मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 605, कुल 672 में से
संदर्भ में पढ़ेंउभयानुगतं शुद्धचैतन्यमिति सिद्ध्यति ।
तदा यावत्सर्वमुक्ति चितिमात्राविरोधि यत् ॥
बद्धान्तराज्ञानकृतमैश्वर्यं निरवग्रहम् ।
गुणाष्टकं च निरतिशयानन्दप्रकाशनम् ॥
तैर्युक्ता निस्सन्धिबन्धे श्वरतापत्तिलक्षणा ।
मुक्तिस्सम्पद्यत इति सूत्रभाष्यादिसम्मता ॥
सैषा विशुद्धचिन्मात्रभावेऽन्ते पर्यवस्यति ।
इत्यद्वैतमते सूक्ष्मविचारोऽन्यत्र विस्तृतः ॥
(114) भक्तिः.
1 विशिष्टाद्वैतसिद्धान्ते नारायणकटाक्षतः ।
विनश्यत्यखिलं कर्माविद्यानिग्रहलक्षणम् ॥
वेदनं ध्यानविश्रान्तं ध्यानं श्रान्तं ध्रुवास्मृतौ ।
सा च दृष्टित्वमभ्येति दृष्टिः भक्तित्वमृच्छति ॥
स्मृतिसन्ततिधारेयं ध्यानमित्यभिधीयते ।
विजातीयप्रत्ययाव्यवहिता सा ध्रुवा स्मृतिः ॥
तैलादिधारावदविच्छिन्ना सन्ततिरेव सा ।
सा दर्शनसमाकारा दृष्टिरित्यभिधीयते ॥
वैशद्यातिशयश्चैषः भवेदाकारशब्दितः ।
एवंरीत्युपचारस्य निदानं स्यादिदं यथा ॥