मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 567, कुल 672 में से
संदर्भ में पढ़ेंत्रिवर्गवादः 5
शारीरं मानसं चेति द्विधा तत्सुखमिष्यते ।
अर्थकामौ तु शारीरं धर्ममोक्षौ तु मानसम् ॥
3 पुमवस्थाक्रमेणैव पुरुषार्थक्रमोऽप्यसौ ।
निर्देशव्युत्क्रमे चापि हेतुरग्रेऽवगम्यते ॥ .
उत्पत्तितस्त्विन्द्रियार्थसन्निकर्षनिबन्धनम् ।
यत्तदर्थसुखं ज्ञेयमथ कामो निरुच्यते ॥
वयोऽवस्थाविशेषेण सहवासादिनाऽपिवा ।
पुंस्त्वाद्यभिव्यक्तिभवं अवस्थैकनिबन्धनम् ॥
तथा विद्यासंस्कृतेन मनसा धर्मलक्षणम् ।
सुखं ह्यनुबुभूषन्ति नियोगसुखवादिनः ॥
फलान्तराहेतुरपि स्वरूपे कार्यबुद्धितः ।
स्वयंप्रयोजनं नित्यमित्यप्यत्रेतेरे विदुः ॥
प्रत्यवायपरीहारबुद्ध्या कर्तव्यमेव तत् ।
इत्याहुरपरे प्राज्ञाः स धर्मस्सुखमर्थ्यते ॥
अतएवहि यज्ञस्य त्रैविध्यपरिशोधने ।
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ॥
यष्टव्यमेवेति मनस्समाधाय स सात्त्विकः ।
इत्यस्य पुरुषार्थत्वं गीतं भगवता स्वयम् ॥
ख्यातेर्लाभस्य पूजायाः मानसी सुखता यथा ।
तथा धर्मस्य सुखता शास्त्रदृष्टिभिरीक्ष्यते ॥