मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
निषेधवाक्यार्थः
नेक्षेतोद्यन्तमादित्यं तथाचाब्राह्मणं नय ।
इत्यादावीक्षणाद्विप्रात् अन्यद्वस्त्ववगम्यते ॥
ईक्षणव्यतिरिक्ता हि क्रिया तत्राप्यपेक्षिता ।
प्रत्यासत्तेर्न संकल्पमतिक्रम्यावगम्यते ॥
तथैव क्षत्रियाद्यर्थः पर्युदस्तः प्रतीयते ।
नामधात्वर्थयोगी च नञ्तोऽन्यार्थगोचरः ॥
2 लिङाद्यन्याख्यातयोगे चाभावार्थः प्रतीयते ।
तत्र चाज्ञातसंदिग्धविपरीतार्थवारणम् ॥
अस्तिनास्तीतिसंदेहे पाक्षिकास्तित्वबोधनम् ।
निवर्त्यते नञा यद्वा नास्तितैवोच्यते सती ॥
निवर्ततेऽस्तिताबुद्धिः मृगतृष्णादिबुद्धिवत् ।
अज्ञानादिनिवृत्तिश्च दृष्टा मानान्तरेऽपि हि ॥
3 विधिना युज्यते यत्र न हन्यान्न पिबेदिति ।
नात्राभावार्थता यस्मात्प्राप्तं हि प्रतिषिध्यते ॥
रागादिना यदि प्राप्तं पानं च हननं च वा ।
कथं वा कथ्यते तत्राभावो भावनिवर्तितः ॥
यदि नानुष्ठास्यतेऽत्र प्राप्तिर्नैव प्रसिध्यति ।
तस्मादत्र निषेधार्थतत्त्वमेतन्निरूपितम् ॥
सच केशेषु पुरुषं गृहीत्वा विनिवर्तयन् ।
चिकीर्षिताच्च व्यापारात् अभावं स्थापयत्यपि ॥
अन्यथैव प्रवर्तन्ते भावाभावधियोऽपराः ।
व्यवस्थितबहिर्वस्तु परिच्छेदफलात्मिकाः ॥
अन्यथाऽनागतोत्पाद्यभावप्रेरणवारिका ।
अन्तस्संकल्पमूलात्मा वृत्तिर्विधिनिषेधयोः ॥
एतदुक्तं भवत्यत्र न्यायरत्नाकरोदितम् ।
यथा विधिर्विधेयस्य चेष्टहेतुत्वसिद्धये ॥
प्रमाणीभूय संकल्पं पुंसोऽनुष्ठानगोचरम् ।
जनयित्वा तेन पुंसा व्यापारं कारयन् स्वयम् ॥
तत्र कारकहेतुस्स्यात् निषेधोऽपि तथैव हि ।
निषिद्धस्यानिष्टहेतुभावे मानं भवन् ततः ।
अननुष्ठानसंकल्पं वैराग्याज्जनयन् पुनः ।
तदभावव्यवस्थां च करोतीति सुनिश्चितम् ॥
तथाच यदि रागादिप्राप्तं विध्यर्थलक्षणम् ।
कर्तव्यत्वं लिङाऽनूद्य नञा तस्य निषेधनम् ॥
यदिवाऽत्र नञर्थस्य वर्जनस्य विधेयता ।
लिङाऽवबोधः द्वेधाऽपि व्यापारेऽनर्थहेतुताम् ॥
कल्पयन् अननुष्ठानसंकल्पजननात्परम् ।
निवारणं स्यादित्येतन्निषेधस्य निरूपणम् ॥
4 इयत्प्रयासहेतुश्च वक्ष्यमाणो विनिश्चितः ।
अवस्तुत्वादभावस्य न नृशृङ्गं नियुज्यते ॥
प्रयोजनवाक्यार्थः 51
नोपादेयं नैव हेयं न कार्यं नापि कारणम् ।
को विधिः को निषेधोऽत्र प्रख्योपाख्याविवर्जिते
न कलञ्जं भक्षयेदित्येवमादिरपार्थकः ।
नियोग इति हि प्राहुरभावावस्तुवादिनः ॥
विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् ।
अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥
इत्यादिस्मृतिवाक्यार्थभङ्गो भाष्यकृतामपि ।
अभावावस्तुसिद्धान्तमूलदोषनिबन्धनाः ॥
अभावः कारणं कार्यं वस्तु येषां विपश्चिताम् ।
तेषां पुनः नवीनानां प्रयासो नैव कश्चन ॥
यस्याभावोऽधिकरणं यस्य भावान्तरं च वा ।
सर्वं तद्विषयं ज्ञेयं न विचारोऽत्र कश्चन ॥
अत्र राणककारेण प्रोक्तं भङ्ग्यन्तरं त्विदम् ।
स्वकाले यदकुर्वन् तत् करोत्यन्यदचेतनः ॥
प्रत्यवायोऽस्य तेनैव नाभावेन स जन्यते ।
इत्युक्तं तदपि प्रोक्ताभावतत्त्वविकल्पना ॥
(105) प्रयोजनवाक्यार्थः
1 अथ नैयायिकमते फलमेव प्रवर्तकम् ।
सम्मतं तत्र सारांशसंग्रहोऽप्यवधार्यताम् ॥
ऽदेव प्रवृत्तिश्चेज्जन्मान्तरविनिश्चयः ।
णानामेव जन्मेति वीतरागेति सूत्रितम् ॥
रागान्न प्रवृत्तिः स्वभावः कुशली भवेत् ।
त्रं निरधिकारि स्यात् इति नैयायिकाशयः ॥
दुःखनिवृत्तौ वा पुंसां भवति कामना ।
नुः व्योमपुष्पादि कश्चित्कामयते नरः ॥
नाशङ्कते यस्मात्फलं वापि समीहितम् ।
ऽविधेयस्य राज्ञोऽपि नाज्ञाऽनुष्ठीयते जनैः ॥
मानापदेशेऽपि फलं यत्रावगम्यते ।
प्रवर्तते लोकः लिङादिष्वश्रुतेष्वपि ॥
र्यं पुनरेत्रेयं मीमांसकहृदि स्थितम् ।
साधनताबुद्ध्या प्रवर्तेत नरो यदि ॥
त्साङ्गे प्रवृत्तिः स्यात् निषिद्ध्येत तदा वधः ।
धेनैव प्रवृत्तिश्चेत् वधो वैधो भवेदिति ॥
वमूला प्रवृत्तिश्चेददोषाऽभ्युपगम्यते ।
श्रोत्थरागमूलाऽपि तादृक्स्यादिति तार्किकाः ॥
त्यारोग्यसंपत्तिर्भुञ्जानस्य हरीतकीम् ।
कामो भक्षयेच्चेति को विशेषः प्रवर्तने ॥
वयव्यतिरेकाभ्यां यदेवमनुमन्यते ।
कत्वं फलस्यैव न नियोगात्मनः पुनः ॥
प्रयोजनवाक्यार्थः 513
4 नियोगादथ निष्पत्तिः फलस्येत्यभिधीयते ।
फलं प्रत्यङ्गभूतत्वादवाक्यार्थत्वमापतेत् ॥
प्रेरणावगमादेव प्रवृत्तिर्यदि सिद्धयति ।
स्वर्गकामपदं तत्स्यादधिकारिविशेषणम् ॥
यो हि येन विना लोके न सिद्धयेत्स तमाक्षिपेत् ।
नियोज्यमात्राक्षेपे स्यान्नियोगो न फलात्मकः ॥
ननुच स्वर्गकामोऽत्र नियोज्यः नान्यथा भवेत् ।
यदि स्वर्गस्य संपत्तिं नाधिगच्छेत्स्वकर्मणः ॥
नरेच्छामात्रमेवेदं, न शब्दस्त्वियति क्षमः ।
नियोज्यः स्वर्गकामो हि भवेज्जीवनवानिव ॥
विधेरेष स्वभावश्चेदायुष्मन् साधु बुध्यसे ।
भाट्टैः किमपराद्धं ते नित्येऽपि फलवादिभिः ॥
अधिकार्यनुपादेयविशेषणविशेषितः ।
जीवन्वा स्वर्गकामो वा समानः काम्यनित्ययोः ॥
विधिवीर्यस्वभावस्तु क्रिमेरपि तथाविधः ।
सप्रत्ययप्रेरकतां विधिर्नोपैति निष्फलः ॥
प्रत्यवायपरीहारो वोपात्तदुरितक्षयः ।
फलं नित्ये, प्यन्यथा स्यादर्थानर्थाविवेकिता ॥
5 प्रतिषेधाधिकारेऽपि विधिवृत्तपरीक्षया ।
एवं नरकपातादिफलयोगो न दुर्वचः ॥
M.R. 65
14 मानमेयरहस्यश्लोकवार्तिके
करणांशोऽपि लिप्सातः प्रवृत्तिर्यद्युपेयते ।
इतिकर्तव्यतांशे तु शास्त्रादिति न युक्तिमत् ॥
नहि तत्करणं शुद्धं स्वफलायोपकल्पते ।
सेतिकर्तव्यताकं हि करणं करणं विदुः ॥
उभयत्रापि लिप्सातः सतिचैवं प्रवर्तने ।
अग्नीषोमीयहिंसादेः स्यादेव श्येनतुल्यता ॥
तदुत्सर्गापवादाख्यन्यायस्यैव विमर्शनात् ।
न हिंस्यादिति सामान्यागोचरत्वावधारणा ॥
6 यस्त्वाह प्रेरकत्वं चेत्फलं दर्शयतो विधेः ।
प्रत्यक्षादिसमानत्वात् स्वातन्त्र्यं तस्य हीयते ॥
स वाच्यः फलशून्यत्वे सुतरामस्वतन्त्रता ।
यद्रिक्तमर्थं मूढोऽपि न कश्चिदनुतिष्ठति ॥
फलस्यैवेष्यमाणस्य पश्यन् प्रेरकतामतः ।
यमर्थमधिकृत्येति सूत्रं व्यधित सूत्रकृत् ॥
7 गुणप्रधानानियमात् मिथस्संसृष्टलक्षणः ।
पदार्थ एव वाक्यार्थः स्यात्प्रयोक्तृविवक्षया ॥
क्वचित्साक्षात्पदोपात्तं क्वचित्प्रकरणागतम् ।
क्वचिदालोचनागम्यं फलं सर्वत्र गम्यते ॥
तस्मात्फलस्य साध्यत्वात् सर्वत्र तदवर्जनात् ।
क्रियादीनां च तादर्थ्यात् तस्य वाक्यार्थतेष्यते
आप्ताभिप्रायवाक्यार्थः 51
४ प्रतिभा खलु विज्ञानं तच्च शब्देन जन्यते ।
नतु शब्दस्य विषयः रूपधीरिव चक्षुषः ॥
५ सुखं हि जगतामेव काम्यं धर्मेण जायते ।
अधर्मजन्यं दुःखं स्यात् प्रतिकूलं सचेतसाम् ॥
चिकीर्षा कृतिसाध्यत्वप्रकारेच्छा तु या भवेत् ।
तद्धेतुः कृतिसाध्येष्टसाधनत्वमतिर्भवेत् ॥
बलवद्विष्टहेतुत्वमतिस्स्यात्प्रतिबंधिका ।
तदहेतुत्वबुद्धेस्तु हेतुत्वं कस्यचिन्मते ॥
चिकीर्षा कृतिसाध्येष्टसाधनत्वमतिस्तथा ।
उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत् ॥
एवं प्रवृत्तिजननात् विधेरपि तदर्थता ।
नित्येऽपि ब्रह्मलोकादेस्संप्राप्तिरवधार्यते ॥
आप्ताभिप्रायमाचार्याः विध्यर्थं लाघवाद्विदुः ।
वेदस्य पौरुषेयत्वे मानं चापि विधिं विदुः ॥
इति नैयायिकमतसारांशो विशदीकृतः ।
अथ वेदान्तसिद्धान्ते विशेषः प्रतिपाद्यते ॥
(106) आप्ताभिप्रायवाक्यार्थः.
1 इष्टस्य कृत्यधीनात्मलाभलक्षणकार्यता ।
लिङर्थ इति वेदार्थसंग्रहे भाष्यकृद्वचः ॥
16 मानमेयरहस्यश्लोकवार्तिके
प्राभाकरा ये विख्यातास्ते वाच्यापूर्ववादिनः ।
कौमारिलाः पुनः कल्प्यापूर्ववादिन ईरिताः ॥
अतिरिक्तार्थवाच्यत्वकल्पनायामपीष्यते ।
श्रुतैव देवताप्रीतिः नापूर्वं क्वचिदश्रुतम् ॥
इष्टसाधनतां प्राहुर्लिङर्थं मण्डनादयः ।
अयं त्विष्टाभ्युपायोऽतः कार्यमित्यध्यवस्यति ॥
कार्यत्वमिष्टोपायत्वादन्तरङ्गमितीतरे ।
लघीयसी साध्यताऽतः देवताप्रीत्यपेक्षया ॥
तत्रैव शब्दशक्तिः स्यादिति श्रीभाष्यकृन्मतम् ।
आप्तस्य हितकामस्य नियोगोऽपि तदाहृतः ॥
श्रीपूर्णप्रज्ञसिद्धान्तोऽप्येवमेव प्रतीयते ।
अनुव्याख्यानवाक्यं तु तदीयमवधार्यताम् ॥
कार्यता च न काचित्स्यादिष्टसाधनतां विना ।
कार्यं साधनमिष्टस्य भगवानिष्टदेवता ॥
इति तस्माद्देवता तु येषां स्यान्निरनुग्रहा ।
क्लिश्यन्ति ते वै प्रायेण नान्य इत्यत्र निर्णयः ।
2 अत्र श्रीभाष्यकारीयापूर्वसिद्धान्तखण्डनम् ।
संगृह्यतेऽथ विशदबोधाय विदुषामपि ॥
आचार्यकाधिकारार्थाऽधीतिस्स्यादिति संशये ।
अर्थज्ञानाधिकारार्थाऽथातो धर्मेत्यसूत्रयत ॥
आप्ताभिप्रायवाक्यार्थः 517
विधिस्स्वाध्याय इत्यादिः यावत्स्वाध्यायगोचरः
अथेत्यानन्तर्यमपि यावत्तत्प्रतियोगिकम् ॥
अत इत्यर्थपरता यावद्वेदावलम्बिनी ।
जिज्ञास्यताऽपि कृत्स्नस्य वेदार्थस्येति गम्यते ॥
अभिधा चोदना चेति श्रुतिरेषा द्विधा मता ।
आद्या सिद्धपरा ज्ञेया द्वितीया कार्यतत्परा ॥
अव्युत्पत्त्यनपूर्वत्वाप्रयोजननिबन्धनम् ।
अप्रामाण्यं विदुस्सिद्धे विबुधा ह्यभिधाश्रुतेः ॥
चोदनाश्रुतिरेवैषा व्युत्पत्त्यादिपरिष्कृता ।
प्रमाणं स्यात्ततश्चाद्या लिङ्गेऽन्तर्भावमर्हति ॥
चोदनालक्षणः कार्यं धर्मो वेदार्थ इत्यतः ।
वेदार्थः कार्यरूपस्स्यादिति व्याख्या गुरोर्मता ॥
ततश्चोपनिषद्व्याख्याशास्त्रं नारम्भमर्हति ।
यस्मादुपनिषच्छब्दः सिद्धवस्त्वेकगोचरः ॥
अत्रोच्यते ब्रह्मविद्भिः ब्रह्माप्यानन्दलक्षणम् ।
शास्त्रेणैवावसेयं च व्युत्पन्नं चाप्तवाक्यतः ॥
तस्मात्साध्यपरा यद्वत्तथा सिद्धपराऽपिच ।
श्रुतिः प्रमाणं तेनार्धजरतीयं न युक्तिमत् ॥
इति सिद्धान्तानुरोधात्कार्यतत्त्वमनूद्यते ।
प्राक्श्लोकैस्सप्तभिः पश्चात् सप्तभिस्तन्निरस्यते
518 मानमेयरहस्यश्लोकवार्तिके
लोके हि सिद्धवस्तूनां ये शब्दाः प्रतिपादकाः ।
पश्चात्तनास्ते संदृष्टाः प्रतिपाद्यात् तथा यदा ॥
श्रुतिः सिद्धपराचेत्स्यात् प्रतिपाद्यादनन्तरा ।
ततश्चांपौरुषेयत्वं नित्यत्वं च न निर्वहेत् ॥
कृतिसाध्यं प्रधानं यत्तत्कार्यमिति गीयते ।
प्रामाण्यमपि वेदस्य तत्र व्युत्पत्तिसंभवात् ॥
आत्मसिद्धयनुकूलस्य नियोज्यस्य प्रसिद्धये ।
कुर्वत्स्वर्गादिकमपि प्रधानं कार्यमेव नः ॥
कृतिसाध्यत्वमिष्टत्वं कृत्युद्देश्यत्वमेवच ।
कार्यस्य त्रय आकारा इत्याहुः कार्यवादिनः ॥
साधारणौ द्वावाकारौ भावार्थफलयोरिति ।
तृतीयोऽसौ नियोगस्य त्वसाधारण इष्यते ॥
कार्यं हि तच्च प्रथममनन्यार्थं प्रतीयते ।
ततश्चान्यार्थता युक्ता भृत्येष्टप्रदभूपवत् ॥
३ स च किं कृतिकर्मत्वं किंवा प्रेरकता मता ।
अनुकूलत्वमथवा शेषित्वमथवा मतम् ॥
प्रयोजनत्वमथवा प्राधान्यमथवा कृतेः ।
अथवा सुखरूपत्वं पुरुषार्थत्वमेववा ॥
नाद्यत्रयं कृत्यधीनसिद्धता वेष्टताऽपिवा ।
फलभावार्थयोरेव तदेतत्पर्यवस्यति ॥
आत्मभिप्रायवाक्यार्थः 51
शेषित्वं दुर्निरूपं स्यात् पञ्चमं पूर्ववद्भवेत् ।
षष्ठं त्वसंभवग्रस्तं सप्तमं लोकदूषितम् ॥
अष्टमं निष्प्रमाणं स्यात् अपूर्वं दुर्वचं ततः ।
कर्तृव्यापारसाध्यत्वमात्रं धात्वर्थसंगतम् ॥
लिङादेवाच्यमित्याहुरनुशासनवेदिनः ।
एवं वाच्यापूर्ववादो यथाऽन्येषां न संमतः ॥
तथा कल्प्यापूर्ववादः सेश्वरैरधरीकृतः ।
इति श्रीभाष्यकारीयापूर्ववादार्थसंग्रहः ॥
4 अथान्विताभिधानाभिहितान्वयविवादयोः ।
आद्यः प्राभाकराभीष्टः ह्यन्त्यः कौमारिलादृतः
आदौ पदानि श्रूयन्ते ततो व्युत्पत्तिमार्गतः ।
परस्परानन्विता ये पदार्थाः स्मारयन्ति तान् ॥
आकाङ्क्षादिपरामर्शः स्मृतेष्वर्थेषु जायते ।
न्यायप्रवृत्तिस्तत्रैव स्वात्मानं लब्धुमर्हति ॥
वचनव्यक्तिभेदाभिव्यक्तिस्संपाद्यते तया ।
सम्यङ्न्यायानुग्रहेण तैर्वाक्यार्थोऽभिधीयते ॥
नानापदार्थसहितप्रधानेकार्थलक्षणः ।
पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम् ॥
न्यायसंपादितव्यक्ति पश्चाद्वाक्यार्थबोधकम् ।
अन्वितार्थाभिधायित्वे पदानां शिक्षिते सति ॥
520 मानमेयरहस्यश्लोकवार्तिके
विशिष्टा वक्तृधीर्ज्ञातुं शक्यते नान्यथा पुनः ।
एषोऽन्विताभिधानस्य प्रकारः गुरुसम्मतः ॥
5 अथ भट्टस्याभिमतः प्रोच्यतेऽभिहितान्वयः ।
पदैरेवाभिधीयन्ते पदार्थाः ते पृथक्पृथक् ॥
विशेषव्यक्त्यभावात्स्मारकान्न विशिष्यते ।
योग्यत्वेन परामृष्टाः तेऽर्था अभिहिताः पुनः ॥
विशेषसंसर्गरूपं वाक्यार्थं बोधयन्ति तम् ।
पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते ॥
यदाधिक्यं भवेत्किंचित् तत्पदस्य न गोचरः ।
न पदव्यावृतिस्तत्र चार्थैरेवार्थसिद्धितः ॥
यथा कविभिरालोच्यमाना अर्थाः परस्परम् ।
अन्विताः केवलं लोकोत्तरवाक्यस्य हेतवः ॥
अत एव हि वाक्यार्थमेते लाक्षणिकं विदुः ।
यस्मादभिहितैरर्थैः संबन्धात्सोऽवगम्यते ॥
नाकृतिः प्रथमं ज्ञाता व्यक्तिः पश्चात्प्रतीयते ।
किं तु प्रतीयते जातिः व्यक्त्यैव सहिता यथा
तथाऽन्वयोऽप्यधिगतस्त्वन्वितस्यावबोधकः ।
इत्यन्विताभिधायेष शब्द इत्युच्यते परैः ॥
कॢप्तमन्वितसामर्थ्यं पदार्थानां स्वभावतः ।
एकवाक्यतया तत्र कल्प्यं नियममात्रकम् ॥
आप्ताभिप्रायवाक्यार्थः
पदार्थेष्वभिधावृत्तिः पदानां पर्यवस्यति ।
तात्पर्यवृत्तिर्वाक्यार्थे स तस्माच्चोदनाश्रयः ॥
6 शब्दैकलभ्यतारागादेवान्येऽन्वितवादिनः ।
तात्पर्येणान्यथासिद्ध्या परेऽभिहितवादिनः ॥
वाक्यं प्रमाणान्तरं स्यात्पदसन्निधिलक्षणम् ।
तल्लक्षणसामर्थ्यं मतमिन्द्रियलिङ्गवत् ॥
तथा कार्यार्थसिद्धार्थव्युत्पत्त्येकान्तभेदतः ।
अन्विताभिहितेत्यादिमतभेदः व्यवस्थितः ॥
पदज्ञानं तु करणं द्वारमर्थस्मृतिस्ततः ।
फलं संसर्गबोधस्स्यात् इति नैयायिका विदुः
तत्रान्वयोऽनधिगतः वाक्यवेद्यो यतस्ततः ।
ते त्वन्वयाभिधानस्य वादिनः परमार्थतः ॥
निर्विशेषब्रह्मवादे ह्यन्वितस्यान्वयस्य वा ।
भेदगर्भत्वतः शब्दः न तादृग्ब्रह्मबोधकः ॥
सविशेषब्रह्मवादे प्रधानार्थाविरोधतः ।
नैकत्र निर्भरस्तस्माद्व्यवहारो यथायथम् ॥
अन्वीयमानवस्तूनामभिधानं परेऽब्रुवन् ।
अन्येऽभिधीयमानानामर्थानामन्वयं जगुः ॥
अत्रापि केचिन्मन्यन्ते सामान्येनान्विताभिधा
विशेषतश्चाभिहितान्वय इत्यपि कल्पनाम् ॥
M.R. 66
अतस्सामान्यतो ज्ञातः पदान्तरबलात्पुनः ।
भवेद्विशेषविज्ञातः तेन स्यादन्वितोक्तिता ॥
इत्यप्याहुर्बुधाः केचित् सर्वथाऽन्वयबोधनम् ।
फलं सर्वत्राविशिष्टमित्याहुश्चिन्तनालसाः ॥
मीमांसकस्य सिद्धान्तः तथा नैयायिकस्य वा ।
प्रदर्शितः परिष्कृत्य प्रायो वेदान्तवादिभिः ॥
एष वाक्यार्थवादोऽत्र देवताप्रीतये कृतः ।
सर्वत्र देवताप्रीतिः कर्तव्येति हि निर्णयः ॥
लक्ष्मीपुरं श्रीनिवासविपश्चिच्चक्रवर्तिना ।
एवं प्रमाणभागोऽयं द्वितीयस्समगृह्यत ॥
श्रीः.
प्रीयतां भगवान् वासुदेवः.
इति श्रीवत्सकुलकलशजलनिधिकौस्तुभायमानश्रीवेङ्कटार्यतनू-
भवस्य ताताम्बागर्भशुक्तिमुक्ताफलायमानस्य श्रीमत्कस्तूरीरङ्ग-
नाथविद्वन्मणिकरुणाकटाक्षसमासादितसारस्वतसर्वस्वस्य श्री-
मद्विरक्तराघवार्यचरणानुगृहीतसकलसम्प्रदायरहस्यस्य श्रीम-
द्राजाधिराजमहीशूरमहीधुर्यतुर्यश्रीकृष्णराजसार्वभौमपरिपोषि-
तस्य महाविद्वत्पण्डितरत्नाद्यनेकबिरुदालङ्कृतस्य संस्कृत-
महापाठशालानिगमान्तप्रधानोपाध्यायस्य श्रीमतो
लक्ष्मीपुराभिजनस्य श्रीनिवासाचार्यस्य कृतिषु
मानमेयरहस्यश्लोकवार्तिके प्रमाणकाण्डः
द्वितीयः समाप्तः.
अथ तृतीयः प्रयोजनकाण्डः.
(107) त्रिवर्गवादः.
1 प्रयोजनविचारोऽथ तृतीयोऽयं विलिख्यते ।
व्यापारस्य हि सर्वस्य विश्रमोऽस्ति प्रयोजने ॥
धर्मार्थावुच्यते श्रेयः कामार्थौ धर्म एवच ।
अर्थ एवेह वा श्रेयः त्रिवर्ग इति तु स्थितिः ॥
इति प्राह मनुस्तस्य वचनस्यायमाशयः ॥
श्रेयःपदं पुमर्थस्य वाचकं सर्वसम्मतम् ॥
अर्थ एव पुमर्थस्स्यादित्येकेषामिहाशयः ।
अर्थ एवहि धर्मस्य कामस्यास्तीह साधनम् ॥
काम एव पुमर्थस्स्यादिति केषांचिदाशयः ।
धर्म एव श्रेय इति रौति वै बादरायणः ॥
ऊर्ध्वबाहुर्विरौम्येष नच कश्चिच्छृणोति मे ।
धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥
अर्थकामौ श्रेय इति चापरेषामिहाशयः ।
अर्थकामौ हि जगति प्रथितं सुखसाधनम् ॥
अर्थधर्मौ श्रेय इति चाचार्या मन्वतेऽपरे ।
कामो हि धर्मार्थाभ्यां स्यादिति तेषामिहाशयः॥
523
24 मानमेयरहस्यश्लोकवार्तिके
परस्पराविरुद्धस्तु त्रिवर्गश्श्रेय इष्यते ।
पुरुषार्थतयेत्यत्र मनोः स्मर्तुः विनिर्णयः ॥
मुमुक्षूणां पुनः श्रेयः मोक्ष एवेतिचेरितम् ।
षष्ठाध्याये, ततः पक्षाः विबुधैस्सप्त निश्चिताः ॥
तमसो लक्षणं कामः रजसस्त्वर्थ उच्यते ।
सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यमेषां यथोत्तरम् ॥
एवं प्राचां विवादेऽपिचाधुना ते चतुर्विधाः ।
पुरुषार्थाः चतुर्वर्गः इति पीठप्रकल्पना ॥
२ धर्मश्चार्थश्च कामश्च मोक्षश्चेति चतुर्विधः ।
पुरुषार्थो विभक्तोऽस्ति यथा स्मृतिपुराणयोः ॥
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ।
यदत्रास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥
अत्रायेऽर्थे चतुर्भिश्चैरधर्माद्यास्समुच्चिताः ।
मिथस्समुच्चयश्चेति व्याख्यातं तन्त्रवार्तिके ॥
अर्थं प्रोवाच चाणक्यः कामं वात्स्यायनोऽब्रवीत् ।
धर्मं तु जैमिनिः प्राह मोक्षं वै बादरायणः ॥
एतेऽधुना तीर्थकराः पुमर्थानामिति श्रुताः ।
समुच्चयविदस्सर्वेऽप्यधिकारिविभेदतः ॥
पुरुषैरर्थ्यमानत्वात्पुरुषार्थ इतीर्यते ।
स तु स्यात्सुखमेवात्र तच्चतुर्धा विभज्यते ॥
त्रिवर्गवादः 5
शारीरं मानसं चेति द्विधा तत्सुखमिष्यते ।
अर्थकामौ तु शारीरं धर्ममोक्षौ तु मानसम् ॥
3 पुमवस्थाक्रमेणैव पुरुषार्थक्रमोऽप्यसौ ।
निर्देशव्युत्क्रमे चापि हेतुरग्रेऽवगम्यते ॥ .
उत्पत्तितस्त्विन्द्रियार्थसन्निकर्षनिबन्धनम् ।
यत्तदर्थसुखं ज्ञेयमथ कामो निरुच्यते ॥
वयोऽवस्थाविशेषेण सहवासादिनाऽपिवा ।
पुंस्त्वाद्यभिव्यक्तिभवं अवस्थैकनिबन्धनम् ॥
तथा विद्यासंस्कृतेन मनसा धर्मलक्षणम् ।
सुखं ह्यनुबुभूषन्ति नियोगसुखवादिनः ॥
फलान्तराहेतुरपि स्वरूपे कार्यबुद्धितः ।
स्वयंप्रयोजनं नित्यमित्यप्यत्रेतेरे विदुः ॥
प्रत्यवायपरीहारबुद्ध्या कर्तव्यमेव तत् ।
इत्याहुरपरे प्राज्ञाः स धर्मस्सुखमर्थ्यते ॥
अतएवहि यज्ञस्य त्रैविध्यपरिशोधने ।
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ॥
यष्टव्यमेवेति मनस्समाधाय स सात्त्विकः ।
इत्यस्य पुरुषार्थत्वं गीतं भगवता स्वयम् ॥
ख्यातेर्लाभस्य पूजायाः मानसी सुखता यथा ।
तथा धर्मस्य सुखता शास्त्रदृष्टिभिरीक्ष्यते ॥
526 मानमेयरहस्यश्लोकवार्तिके
मोक्षस्य पुरुषार्थत्वे विक्रान्तं सर्वसूरिभिः ।
तत्सर्वमुत्तरत्रैव सम्यक्स्पष्टीभविष्यति ॥
एवं चतुर्विधसुखावस्थाप्राधान्यलिप्सया ।
चातुराश्रम्यसंस्थाऽपि प्रायेणात्रानुरुध्यते ॥
मोक्षाश्रमस्स्यात्संन्यासः धर्मो वैखानसाश्रमः ।
कामो गृहस्थाश्रमस्स्यात् अर्थार्थी ब्रह्मचार्यसौ ।
एतद्दृष्ट्यैव वर्णानां विभागोऽपि समञ्जसः ।
ब्राह्मणस्त्विह संन्यासी ऋषिः क्षत्रिय उच्यते ॥
गृहस्थोऽपि भवेद्वैश्यः शूद्रश्शुश्रूषुरुच्यते ।
तथा कालविभागोऽपि कृतं ब्राह्मण्यलक्षणम् ॥
क्षात्रं त्रेता समाख्याता द्वापरः वैश्यता मता ।
शूद्रः कलिरितिप्रोक्तः स्पष्टं रामायणोत्तरे ॥
अपराजितपृच्छाया वचश्चाप्यवधार्यताम् ।
ऋग्वेदादिविभागेन कृतादियुगभेदतः ॥
विप्रादिवर्णभेदेन चतुर्वक्त्रः चतुर्भुजः ।
हेमाद्रीये कालखण्डे परिशिष्टे ह्युदाहृतम् ॥
चतुर्णामपि चैतेषां परस्परसमागमः ।
विशिष्टेनानुकूल्येन प्रपञ्चस्थितये मतः ॥
4 चातुराश्रम्यसिद्धान्ते त्वैकाश्रम्यं समाश्रिताः ।
जैमिनीयास्ततस्सोऽयं बाधपक्ष इतीर्यते ॥
त्रिवर्गवादः 527
अधिकारानुरोधेन बादरायणयोगिनः ।
विकल्पमिच्छया प्राहुः पक्षो वैकल्पिकस्तु सः ॥
समुच्चयं ह्याश्रमाणां मन्वाद्यास्स्मृतिकारिणः ।
प्राहुस्समुच्चयस्तेषां पक्ष इत्यवधार्यते ॥
तद्वद्धर्मार्थकामादिपुरुषार्थचतुष्टये ।
अर्थो लौकायतैः प्रोक्तः कामश्शाक्तस्त्वनन्तरः ॥
जरन्मीमांसकाभीष्टः मोक्षस्सौगतसम्मतः ।
अधिकारानुरोधेन विकल्पं केचिदूचिरे ॥
समुच्चयस्स्वीकृतोऽस्ति स्पष्टं स्मृतिपुराणयोः ।
परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ ॥
धर्मं चाप्यसुखोदर्कं लोकविक्रुष्टमेवच ।
असाधुभ्योऽर्थमादाय साधुभ्यस्संप्रयच्छति ॥
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ।
इति मन्वादिवचनात्कलितावर्थकामयोः ॥
आद्यन्तयोः धर्ममोक्षाविति शास्त्ररहःस्थितिः ।
अर्थशास्त्रे स्तेयशास्त्रे चार्थतत्त्वं प्रपञ्चितम् ॥
5 अथ कामरहस्यं तु किंचिदत्र प्रकाश्यते ।
रागो द्वेषो मोह एते यान्तिचेदुत्कटां स्थितिम् ॥
कामः क्रोधो लोभ इति व्याह्रियन्ते क्रमादमी ।
कामस्येच्छासंज्ञकस्यावस्थाभेदा इमे मताः ॥
देवासुरमनुष्याणां रूपमेतद्विभाजकम् ।
त्रिविधं नरकस्यैतद्वारं नाशनमात्मनः ॥
कामः क्रोधस्तथा लोभः तस्मादेतत्तत्रयं त्यजेत् ।
इत्येवं गीतया सैषा श्रुतिस्स्यादुपबृंहिता ॥
बृहदारण्यकान्तस्स्था प्राजापत्यास्त्रया इति ।
असुरांश्च मनुष्यांश्च देवांश्चापि प्रजापतिः ॥
उपादिशद्धि ददद्-दयध्वं दत्त दाम्यत ।
श्रुतिस्मृत्योरयं भावः तस्मिन् सर्वं प्रतिष्ठितम् ॥
(108) मोक्षोपोद्घातः.
1 अथ मोक्षपदार्थस्य तत्त्वं संगृह्यतेऽधुना ।
यदर्थं सकलं शास्त्रं जगत्यां संप्रवर्तते ॥
दुःखाभावस्सुखमिति व्यवहारस्य गोचरः ।
किंचित्सुखं नाम वस्तु नास्तीत्येव हि सौगताः॥
न सुखादिप्रमेयं वा मनो वाऽस्तीन्द्रियान्तरम् ।
अनिषेधादुपात्तं चेत् अन्येन्द्रियमतं वृथा ॥
दुःखाभावस्सुखमिति जरत्तार्किकसम्मतः ।
इत्यानन्दगिरिः प्राह स्पष्टं संबन्धवार्तिके ॥
2 सुखाभावो दुःखमिति व्यवहारस्य गोचरः ।
दुःखं वस्त्वन्तरं नास्तीत्याहुर्लोकायताः पुनः ॥