।
सूत्रपश्चाद्भावि वा स्यात् न्यबध्नाद्भारते स्वयम् ।
सूत्रस्य विषयत्वेन वाक्यरूपा कृतिः पुनः ।
प्राक्तनी भाविनी वाऽत्रचोदाह्रियत इत्यतः ॥
न परस्परसंबाधः न प्रसिद्धार्थनिह्नवः ।
अथवाऽनादिसिद्धत्वात् स्मृतिसूत्रप्रवाहयोः ॥
परस्परगृहीतिस्तु न विरोधाय कल्पते ।
प्रवाहानादिवादोऽयं यं शास्त्रशरणा विदुः ॥
10 परीक्षकमतिस्त्वेषा यादृगद्योपलभ्यते ।
शास्त्रमेतत्तथैवादेः कालादिति न निश्चयः ॥
सर्वे भावाः प्रतिकलं परिणामिन इत्यपि ।
श्रूयते दृश्यते चापि प्रबन्धे तु विशेषतः ॥
भक्तिः
कतैर् व हि स्वकं ग्रन्थं आवपत्युद्धपत्यपि ।
बहोः कालात्प्रवक्तॄणां संप्रदाये तु किंपुनः ॥
प्रवक्तारस्तत्रतत्र जैमिन्यादिपदैरपि ।
प्रकाशयन्ति तत्रत्याभिप्राय़ानिति युज्यते ॥
तथाच सर्वैराचार्यैः सम्प्रदायप्रवर्तने ।
परिष्कृतिप्रभेदेन व्यवहारो विकल्पताम् ॥
स्मृतिसूत्रप्रवाहोऽयमनादिरिति वर्णितम् ।
कालेकाले संभवतां प्रायस्संकोचविस्तरौ ॥
कर्मकाण्डः देवकाण्डः ब्रह्मकाण्ड इति त्रयम्
कृतं जैमिनिनैवेति चोल्लिखन्ति परे बुधाः ॥
प्रसिद्धिराद्ययोरस्ति तृतीयस्य पुनर्यथा ।
नैष्कर्म्यसिद्धौ नवतितमश्लोकस्थभारती ॥
जैमिनिस्सामगाचार्यस्सामवेदप्रवर्तकः ।
व्यासशिष्य इति स्पष्टं श्रूयते भारतादिषु ॥
कर्मकाण्डे सामवेदविचारः प्रायशस्ततः ।
छान्दोग्योपनिषत्सामशाखीयेति च विश्रुता ।
प्रायस्तदीयवाक्यानि सूत्राणां विषया इति ।
सूत्रभाष्यसमध्येतृविदुषामतिरोहितम् ॥
जैमिनीयं ब्रह्मसूत्रमावापोद्वापतः पुनः ।
पर्यष्कार्षीद्व्यास इति संदर्भेणोहितुं क्षमम् ॥
574 मानमेयरहस्यश्लोकवार्तिके
अनेकेषां मतं ब्रह्मसूत्रेषूदाहृतं ततः ।
ब्रह्मसूत्राण्यप्यनेकान्यासन्निति च कल्प्यते ॥
एवं प्रकल्पने प्रायः भाति सर्वं सुसंगतम् ।
किंकिं नसंभाव्यतेऽत्र संसारेऽनादिवाहिनि ॥
11 अथात्रैवेश्वरे वादविकल्पोऽपि विविच्यते ।
निर्देववादो निस्संविदैववादः पुरोदितः ॥
निरीश्वरो निर्विशेषेश्वरो वेति विकल्पना ।
कालं ब्रह्म विदुः केचित् स्फोटं ब्रह्म विदुः परे ।
कर्म ब्रह्म विदुः केचित् परेऽथ प्रकृतिं विदुः ।
प्रतिबिम्बैश्वर्यवादः प्रतिभासेश्वरस्तथा ॥
निष्व्यापारेश्वरः कश्चित् तथाऽन्यो निरनुग्रहः ।
प्रवाहेश्वरवादोऽन्यः नानेश्वर इतीतरः ॥
मूर्तित्रयेश्वरः कश्चित् तदन्यतम इत्यपि ।
तदुत्तीर्णविवादोऽन्यः शाक्तसौरादिकल्पनी ॥
कल्पना काचिदन्योन्यविभिन्नास्त्रय ईश्वराः ।
ये सत्त्वादिगुणोन्मेषभिदुरेष्वधिकारिणः ॥
कल्पेषु ते चक्रनेमिनीत्या निम्नोन्नतश्रियः ।
एवं बहुविधा वादाः दृश्यन्ते खल्वपीश्वरे ॥
द्विलिङ्गो द्विविभूतिश्च विष्णुर्नारायणो हरिः ।
श्रीपाञ्चरात्रसिद्धान्ते ह्येष ईश्वरनिर्णयः ॥
प्राप्यः परमभाग्यत्वात् निषेव्यः स्वामिभावतः ।
शक्तिकारुण्यभूम्ना च शरण्यस्सीदतां प्रभुः ॥
बहिरन्तश्च तद्व्याप्तिः तत्र यत्रोभयं भवेत् ।
विभोरणोश्च न बहिर्नान्तः तस्मान्न सा तयोः ॥
प्रयोजनस्य विरहान्न कर्तैश इति ब्रुवन् ।
तस्य सिद्धावसिद्धौ च व्याघातादिपराहतः ॥
निरपेक्षस्वतन्त्रस्य सहकारिमत्तस्सदा ।
अप्रवृत्तिः प्रवृत्तिर्वा नित्यं स्यादिति चेन्न तत् ॥
तत्तदिच्छाविशेषेण तत्क्रमस्योपपत्तितः ।
इच्छासंतत्यनादित्वात् न च मूलक्षयः क्वचित् ॥
12 सर्वात्मैक्यं विदुः केचिद्देवैक्यं परे विदुः ।
मूर्तित्रयैक्यं कतिचित् साम्यमेके प्रचक्षते ॥
तेष्वेवान्यतमस्यान्ये विबुधाः परतां विदुः ।
त्रिमूर्त्युत्तीर्णपरतावादिनोऽप्यपरे बुधाः ॥
स हि व्योमातीतवाद इति शास्त्रात्प्रतीयते ।
तत्स्वरूपं किंचिदत्र प्रसङ्गात्प्रतिपाद्यते ॥
उपादानं तु भगवान्निमित्तं तु महेश्वरः ।
इति व्योमातीतवादः दह्रविद्यानिरूपितः ॥
तस्मिन्यदन्तरित्यादौ तच्छब्दो व्योमतत्परः ।
स चाकाशो नामरूपनिर्वोढा विष्णुरुच्यते ॥
576 मानमेयरहस्यश्लोकवार्तिक
तदतीतस्तदन्तस्थः स सदाशिव उच्यते ।
इति वादो निराकारि श्रीभाष्यादिषु सूरिभिः ॥
अतएव निमित्तत्वमुपादानत्वमित्यपि ।
नारायणस्यैवैकस्य श्रुत्याद्येषूपपादितम् ॥
वेदान्तवेद्यो भेदो वाऽभेदो वा द्वयात्मकताऽपिवा ।
कोऽर्थस्समर्थित इति चेत्सर्वं च समर्थितम् ॥
सर्वप्रकारं ब्रह्मैवावस्थितं देहिभावतः ।
अभेदोऽतो रक्षितस्स्यात् एवं ब्रह्मैकवस्त्वपि ॥
नानात्मचिदचिद्वस्तुप्रकारत्वादनेकधा ।
अवस्थितमतो भेदाभेदश्चापि समर्थितः ॥
चिदचिद्वस्त्वीश्वराणां वैलक्षण्यादसंकरात् ।
स्वरूपेण स्वभावेन भेदश्चापि समर्थितः ॥
वेदार्थसंग्रहे त्वस्य विस्तरः प्रतिपादितः ।
स व्योमातीतवादोऽपि तत्रैव सुनिरूपितः ॥
(115) प्रपत्तिः.
1 श्रुतिस्मृतीतिहासेषु प्रपत्तिर्नाम विश्रुता ।
तेषां तु तपसां न्यासमतिरिक्तं ततः श्रुतम् ॥
ब्रह्मणे त्वा महस ओमित्यात्मानं नियोजयेत् ।
अहं मुमुक्षुश्शरणं प्रपद्य इति च श्रुतम् ॥
प्रपन्न इन्द्र शरणं सर्वस्य शरणं सुहृत् ।
इत्यादयः श्रुतिशतं विश्रुतं शरणागतौ ॥
स्मृतीतिहासवचनमनन्तं प्रथितं विदाम् ।
अतस्त्रैवर्णिकत्वादेः भावोऽभावोऽपि कस्य चित् ॥
नाधिकारः प्रपत्तौ स्यादार्किंचन्यमनाश्रितः ।
येषां तु भगवद्गीता प्रमाणमिति सम्मता ॥
प्रपत्तिस्साधनं मुक्तेरिति तैरखिलैर्मता ।
सा परंपरया हेतुरिति सर्वैर्विनिश्चिता ॥
साक्षादपि भवेद्धेतुरिति श्रीवैष्णवा विदुः ।
प्रपत्तिः द्विविधा तस्मात् स्वतन्त्राङ्गविभेदतः ॥
यद्येन कामकामेन न साध्यं साधनान्तरैः ।
तेनतेनाप्यते तत्तन्न्यासेनेव महामुने ॥
परमात्मा च तेनैव साध्यते पुरुषोत्तमः ।
भक्त्या परमया वाऽपि प्रपत्त्या वा महामुने ॥
प्राप्योऽहं नान्यथा प्राप्यः मम कैङ्कर्यलिप्सुभिः ।
इत्यादिकं वचोऽनन्तं भगवच्छास्त्रविश्रुतम् ॥
2 अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् ।
तदेकोपायतायाञ्चा प्रपत्तिश्शरणागतिः ॥
मुनिना भरतेनेत्थं प्रपत्तेर्लक्षणं कृतम् ।
त्वमेवोपायभूतो मे भवेति प्रार्थना मतिः ॥
M.R. 73
७८ मानमेयरहस्यश्लोकवार्तिके
शरणागतिरित्युक्ता सा देवेऽस्मिन् प्रयुज्यताम् ।
आत्मात्मीयभरं सर्वं स्वात्मानं च समर्पयेत् ॥
इत्यादिवचनानां च परामर्शेन देशिकैः ।
निष्कृष्यात्रायमेषोऽर्थः विशदीक्रियते यथा ॥
आकिञ्चन्यभरन्यासोपायत्वप्रार्थनात्मनाम् ।
त्रयाणां सौहृदं सूक्ष्मं यः पश्यति स पश्यति ॥
मुमुक्षुमात्रसामान्यं स्वरूपादिसमर्पणम् ।
अकिंचने भरन्यासस्त्वधिकोऽङ्गितया स्थितः ॥
अत्र रक्षाभरन्यासस्समस्सर्वफलार्थिनाम् ।
स्वरूपफलनिक्षेपस्त्वधिको मोक्षकाङ्क्षिणाम् ॥
स्वनिर्भरत्वपर्यन्तरक्षकैकार्थ्यभावनम् ।
त्यक्तरक्षाफलस्वाम्यं रक्ष्यस्यात्मसमर्पणम् ॥
भरन्यासप्रधानो यस्सर्वान्वयविवर्जितः ।
तच्छेषत्वानुसंधानविशेषः शरणागतिः ॥
३ साधनं भगवत्प्राप्तौ स एवेति स्थिरा मतिः ।
साध्यभक्तिस्थता चैव प्रपत्तिरिति गीयते ॥
उपायो भक्तिरेवेति तत्प्राप्तौ या तु सा मतिः ।
उपायभक्तिरेतस्याः पूर्वोक्तैव गरीयसी ॥
उपायभक्तिः प्रारब्धव्यतिरिक्ताघनाशिनी ।
साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी
प्रारब्धकर्मावधिको मोक्ष उक्त उपासितुः ।
दृप्तस्य देहावधिकः आर्तस्यार्त्यवधिर्मतः ॥
इयं केवललक्ष्मीशोपायत्वप्रार्थनात्मिका ।
स्वहेतुत्वधियं रुन्धे किंपुनस्सहकारिणाम् ॥
शास्त्रार्थज्ञानवेलायामुपायत्वेन निश्चितः ।
अनुष्ठानदशायां तूपायबुद्धिं परित्यजेत् ॥
4 फलं संगं च कर्तृत्वमुपायत्वं च संत्यजेत् ।
सात्त्विकत्याग एष स्यात् इति श्रीभगवान् जगौ ॥
साङ्गं ससात्त्विकत्यागं कुर्याद्भरसमर्पणम् ।
अन्यथा विधिकोपस्स्यात् चेतनोऽचेतनो भवेत् ॥
सर्वज्ञोऽपि हि विश्वेशस्सदा कारुणिकोऽपि सन् ।
संसारतन्त्रवाहित्वात् रक्ष्यापेक्षां प्रतीक्षते ॥
आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम् ।
रक्षिष्यतीति विश्वासः गोप्तृत्ववरणं तथा ॥
कार्पण्यं चेति पञ्चाङ्ग आत्मनिक्षेप इष्यते ।
पञ्चानामपिचाङ्गानामिदं विवरणं मतम् ॥
चराचराणि भूतानि सर्वाणि भगवद्वपुः ।
अतः तदानुकूल्यं मे कर्तव्यमिति निश्चयः ॥
अन्तःस्थितस्स भगवान् सर्वेषामिति निश्चयात्
सर्वभूतेषु च सदा प्रातिकूल्यं विवर्जयेत् ॥
80 मानमेयरहस्यश्लोकवार्तिके
कार्पण्येनाप्युपायानां विनिवृत्तिर्विवक्षिता ।
रक्षिष्यतीतिविश्वासात् अभीष्टोपायकल्पना ॥
गोप्तृत्ववरणं नाम स्वाभिप्रायनिवेदनम् ।
शाश्वती मम संसिद्धिरियं प्रह्वीभवामि यत् ॥
पुरुषं परमुद्दिश्य न मे सिद्धिरितोऽन्यथा ।
प्रपत्तिसंग्रहस्त्वित्थं अनुष्ठानक्रमस्त्वसौ ॥
5 अहं मद्रक्षणभरः मद्रक्षणफलं तथा ।
न मम श्रीपतेरेवेत्यात्मानं निक्षिपेद्बुधः ॥
न्यस्याम्यकिंचनः श्रीमन् अनुकूलोऽन्यवर्जितः ।
विश्वासप्रार्थनापूर्वमात्मरक्षाभरं त्वयि ॥
स्वामिन् स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् ।
स्वदत्तस्वधिया स्वार्थे स्वस्मिन्न्यस्यसि मां स्वयम्
श्रीमन्नभीष्टवरद त्वामस्मि शरणं गतः ।
एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम् ॥
त्वच्छेषत्वे स्थिरधियं त्वत्प्राप्त्येकप्रयोजनम् ।
निषिद्धकाम्यरहितं कुरु मां नित्यकिङ्करम् ॥
देवीभूषणहेत्यादिजुष्टस्य भगवंस्तव ।
नित्यं निरपराधेपु कैङ्कर्येषु नियुङ्क्ष्व माम् ॥
मां मदीयं च निखिलं चेतनाचेतनात्मकम् ।
स्वकैङ्कर्योपकरणं वरद स्वीकुरु स्वयम् ॥
त्वदेकरक्ष्यस्य मम त्वमेव करुणाकर ।
न प्रवर्तय पापानि प्रवृत्तानि निवर्तय ॥
अकृत्यानां च करणं कृत्यानां वर्जनं च मे ।
क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो ॥
श्रीमान् नियतपञ्चाङ्गं मद्रक्षणभरार्पणम् ।
अचीकरत् स्वयं स्वस्मिन् अतोऽहमिह निर्भरः ।
वेदान्तदेशिकन्यासदशकं लिखितं न्विदम् ।
रहस्यत्रयसारे तु महीयान् न्यासविस्तरः ॥
(116) न्यायसिद्धान्तः.
1 प्रायः प्रपञ्चितस्सर्वैतरसिद्धान्तसंग्रहः ।
अथ नैयायिकोक्तीनां संग्रहोऽपि निशाम्यताम् ॥
न तद्व्यवसितं पुंसां न तत्कर्म न तद्वचः ।
न तद्भोग्यं समस्तीह यन्न दुःखाय जायते ॥
तत्त्वतश्चिन्त्यमानं हि सर्वं दुःखं विवेकिनः ।
विषसंपृक्तमधुमत् सर्वं दुःखीभवत्यदः ॥
सुखाधिगमलोभेन यतमानो हि पूरुषः ।
सहस्रशाखमाप्नोति दुःखमेव तदर्जने ॥
2 एवं सर्वमिदं दुःखमिति भावयतोऽनिशम् ।
सर्वोत्पत्तिस्थानेषु निर्वेदोऽस्य प्रवर्तते ॥