मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 564, कुल 672 में से
संदर्भ में पढ़ेंअतस्सामान्यतो ज्ञातः पदान्तरबलात्पुनः ।
भवेद्विशेषविज्ञातः तेन स्यादन्वितोक्तिता ॥
इत्यप्याहुर्बुधाः केचित् सर्वथाऽन्वयबोधनम् ।
फलं सर्वत्राविशिष्टमित्याहुश्चिन्तनालसाः ॥
मीमांसकस्य सिद्धान्तः तथा नैयायिकस्य वा ।
प्रदर्शितः परिष्कृत्य प्रायो वेदान्तवादिभिः ॥
एष वाक्यार्थवादोऽत्र देवताप्रीतये कृतः ।
सर्वत्र देवताप्रीतिः कर्तव्येति हि निर्णयः ॥
लक्ष्मीपुरं श्रीनिवासविपश्चिच्चक्रवर्तिना ।
एवं प्रमाणभागोऽयं द्वितीयस्समगृह्यत ॥
श्रीः.
प्रीयतां भगवान् वासुदेवः.
इति श्रीवत्सकुलकलशजलनिधिकौस्तुभायमानश्रीवेङ्कटार्यतनू-
भवस्य ताताम्बागर्भशुक्तिमुक्ताफलायमानस्य श्रीमत्कस्तूरीरङ्ग-
नाथविद्वन्मणिकरुणाकटाक्षसमासादितसारस्वतसर्वस्वस्य श्री-
मद्विरक्तराघवार्यचरणानुगृहीतसकलसम्प्रदायरहस्यस्य श्रीम-
द्राजाधिराजमहीशूरमहीधुर्यतुर्यश्रीकृष्णराजसार्वभौमपरिपोषि-
तस्य महाविद्वत्पण्डितरत्नाद्यनेकबिरुदालङ्कृतस्य संस्कृत-
महापाठशालानिगमान्तप्रधानोपाध्यायस्य श्रीमतो
लक्ष्मीपुराभिजनस्य श्रीनिवासाचार्यस्य कृतिषु
मानमेयरहस्यश्लोकवार्तिके प्रमाणकाण्डः
द्वितीयः समाप्तः.