सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

534 मानमेयरहस्यश्लोकवार्तिके
नित्योर्ध्वगमनं मुक्तिरिति ह्यार्हतपद्धतिः ।
अर्हद्देहानुप्रवेशः तदीयैः कैश्चिदिष्यते ॥
साधारणशरीरोऽसौ सर्वलोकोपरिस्थितः ।
निरावरणता कैश्चिदलोकाकाश इष्यते ॥
सर्वलोकाकाशमूर्ध्नि सोऽलोकाकाश इष्यते ।
वियातानुभवः कैश्चिद्धैयात्यं च प्रगल्भता ॥
स्वातन्त्र्यं शिवसारूप्यं शिवसाम्यमथापिवा ।
चिच्छक्तिपरिशेषश्च भेदाः पाशुपता इमे ॥
2 ज्योतिष्टोमाग्निहोत्रादिसाध्यो यस्स्वर्गलक्षणः ।
मोक्षस्स एवेति मतं जरन्मीमांसकाहृतम् ॥
चित्तेन स्वात्मसौख्यानुभूतिं भाट्टैकदेशिनः ।
केचित्स्वात्मन्यवस्थानमभावापत्तिलक्षणम् ॥
परमात्मप्राप्त्यवस्था पुनरावृत्तिवर्जिता ।
मुक्तिर्निःश्रेयसमिति निर्णीतं तन्त्रवार्तिके ॥
प्रभाकरगुरूणां तु दृषत्तुल्य इतीरितम् ।
बोद्धा विषयसंवित्तौ ग्राहकत्वेन भासते ॥
मोक्षे प्रकाशरूपोऽसावात्मेत्येके प्रचक्षते ।
नेप्स्येत पुरुषैस्स्वापादविशिष्टोऽन्यथा तदा ॥
केवलात्मानन्दभोगः कापिलैः कैश्चिदिष्यते ।
कैश्चित्स्वसंवित्तिशून्या कैवल्यावास्थितिर्मता ॥

मोक्षविकल्पः
एवमेवानुजानन्ति पातञ्जलमतानुगाः ।
प्रकाशात्मविदो न स्वप्रकाशात्मविदस्तु ते ॥
सर्ववैशेषिकगुणोच्छेदः काणभुजो मतः ।
एवमेवानुजानन्ति केचिद्गौतमदर्शनाः ॥
तथा नित्यसुखव्यक्तिं विदुर्भूषणयायिनः ।
अथौपनिषदैः प्रायः ब्राह्माविर्भाव उच्यते ॥
स्वाभाविकं तु ये भेदाभेदमिच्छन्ति वैदिकाः ।
भर्तृप्रपञ्चाद्यस्तैस्सन्मात्रब्रह्मता मता ॥
औपाधिकं तु ये भेदमभेदं निरुपाधिकम् ।
इच्छन्ति भास्करास्तेषां सत्योपाधिविनाशतः ।
सर्वातिशयितानन्दस्वात्मसंवेदिनः प्रभोः ।
सर्ववेत्तुस्सर्वशक्तेः ब्रह्मणो भाव इष्यते ॥
आविद्यकं तु ये भेदमभेदं पारमार्थिकम् ।
अहुर्मायाविदस्तेषां पन्थाश्शांकरसंमतः ॥
निर्विशेषब्रह्मभावापत्तिर्मोक्षस्तु तन्मते ।
ब्रह्माद्वैतवदेवेदं शब्दाद्वैतविदां मतम् ॥
ते विशुद्धाद्वैतिनस्स्युः विशिष्टाद्वैतिभिः पुनः ।
परिपूर्णपरब्रह्मानुभवो मोक्ष इष्यते ॥
तद्भोगे परमं साम्यमाहू रामानुजादयः ।
स्वतन्त्रयोरस्वतन्त्ररूपानन्दाभिव्यक्तिलक्षणा ॥

536 मानमेयरहस्यश्लोकवार्तिके

मुक्तिरित्युच्यते पूर्णप्रज्ञैः विष्णोः प्रसादतः ।
'प्रायेणैतेषु पक्षेषु संकीर्णा इतरेऽखिलाः ॥
३ जीवस्वरूपप्रध्वंसवादिनो ये विचक्षणाः ।
मुक्तिमात्यन्तिकीं सर्वक्लेशोभ्यस्ते विदुस्ततः ॥
तत्रादिमास्तु क्षणिकविज्ञानात्मविदो बुधाः ।
देहान्तात्मविदो ये तु बार्हस्पत्या हि ते मताः ॥
पौराणिकैकदेशीयाः ये कल्पान्तात्मवादिनः ।
येऽप्यौपनिषदाः केचित् मोक्षान्तात्माभिधायिनः।
तत्रच ब्रह्मदत्तीयाः जीवोत्पत्त्यादिवादिनः ।
ब्रह्मैवोपादानमेषां जीवानामिति तन्मतम् ॥
भर्तृप्रपञ्चादयोऽन्ये ब्रह्मावस्थात्मवादिनः ।
तत्र केचिदभिव्यक्तिवादिनः शक्तिवेदिनः ॥
विकारा ब्रह्मणः जीवा इति कैश्चिदुपेयते ।
उत्पत्तिरप्यभिव्यक्तिः विकृतिर्वाऽप्यवस्थितिः ॥
परिणामस्ततस्सर्वे ख्याता वैनाशिका इति ।
सर्वेऽप्याश्रयनाशेन क्लेशप्रध्वंसवादिनः ॥
वैकासिकाः परे सर्वे प्रायो वैयासिका इमे ।
परिच्छेदकनाशेन ह्यपरिच्छेदवादिनः ॥
४ एवं मोक्षविकल्पेन द्विविधा ज्ञायते गतिः ।
स्वरूपोच्छित्तिरूपैकोपाध्युच्छित्तिरनन्तरा ॥

मोक्षविकल्पः ५३
उपाध्युच्छित्तिपक्षेऽपि विभागो मुख्यतस्त्वसौ ।
स्वसंवेदनराहित्यसाहित्याभ्यां द्विधा मतः ॥
स्वस्वरूपोच्छित्तिपक्षसंविद्रहितपक्षयोः ।
विशेषः फलतो नैव वक्तुं शक्यमितीतरे ॥
सुखसंवित्त्यभिव्यक्तिं कैवल्येऽप्यनुजानते ।
श्रुतिन्यायानुरोधेन तात्पर्ये पर्यवस्यति ॥
अतस्स्वतन्त्रः श्रौतोऽन्यः पक्षो नास्तीति यौक्तिका
तस्मान्मध्यस्थचिन्तायां सम्प्रदायः परा गतिः ॥
संस्कारः सुदृढस्सोऽयं पारंपर्यव्यवस्थितः ।
संप्रदायः यतः श्रद्धाविद्याकर्ममयः पुमान् ॥
5 येयं सुषुप्त्यवस्थैषा सर्वचेतनसाक्षिता ।
तामुदाहरणं मुक्तेस्सर्वे दार्शनिका विदुः ॥
बृहदारण्यके याज्ञवल्क्यो जनकभूपतेः ।
मोक्षोपलक्षणामेतामाह षष्ठप्रपाठके ॥
भाष्येऽपि पाक्षिले सैषा दशैवानूदिता तथा ।
यथा सुप्तस्य च स्वप्नादर्शने क्लेशसंक्षयः ॥
तथाऽपवर्गे रागानुबन्धो विच्छिद्यते तराम् ।
तस्यामपिं दशायां ये विकल्पास्तान्निबोधत ॥
आत्मप्रध्वंसवादा ये तेषां निर्वाणलक्षणा ।
मुक्तिरात्यन्तिकी सैषा या महासुप्तिरुच्यते ॥
M.R. 68

538 मानमेयरहस्यश्लोकवार्तिके
आत्मनित्यत्ववादा ये तेषां कैवल्यलक्षणा ।
मुक्तिरेतादृगेवेष्टा सुखदुःखविवर्जिता ॥
एतां च केचिदत्यन्तसुखरूपां विजानते ।
केचिदल्पसुखां केचिदभावालम्बनां विदुः ॥
केचिन्मोहमयीं प्राहुरात्मनोऽस्फुरणात्मिकाम् ।
दृष्टान्तेऽपि विवादश्चेत्कथं दार्ष्टान्तिकस्थितिः ॥
6 यैषाऽऽनन्दस्य मीमांसा मानुषानन्दपूर्विका ।
विकासरूपा सा सर्वलोककामाप्तिलक्षणा ॥
एते वैकासिकाः ख्याताः प्रायो वैनाशिकाः परे
ते निवृत्तिपराकाष्ठानिष्ठा इति विनिर्णयः ॥
ये प्रवृत्तिपराकाष्ठानिष्ठास्ते उभये समाः ।
भावाभावस्वभावस्य फलयोरविशेषतः ॥
या संकोचनिवृत्तिस्स विकास इति गीयते ।
यैवावृत्तिनिवृत्तिस्स प्रकाश इति कथ्यते ॥
सर्वदा गमनं यच्च सर्वदा स्थितिरेव सा ।
सर्वत्र गमनं यच्च सर्वत्र व्याप्तिरेव सा ॥
पराप्रकाशयता यैव सैव स्यात्स्वप्रकाशता ।
अस्तमेतैव सविता चोदेता कस्यचिद्भवेत् ॥
तथा सर्वपरित्यागस्सर्वसंग्रहणात्मकः ।
सर्वत्र रागस्सर्वत्र वैराग्यं चोभयं समम् ॥

मुक्तात्मविकल्पः ५३९
सर्वज्ञता सर्वशक्तिः जडता तुच्छताऽपिवा ।
तथैव सर्वतोमुक्तिस्सर्वप्राप्तिरितीर्यते ॥
अपोहदृष्टयः केचित्केचिदन्वयदृष्टयः ।
श्रद्धामयोऽयं पुरुषः यो यच्छ्रद्धस्स एव सः ॥
नैरात्म्यमेव सार्वात्म्यं इति तत्त्वविदो विदुः ।
एष कश्चित्सर्वसमरसभावविनिर्णयः ॥
(110) मुक्तात्मविकल्पः
1 आत्मनः खलु वै मोक्षोऽथात्मचिन्ता प्रवर्तते ।
आत्मतत्त्वानुसारेण मोक्षतत्त्वं विभिद्यते ॥
तथाच लोकायतिकाः परलोकापवादिनः ।
चैतन्यखचितात्कायान्नात्माऽन्योऽस्तीति मन्वते
2 अथो तथागताः प्राहुः किं पुंसा कल्पितेन वा ।
ज्ञानमात्रेण सर्वोऽपि व्यवहारोऽवकल्पते ॥
ज्ञानस्यैव प्रभेदोऽयमिच्छाद्वेषसुखादिकः ।
न वस्त्वन्तरमित्येवं न ततोऽन्यप्रकल्पनम् ॥
गुणत्वमपि नास्त्यस्य यतोऽधिष्ठानकल्पना ।
न गुणव्यतिरिक्तश्च गुणी नामास्ति कश्चन ॥
तद्विज्ञानस्कन्ध एषः क्षणिकश्च ध्रुवान्तकः ।
कर्तृभोक्तृप्रत्यभिज्ञाव्यवस्था वासनानुगा ॥

40 मानमेयरहस्यश्लोकवार्तिके
ज्ञानसंततिरुच्छिन्ना शून्यताऽद्वयलक्षणा ।
मुक्तात्मेति विदुः केचित् परे तां शुद्धलक्षणाम् ॥
3 केवलं चापि कूटस्थं पुरुषं कापिला विदुः ।
चैतन्यं चेतनश्चासावभेदो धर्मधर्मिणोः ॥
न कर्तृताभोक्तृताद्याश्चितस्स्वाभाविका गुणाः ।
असंसर्गाग्रहाद्बुद्धिवृत्तयोऽध्यासगोचराः ॥
परेतु सांख्याः पुरुषे भोक्तृतामनुजानते ।
चिद्रूपेण विकारोऽसौ स्यात्सजातीयलक्षणः ॥
यस्मिन् विक्रियमाणेऽपि तदेवेदमिति प्रमा ।
न विहन्येत तन्नित्यं निर्विकारं च मन्वते ॥
4 चैतन्यदृक्क्रियारूपं तदस्त्यात्मनि सर्वदा ।
तत्सर्वतोमुखं मुक्ताविति पाशुपता विदुः ॥
5 वैशेषिकादयः ज्ञातृकर्तृभोक्तृत्वलक्षणान् ।
गुणानागन्तुकानात्मन्युपयन्तोऽपि नित्यताम् ॥
विभुत्वं निर्विकारत्वमिच्छन्त्युच्छित्त्यसंभवात् ।
न प्रकाशात्मतां नापि स्वप्रकाशात्मतां विदुः ॥
6 कौमारिलादिसिद्धान्ते कर्ता भोक्ता मतः पुमान्
ज्ञानशक्तिस्वभावश्च नित्यः सर्वगतः स्वतः ॥
नानित्यशब्दवाच्यत्वमात्मनो विनिवार्यते ।
विक्रियामात्रवाचित्वे न ह्युच्छेदोऽस्य तावता ॥

स्यातामत्यन्तनाशेऽस्य कृतनाशाकृतागमौ ।
न त्ववस्थान्तरप्राप्तौ लोके बाल्युवादिवत् ॥
विक्रियात्मस्वभावोऽपि व्यावृत्त्यनुगमात्मकः ।
पुरुषोऽभ्युपगन्तव्यः कुण्डलादिषु सर्पवत् ॥
सर्वावाप्तिसमर्थश्च प्रकृत्याऽऽत्मा सदेष्यते ।
कश्चित्तु प्रतिबन्धोऽस्य कर्मभिस्सोऽपनीयते ॥
7 विशुद्धाद्वैतिनोऽविद्यावशात्सर्वस्य संगतेः ।
विद्यया तन्निवृत्तेश्च कौटस्थ्यं प्रतिपेदिरे ॥
ज्ञातृज्ञानज्ञेयभेददर्शनं दोषबन्धनम् ।
दोषहानौ सदद्वैतं आनन्दमजरामरम् ॥
8 विशिष्टाद्वैतिनो धर्मभूतज्ञानगतं विदुः ।
विकारजातमात्मानं निर्विकारं प्रचक्षते ॥
तदेवं चित्स्वभावस्य पुंसः स्वाभाविकी चितिः ।
तत्तत्पदार्थसंसर्गात्तत्तद्वित्त्वमश्नुते ॥
स विकारः कर्ममूलः तस्मादौपाधिकस्तु सः ।
स्वाभाविको मोक्षदशाविकासः न स दुष्यति ॥
ज्ञानात्मको ज्ञानधर्मा शेषतैकरसः पुमान् ।
निरञ्जनस्तु परमं साधर्म्यमुपगच्छति ॥
9 विशुद्धाद्वैतिनः कर्तृभोक्तृत्वप्रमुखान् गुणान् ।
रूपगन्धरसस्पर्शप्रभृतींश्चात्मनो विदुः ॥

सर्वे स्वरूपभूतास्स्युः ते यावद्द्रव्यभाविनः ।
अन्तःकरणधर्मंश्च ज्ञानादीन् सांख्यरीतितः ॥
विदुस्स्वरूपातिरिक्तान् सुखादीन् साक्षिगोचरान् ।
सर्वेऽप्यौपाधिकाः कर्मनाशे नश्यन्ति केवलम् ॥
सांशोऽपि सविकारोऽपि साकारोऽपि परस्परम् ।
विलक्षणोऽपि जीवात्मा नित्य एवेति निर्णयः ॥
10 द्रव्यात्मा निर्विकारस्स्यात् पर्यायात्मा विकार्यपि ।
नातो विरोध इत्याहुर्भेदाभेदविशारदाः ॥
सत्योपाध्युपधानेन कर्तृभोक्त्रादिलक्षणः ।
पुरुषो भास्करमते निर्विकारः स्वतः पुमान् ॥
11 स्याद्वादिनो विकारित्वं सांशत्वं द्रव्यतां तथा ।
पर्यायत्वं च मूर्तत्वं परिच्छिन्नत्वमेवच ॥
अनादित्वमनन्तत्वं आत्मरूपं प्रचक्षते ।
आनन्दरूपं सार्वज्ञ्यं स्वातन्त्र्यं सदनुग्रहम् ॥
12 अविद्योपाधिना वा शक्त्या धर्मेण वा पुनः ।
स्याद्वादाद्वा वासनया विरोधाभावसंग्रहः ॥
13 चतुर्विधाः पुरा प्रोक्ताः ह्यात्मानित्यत्ववादिनः ।
चतुर्ष्वपि मतेष्वेतान् क्रमाद्दोषान् विदुः परे ॥
आद्ये मते त्वैहिकार्थप्रवृत्तिर्दुर्घटा भवेत् ।
देहान्तत्वे विश्ववृत्तिर्धर्म्ये पथि न सिद्ध्यति ॥

मुक्तात्मविकल्पः 543

आकल्पस्थायिपक्षे तु मोक्षशास्त्रं हि निष्फलम् ।
आमोक्षस्थायितायां तु मोक्षस्य न पुमर्थता ॥
तस्माच्चतुर्विधैरेष पुरुषार्थैर्यथायथम् ।
समन्वयं प्राप्तुमर्हः स्वीकर्तव्य इति स्थितम् ॥
मद्धिनाशात्फलं न स्यात् मत्तोऽन्यस्याथवा भवेत् ।
इति नैव प्रवृत्तिस्स्यात् आत्मानश्चेद्विनाशिनः ॥
निरस्ताखिलदुःखोऽहमनन्तानन्दभाक्स्वराट् ।
भवेयमिति मोक्षार्थी श्रवणादौ प्रवर्तते ॥
अहमर्थविनाशश्चेन्मोक्ष इत्यध्यवस्यति ।
अपसर्पेदसौ मोक्षकथाप्रस्तावगन्धतः ॥
मयि नष्टेऽपि मत्तोऽन्यस्तम्भः कुम्भश्च तिष्ठति ।
इति स्वस्य शिरश्छेदः पुरुषार्थो न कस्यचित् ॥
ननुचात्महनो लोके पुरुषास्सन्ति चेन्न ते ।
विवेकिनः किन्तु मूढाः क्रोधान्धहृदया इति ॥
आत्मानो यद्यनित्यास्स्युः कृतहानाकृतागमौ ।
स्यातामिति मतं तेषामात्मनित्यत्ववादिनाम् ॥
स्योदन्यथा पापपुण्यविप्लवश्शास्त्रविप्लवः ।
प्रपञ्चविप्लवस्तस्मात्सर्वेषामात्मनित्यता ॥
सर्वथा साधनीयेति सर्वशास्त्रार्थसंग्रहः ।
इदमेव ह्यास्तिकत्वं नास्तिकत्वं विपर्ययः ॥

(111) कर्मनिवृत्तिवादः.
1 मुक्तिर्हि कर्मणो मोक्षः कर्मतत्त्वं विबुद्ध्यताम् ।
पुण्यं पापमिति द्वेधा लोके कर्म हि विश्रुतम् ॥
पुण्यं विहितजन्यं स्यात् पापं तु प्रतिषिद्धजम् ।
सुखस्य साधनं पुण्यं पापं दुःखस्य साधनम् ॥
इति सामान्यतस्सिद्धं तद्विकल्पोऽवधार्यताम् ।
शाबरा ब्रुवते धर्मं कर्म यागादिलक्षणम् ॥
अपूर्वं कर्मनिर्वर्त्यं वृद्धमीमांसका विदुः ।
प्राभाकरास्तु वाक्यार्थं नियोगं तत्प्रचक्षते ॥
स भावनाविशेषस्स्यादात्मस्थ इति निर्णयः ।
कौमारिलास्तु संस्कारं धर्माधर्मौ पुमाश्रितम् ॥
बुद्धिवृत्तिविशेषो यः तं धर्मं कापिला विदुः ।
धर्मत्वेन व्यपदिशन्त्यार्हताः पुण्यपुद्गलान् ॥
आराध्यदेवताप्रीतिं बादरायणवर्त्मगाः ।
आचक्षते धर्मगिरा सौगताश्चित्तवासनाम् ॥
2 इत्थं तत्त्वे विनिर्ज्ञाते धर्माधर्मपदार्थयोः ।
तन्निवृत्तौ विवादोऽयं प्रवृत्तस्त्ववगम्यताम् ॥
नन्वात्मदर्शनं मोक्षहेतुस्स्यादित्यसाम्प्रतम् ।
अनादित्वादनन्तत्वात्कर्मणां संततात्मनाम् ॥
अथ दोषक्षयान्मा भूदुत्तरः कर्मसंग्रहः ।
कथं फलमदत्त्वैव प्राक्तनं कर्म शाम्यति ॥

कर्मनिवृत्तिवादः ५४
कर्मक्षयो हि विज्ञानादित्येतच्चाप्रमाणकम् ।
तथाऽल्पफलदानं च राजपुत्रापराधवत् ॥
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।
इत्यादीनि वचांस्यत्र प्रमाणमुपलभ्यते ॥
३ तत्र ये त्वात्मनो नाशं स्वरूपेण विदुर्बुधाः ।
तेषामाश्रयनाशेनाशेषबन्धपरिक्षयः ॥
बन्धश्चित्तगतो येषामात्मा कूटस्थलक्षणः ।
तेषां तु कापिलादीनां चित्तनाशेन मोक्षणम् ॥
दृग्दृश्यभाव एव स्यात्संयोगः पुंप्रधानयोः ।
भोगापवर्गार्थतायां कृतायां तन्न दृश्यते ॥
आविद्यकं कर्म येषामविद्यावादिनां मतम् ।
स्वप्रप्रबोधन्यायेन विद्यायां तत्परिक्षयः ॥
तां विद्यां केचिदिच्छन्ति विबुधा भावनामयीम् ।
साक्षात्कारवतीं केचित् केचिच्चिन्तामयीं बुधाः ॥
केचित् श्रुतिमयीं केचिदाहुर्वाक्यार्थधीमयीम् ।
एवं बहुविधा वादाः मायामभ्युपगच्छताम् ॥
४ कणादमुनिसिद्धान्ते मार्गद्वयमिदं पुनः ।
प्रशस्तपाददेवेन सूचितं भाष्यसागरे ॥
केषांचियोगिनां शान्तिसंतोषस्सुखलक्षणः ।
दुःखात्मकं तपश्चैव पुण्यपापफलं त्विति ॥
M.R. 69

546 मानमेयरहस्यश्लोकवार्तिके
सौभर्यादिन्यायाद्वाऽपि नानादेहपरिग्रहात् ।
सर्वं कर्मानुभूयान्ते मुक्तास्स्युरिति केचन ॥
नित्यं नैमित्तिकं कर्म कर्तव्यं ज्ञानिनामपि ।
अनुष्ठानायासमाहुः फलं प्राक्कर्मणां परे ॥
5 नित्यं नैमित्तिकं कर्म प्राक्तनं कर्म नाशयेत् ।
प्रायश्चित्तनयाच्चेति बृहट्टीकाकृतां मतम् ॥
नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् ।
ज्ञानं च विमलीकुर्वन्नभ्यासेन च पाचयेत् ॥
अभ्यासाच्च क्वचित् ज्ञानात्कैवल्यं लभते नरः ।
धर्मेणापनुदेत्पापं प्रायश्चित्तेन वा सुधीः ॥
इत्यादीनि वचांस्यत्र प्रमाणानि परश्शतम् ।
प्रतिपद्य विनिर्णीतः मुक्त्यै कर्मपरिक्षयः ॥
6 तत्र ज्ञातात्मतत्त्वानां भोगात्पूर्वक्रियाक्षये ।
उत्तरप्रचयाभावात् विदुर्मुक्तिं कुमारिलाः ॥
मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ।
नित्यनैमित्तिके कुर्यात्प्रत्यवायजिघांसया ॥
7 सर्वाणि पूर्वकर्माणि संभूयैकं शरीरिणाम् ।
शरीरमारभन्तेऽतः प्रारब्धान्नास्ति संचितम् ॥
स चैकभविकः पक्षः पातञ्जलमतादृतः ।
तं नाद्रियन्ते बहवः कर्मशेषवचश्शतैः ॥

8 ज्ञानाग्निना कर्मनाशः वासुदेवस्य सम्मतः ।
नानुयोगस्यावकाशः पुमर्थे शास्त्रलक्षणे ॥
ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन ।
नहि ज्ञानेन सदृशं पवित्रमिह विद्यते ॥
9 मिथ्याज्ञानं च दोषाश्च कर्मणस्सहकारिणः ।
तद्वैकल्येन सन्त्येव न फलन्तीति गौतमाः ॥
10 समाराध्योऽपराध्यो वा भगवान् सर्वकर्मणाम् ।
तस्मिन् प्रसन्ने किं साध्यं न भवेदिति सेश्वराः ॥
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥
11 एवमाद्यं सुप्रसिद्धमथ वैयासिके मते ।
माहात्म्यं ब्रह्मविद्यायाः फलाध्याये प्रदर्शितम् ॥
अश्लेषश्च विनाशश्च स्यातामुत्तरपूर्वयोः ।
तत्र पूर्वे अनारब्धकार्ये एवेति निर्णयः ॥
भोगेनैव क्षेपणीये प्रारब्धे कर्मणी इति ।
यत् श्रूयते शत्रुमित्रोपायनं कर्मणोरिदम् ॥
समानविषयं ज्ञेयं तदश्लेषविनाशयोः ।
कालभेदस्त्वेतदीयावस्थाभेदनिबन्धनः ॥
अनुग्रहो निग्रहो वा क्रमादेव हि लौकिकः ।
वर्धते क्षीयते तद्वदीश्वरीयोऽप्यलौकिकः ॥

48 मानमेयरहस्यश्लोकवार्तिके
(112) कर्मज्ञानसंबन्धः
1 एवं कर्मनिवृत्तौ च विकल्पे परिनिष्ठिते ।
ये संबन्धविकल्पास्स्युस्त एते ज्ञानकर्मणोः ॥
कर्मैव केवलं काम्यं केषांचिन्मोक्षसाधनम् ।
कैश्चित्तु नित्यं कर्मैव मोक्षसाधनमिष्यते ॥
स चैकभविकः पक्षः कामकर्म हि जन्मनः ।
कारणं, तदभावे तु मुच्यते हेत्वभावतः ॥
केषां चिन्नित्यमेवैतत् कर्म पापविनाशकम् ।
पापक्षयादेव मुक्तिः अभावो मोक्षकारणम् ॥
कापिलाः ज्ञानमेवैकं मोक्षसाधनमभ्यधुः ।
ज्ञानं कर्म च केषांचिद्धेतुस्समसमुच्चितम् ॥
अनिष्टस्य निवृत्तिश्च तथेष्टप्राप्तिरित्यपि ।
यदि स्यात् द्विदलो मोक्षः द्वितयं साधनं भवेत् ।
तच्च कर्म ज्ञानमिति क्रमात्साधनमिष्यते ।
इति भेदाभेदवादियादवप्रमुखा विदुः ॥
बृहट्टीकाकृतश्चेति राणके प्रतिपादितम् ।
उपवर्षादयोऽप्येवमितिचाद्वैतिनो विदुः ॥
यद्यनिष्टनिवृत्तिर्वा तथेष्टप्राप्तिरेव वा ।
मोक्षस्यैकप्रकारत्वे साधनं तादृशं भवेत् ॥
मोक्षो निरवधिः प्रीतिः स स्वर्ग इति ये विदुः ।
... मीमांसकास्तेषां साधनं कर्म केवलम् ॥

कर्मज्ञानसंबन्धः 54
अज्ञानादिह संसारं ज्ञानान्मोक्षं च ये विदुः ।
सर्वे ज्ञानैकसाध्यं तं मोक्षमाहुर्मनीषिणः ॥
तेषामनिष्टमज्ञानं तन्निवृत्तिरभीप्सिता ।
मोक्षः स्वतस्सिद्ध एव साध्यश्चेन्नश्यति ध्रुवम् ॥
परीक्ष्यलोकानित्यादिवेदान्ते प्रतिपादितम् ।
यामिमां पुष्पितां वाचमित्याद्यायां स्मृतावपि ॥
2 ज्ञानस्य चाङ्गं कर्मेति कर्मणोऽङ्गं च धीरिति ।
तत्रापि च विशेषांशः एषोऽयमवधार्यताम् ॥
कर्म ज्ञानं द्वयं चापि स्यादारात्सन्निपत्य च ।
क्रमादङ्गमिति प्राहोदयनः किरणावळौ ॥
ज्ञानाङ्गकं च कर्मैव केषांचित् मोक्षसाधनम् ।
क्रत्वङ्गकर्तृसंस्कारो ज्ञानमित्यपरं मतम् ॥
कर्माधिकारसिद्ध्यर्थं शरीरान्यस्थिरात्मनः ।
विज्ञानमिति केषांचिन्मतं ज्ञानाङ्गवादिनाम् ॥
भविष्यद्देहसंबन्धी वाक्यादात्मा न चेन्मितः ।
मानान्तराच्च कः कुर्याददृष्टार्थाः क्रियास्सुधीः ॥
वेदोत्तरास्स्युर्वेदान्ता इति केचित्प्रचक्षते ।
ते पुनर्निगमान्तानामुपच्छन्दनवादिनः ॥
शेषत्वादिति सूत्रेण सर्वमेतद्विवक्षितम् ।
कर्माङ्गकं ज्ञानमेव मोक्षहेतुं विदुः परे ॥

तत्रारादुपकाराङ्गं भास्करादिमतं विदुः ।
सन्निपत्योपकाराङ्गं प्राहू रामानुजादयः ॥
आरादेवोपकुर्वन्ति क्रियाश्चित्तविशुद्धितः ।
इति सौरेश्वरं वाक्यं श्रुतं संबन्धवार्तिके ॥
कर्मणां कामविलयद्वारा धीशेषतोदिता :
स कामध्वंससिद्धान्तः प्रायः कापिलसंमतः ॥
प्रपञ्चविलयद्वारा धीशेषत्वं विदुः परे ।
काण्डद्वयाविरोघाय नानामार्गविकल्पना ॥
३ तमेतमिति शास्त्रेण वेदनाकामनार्थता ।
कर्मणामिति भामत्याचार्यसिद्धान्तपद्धतिः ॥
अथ स्याद्वेदनेच्छायां यज्ञानुष्ठानमिष्यते ।
अनुष्ठानाद्वेदनेच्छेत्यन्योन्याश्रयतेति चेत् ॥
इच्छा हि द्विविधा काचिद्विषयोन्मुख्यलक्षणा ।
उत्कटा रुचिरन्या स्यात् बुभुक्षादिषु दृश्यते ॥
अन्नद्वेषात्कृशो लोके तदौन्मुख्याच्चिकित्सने ।
प्रवर्ततेऽथ तद्रुच्या भोजनेऽपि प्रवर्तते ॥
येऽप्यत्र वेदनार्थत्वमाहुर्विवरणानुगाः ।
तैर्ज्ञानकामनान्तैव कर्मानुष्ठितिरिष्यते ॥
इयान्विशेषस्त्वनयोः संग्रहीतृनिरूपितः ।
विद्योत्पत्तेरनियमनियमाविति हि क्रमात् ॥

आद्यो विविदिषार्थस्स्यात् संस्कारार्थोऽपरो मत
स एव सन्निपत्योपकाराङ्गमिति कीर्त्यते ॥
सर्वज्ञात्ममुनिः कर्म काम्यमित्यपि मन्यते ।
नित्यमेवेति बहवः काम्यविद्वेषिणो हि ते ॥
विशिष्टाद्वैतसिद्धान्ते सिद्धान्ते द्वैतिनामपि ।
भास्कराणामपि तथा भेदाभेदविदामपि ॥
जरन्मायाविदां ध्याननियोगविदुषामपि ।
आप्रयाणं चाहरहः कर्मकर्तव्यतेष्यते ॥
तदेतत्संनिपत्योपकाराङ्गे पर्यवस्यति ।
तत्त्वं करणनिष्पत्तिसाधनत्वात्मकं यतः ॥
तत्र भास्करसिद्धान्ते कर्मारादुपकारकम् ।
निष्पन्नं करणं यत्तु तस्य स्यात्सहकार्यदः ॥
फलोत्पत्ताविति ततश्चादृष्टद्वारं तु तत् ।
तत्समुच्चयपक्षस्तु बृहट्टीकाकृता मतः ॥
तथा यादवभाष्येऽपि साध्यद्विदलशालिनि ।
नैयायिकादिसिद्धान्तोऽप्येतं पन्थानमाश्रितः ॥
परिज्ञानाद्भवेन्मुक्तिरेतदालस्यलक्षणम् ।
इत्यादिवचनं तत्त्वचिन्तामण्यादिषु स्फुटम् ॥
4 जरन्मायाविदश्चापि द्विविधाः परिकीर्तिताः ।
भर्तृप्रपञ्चादयः स्युस्ते प्राय इति निर्णयः ॥

552 मानमेयरहस्यश्लोकवार्तिके
एके ध्याननियोगस्य वादिनस्तत्र कीर्तिताः ।
निष्प्रपञ्चीकृतेरेव नियोगमपरे विदुः ॥
वेदान्तवाक्यं न परिनिष्पन्नब्रह्मगोचरम् ।
तथापि सिद्ध्यति ब्रह्म तद्ध्यानविधिशक्तितः ॥
तत्र ध्याननियोगेन तत्साक्षात्कारमार्गतः ।
अद्वितीयब्रह्मभावरूपो मोक्षः फलिष्यति ॥
5 निष्प्रपञ्चनियोगस्य वादिनामयमाशयः ।
यद्यप्युपनिषद्वाक्यं कार्यवस्त्वेकगोचरम् ॥
निष्प्रपञ्चं ब्रह्मवस्तु विशिष्टं साध्यमेव तत् ।
प्रपञ्चविलयद्वारा कार्यताऽस्योपपद्यते ॥
न दृष्टेरित्यादिवाक्यं विधिस्तत्र निदर्श्यते ।
निष्प्रपञ्चं ब्रह्म कुर्यात्सप्रपञ्चतया मतम् ॥
सर्वे नियोगनिष्पत्तिपर्यन्तं कर्मलक्षणम् ।
तत्रारादुपकाराङ्गं स्वीकुर्वन्तीति च स्थितम् ॥
6 सर्वः कर्मविधिः कैश्चित्स्वतन्त्रैर्ब्रह्मवादिभिः ।
आत्मविज्ञानाधिकारप्रयोजन इतीरितः ॥
तेषामाशयसारोऽयं ग्राह्यो विधिविवेकतः ।
स्वभावतस्तु पुरुषाः रागाद्याविष्टमानसाः ॥
विषयोपार्जने सक्ताः दृष्टोपायफलैः सदा ।
व्याक्षिप्तमानसा नालमात्मानमिह वेदितुम् ॥

कर्मज्ञानसंबन्धः 553
उपदिष्ट मपिप्राज्ञैः परिभावयितुं कुतः ।
तस्मात्कर्मोपदेशाद्यैरनुशिष्टोऽष्टवर्षकः ॥
कर्मपद्धतिनिर्वद्धः स्वाभाविकपथाच्च्युतः ।
उपदिष्टं चात्मतत्त्वं ग्रहीतुं ध्यातुमर्हति ॥
तस्मात्कर्मविधिसर्वः प्रलोभः परमार्थतः ।
आत्मविज्ञानाधिकारसिद्धयर्थ इति निर्णयः ॥
एष प्रच्छन्नचार्वाकमतसारांश इत्यपि ।
प्रदूषितः ब्रह्मकर्मवेदिभिः क्रान्तदर्शिभिः ॥
7 कामप्रध्वंससिद्धान्तः यः पूर्वोत्तरकाण्डयोः ।
विरोधपरिहाराय जरन्मायाविदां मतः ॥
निमित्तवादे प्राचीने प्रायशः पर्यवस्यति ।
फलसंयोगवादे तु काम एवाभिवर्धते ॥
स्वर्गकामो यजेतेति निमित्तं कामना मता :
परस्वकामुकः प्रायश्चित्तं कुर्याद्यथा तथा ॥
धनधान्यसमृद्धिस्तु यदा पुंसां भविष्यति ।
तदा सुखेच्छा भवति तच्छान्त्यै यागशासनम् ।
यागे च सर्वद्रव्याणि व्ययितानि भवन्ति हि ।
अतएव त्रिवर्षान्नैर्यष्टव्यमिति शिष्यते ॥
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यतृप्तये ।
अधिकं वापि विद्येत स सोमं पातुमर्हति ॥
M. R. 70