सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पुरोनुवाक्या पूर्वार्धे देवतायाः प्रकाशकः ।
मन्त्रो याज्या तूत्तरार्धे देवतायाः प्रकाशकः ॥
प्रगीतमन्त्रसाध्येन्द्रदेवतादिगुणाभिधा ।
स्तोत्रं शस्त्रं त्वप्रगीतमन्त्रसाध्यतथाऽभिधा ॥
स्तोत्रस्य साधनीभूताः ऋचस्स्तोत्रीयसंज्ञिताः ।
स्तोमाः त्रिवृत्तादिसंख्याविशेषाः ज्योतिराह्वयाः ॥
२ अङ्गत्त्वं तु परोद्देश्यकृतिकारकरूपतः ।
विहितत्वं तदन्तःस्थोद्देश्यताकारकत्वयोः ॥
एकस्योपस्थापको यस्स शब्दश्श्रुतिरीर्यते ।
सा द्वितीयादिरूपेति नव्यतर्कपरिष्कृतिः ॥
विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ।
तत्रचान्यत्रच प्राप्तौ परिसंख्येति गीयते ॥
विधिरुक्तोऽथ नियमः पक्षेऽप्राप्तांशपूरकः ।
अन्यव्यावृत्तिफलकः परिसंख्येति कीर्त्यते ॥
प्राप्ताप्राप्तविवेकेन परिसंख्या द्विधेष्यते ।
पञ्चपञ्चनखेत्याद्येमामगृभ्णन्नितीतरा ॥
श्रुतार्थस्य परित्यागादश्रुतार्थस्य कल्पनात् ।
प्राप्तस्य बाधादित्याद्या परिसंख्या त्रिदूषणा ॥
अन्त्यायामश्वरशनाऽङ्गत्त्वं स्वार्थो विधीयते ।
नेयं त्रिदोषेति केचिदेषाऽपीतीतरे विदुः ॥

3 देवतोद्देशतो द्रव्यत्यागो यागो निरुच्यते ।
दानं स्वस्वत्वमुन्मृद्य परस्वत्वप्रकल्पनम् ॥
प्रक्षेपसहितो यागो होम इत्यभिधीयते ।
यथेष्टविनियोगस्य योग्यत्वं स्वत्वमुच्यते ॥
देवतातत्वं त्यज्यमानद्रव्योद्देश्यत्वमिष्यते ।
अथवा विधिवाक्यस्थशब्दत्वसमवृत्तिमान् ॥
अखण्डोपाधिरथवा तच्छब्दप्रतिपाद्यता ।
प्रतिग्रहीतृत्वयोगे सैव स्यात्सम्प्रदानता ॥
अव्यक्तिरुत्पत्तिवाक्ये देवतानभिबोधनम् ।
तथाऽवदीयमानत्वं हविष्टुमिति भाष्यते ॥
4 क्रत्वनुष्ठाप्यता यत्र क्रत्वर्थत्वं तदुच्यते ।
फलानुष्ठाप्यता यत्र सोच्यते पुरुषार्थता ॥
फलस्य पुरुषार्थत्वव्यवहारस्तु भक्तितः ।
विधानमप्रवृत्तस्य प्रवर्तनमितीरितम् ॥
उपादानमनुष्ठानमननुष्ठितगोचरम् ।
अनुष्ठानोद्देश्यतया विहितं स्यात्प्रयोजकम् ॥
विधेयत्वेन विहितं प्रयोज्यमिति निर्णयः ।
प्रधानमिह विध्यादिरङ्गं विध्यन्त उच्यते ॥
दक्षिणा नाम तद्द्रव्यं यत्स्यादानतिसाधनम् ।
सा चैकस्मिन् क्रतावेका वशीकरणमानतिः ॥

478 मानमेयरहस्यश्लोकवार्तिके
सामान्यतो निरुक्तीनां संग्रहोऽयं विबुध्यताम् ।
आनन्त्यानवकाशाभ्यां संक्षेपरुचयो बुधाः ॥
(97) दोषनिरुक्तिवादः.
1 प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः ।
अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ॥
श्रौतव्यापारनानात्वे शब्दानामतिगौरवम् ।
एकोक्त्यवसितानां तु नार्थाक्षेपो विरुध्यते ॥
वाक्यार्थविधिरन्याय्यः श्रुत्यर्थविधिसंभवे ।
पदान्तरार्थो वाक्यार्थः समानार्थोऽपरो मतः ॥
विधिर्लघ्वर्थविषयः शान्ताकांक्षो भवेद्यदि ।
भारो लाघवतर्काख्यमीमांसाया न युज्यते ॥
करोत्यपरपर्यायभावना त्वेककर्मिका ।
अतस्त्वनेकोद्देश्यत्वे वाक्यभेदः प्रवर्तते ॥
विधेयतोद्देश्यता चाप्येका कृतिनिरूपिता ।
अतो विधेयभेदेऽपि तद्भेदो दुर्निवारणः ॥
वाक्यभेदो वाक्यदोषः पददोषस्तु लक्षणा ।
पदवाक्यसमावेशे गुणे त्वन्याय्यकल्पना ॥
विधेयमात्रं वोद्देश्यमात्रं स्वरसवाहतः ।
समर्पयेदेकपदं स चैकप्रसरो मतः ॥

तदङ्गलक्षणः कश्चिद्वाक्यभेदः प्रकीर्त्यते ।
अंशभेदे वाक्यभेदः कश्चिद्गौरवलक्षणः ॥
त्रिकद्वयसमावेशात्कश्चिद्वैरूप्यलक्षणः ।
उद्देश्यत्वानुवाद्यत्वप्रधानत्वत्रिकं क्वचित् ॥
उपादानविधेयत्वगुणत्वत्रितयं क्वचित् ।
मानान्तरेण सिद्धस्य या स्यान्निर्दिश्यमानता ॥
विधेयस्यान्वयित्वेन तदुद्देश्यत्वमुच्यते ।
मानान्तरेण सिद्धस्य पुनश्च श्रूयमाणता ॥
भवेत्तदनुवाद्यत्वं प्रधानत्वं गुणान्वयः ।
पुंसाऽनुष्ठायिमानत्वमुपादेयत्वमिष्यते ॥
अप्राप्तत्वयुता वाक्यवेद्यता स्याद्विधेयता ।
गुणत्वं विहितत्वं स्यादाङ्गत्वेन च कर्मणः ॥
यद्वृत्तयोगः प्राथम्यं द्वयमुद्देश्यलक्षणम् ।
तद्वृत्तमेवकारश्च स्यादुपादेयलक्षणम् ॥
येषामाख्यातशब्दानां यदप्याद्युपबन्धनात् ।
विधिशक्तिः प्रणश्येत्तु ते सर्वत्राभिधायकाः ॥
२ विरोधे तुल्यबलयोर्विकल्पः परिगृह्यते ।
गत्यन्तरे च न सति सैषा ह्यगतिका गतिः ॥
प्रामाण्यस्य परित्यागः त्वप्रामाण्यस्य कल्पना
त्यक्तमानत्वोपगमोऽत्यक्तप्रामाण्यवर्जनम् ।

प्रत्येकमेते दोषास्स्युः चत्वारश्शास्त्रयोर्द्वयोः।
प्रयोगभेदात्तेन स्याद्विकल्पो ह्यष्टदोषभाक् ॥
प्रतिपत्तिरनुष्ठानं अपूर्वं च फलं तथा ।
बाधस्तेषां कोटियुग्मे इति वा दोषचिन्तना ॥
3 अथ प्रमाणयोर्बाध्यबाधकत्वव्यवस्थितिः ।
अनन्यथासिद्धतैव बाधकत्वे प्रयोजिका ॥
अन्यथासिद्धता या तु सा बाध्यत्वप्रयोजिका ।
उभयं सावकाशत्वानवकाशत्वमूलकम् ॥
अन्यथासिद्धता नाम माने विषयसत्यताम् ।
अन्तरेणात्मलाभस्स्यादवकाशो द्विधा मतः ॥
आद्यो द्विचन्द्रादिवत्स्यात् अप्रमाणपदार्हता ।
विषयान्तरलाभोऽन्त्यः भवेत् होमविधाविव ॥
प्राप्तबाधोऽप्राप्तबाध इति स द्विविधो मतः ।
आद्यः प्रमेयापहारः यो दाशमिक इष्यते ॥
अन्त्यो मूलोच्छेदरूपः तार्तीयीकस्स इष्यते ।
साधारणस्य शास्त्रस्य विशेषविषयादिना ॥
संकोचः क्लृप्तरूपस्य प्राप्तबाधोऽयमुच्यते ।
कल्प्यस्य क्लृप्तशास्त्रेण शैघ्यान्मूलनिकृन्तने ॥
फलापहारादप्राप्तबाध एषोऽभिधीयते ।
अथ तस्य प्रपञ्चोऽयं विदितो लोकवेदयोः ॥

न्यायनि॒रुक्तिवादः 481
बाध्यतेऽनन्यथासिद्धेनान्यथासिद्धतास्पदम् ।
तथा निरवकाशेन सावकाशं विशेषतः ॥
नैमित्तिकेन नित्यं च क्रत्वर्थं पुरुषार्थतः ।
पूर्वं परेणातिदिष्टमुपदिष्टेन बाध्यते ॥
सफलं निष्फलेनापि ह्यदृष्टं चापि दृष्टतः ।
बाध्यते चाप्युपादेयमनुपादेयतावता ॥
श्रौतेन बाध्यते स्मार्तं प्रबलेनापि दुर्बलम् ।
प्रधानेनाङ्गभूतं च लाघवेनापि गौरवम् ॥
अपेक्षितविधानेन विधानमनपेक्षितम् ।
भूयसा चाल्पबाधस्स्यात् रूढ्या योगः प्रबाध्यते
एवमाद्यवगन्तव्यं नास्त्यन्तो विस्तरस्य हि ।
सिद्धानुगममात्रं तु कर्तुं युक्तं परीक्षकैः ॥
एवं दोषनिरुक्तीनां सरणिः स्यात्प्रदर्शिता ।
अथ न्यायनि॒रुक्तीनां सरणिश्च प्रदर्श्यते ॥
(98) न्यायनि॒रुक्तिवादः.
1 स्यादेकाङ्गानुवादेन ह्यङ्गयोश्चोद्यमानयोः ।
अन्तराले विधानं यत् स संदंश इतीर्यते ॥
धर्मविप्रतिषेधस्तु यदि स्यादङ्गमुख्ययोः ।
प्रधानानुग्रहो न्याय्यः सोमस्स्यात्तेन पर्वणि ॥
M.R. 61

परस्परापेक्षतायामुपक्रमनयान्वयः ।
परस्परानपेक्षत्वे त्वपच्छेदनयान्वयः ॥
भूयोऽनुग्रहनीतिस्तु संख्यावैषम्यगोचरा ।
विरोधाधिकृतिन्यायः प्राबल्यात्परबाधकः ॥
२ दृष्टार्थत्वे संभवति नादृष्टार्थत्वमिष्यते ।
प्रयाजशेषप्रक्षेपः प्रतिपत्तिरतो मता ॥
वाजिनेऽप्यनुनिष्पन्नप्रतिपत्तिरितीष्यते ।
अतोऽध्ययनमन्त्रादेः दृष्टार्थत्वव्यवस्थितिः ॥
वचनेन विरोधे तु न हि न्यायः प्रवर्तते ।
घटं पटयितुं नेष्टेऽप्यागमानां सहस्रकम् ॥
आनर्थक्यप्रतिहतौ विपरीतं बलाबलम् ।
रूपे श्रुतेऽपि दध्नेतिवाक्यं गुणविधिर्मतः ॥
दुर्बलस्य प्रमाणस्य बलवानाश्रयो यदा ।
तदापि विपरीतत्वं शिष्टाकोपे यथोदितम् ॥
अत्यन्तबलवन्तोऽपि पौरजानपदा जनाः।
दुर्बलैरपि बाध्यन्ते प्रबलैः पार्थिवाश्रितैः ॥
स्वरूपतः प्रकरणे स्थानाच्च बलवत्यपि ।
पूषानुमन्त्रणे लिङ्गसमाश्रितसमाख्यया ॥
बाध्यते हि प्रकरणमुपजीव्यविरोधतः ।
कल्प्योपकारापूर्वाङ्गात्प्राक्प्राकृतसमन्वयः ॥

न्यायनिरुक्तिवादः 48
फलं तस्य च संबन्धः कल्प्यौ विश्वजिति क्रतौ ।
रात्रिसत्रेष्वर्थवादफलसंबन्धकल्पना ॥
प्रसक्तस्य प्रतिषेधे तदन्यत्राप्रसङ्गतः ।
संप्रत्ययश्शिष्यमाणे परिशेष इतीर्यते ॥
३ सामान्यविधिरस्पष्टस्संह्रियेत विशेषतः ।
स्पष्टस्य तु विशेषेण नोपसंहार इष्यते ॥
शब्दोपात्तविशेषेऽर्थे संकोचश्चेदसौ नयः ।
शब्दोपात्तविशेषान्यविषये यदि विश्रमः ॥
गोबलीवर्दनीतिस्स्यात् वैयर्थ्यविनिवृत्तये ।
तथैवोत्सर्गापवादः विरोधविनिवृत्तये ॥
तद्धितेन चतुर्थ्या वा मन्त्रलिङ्गेन वा पुनः ।
देवतासङ्गतिस्तत्र दुर्बलं तु परंपरम् ॥
इष्टा शीघ्रप्रवृत्तित्वायोगाद्रूढिर्बलीयसी ।
अश्वकर्णादिशब्देषु विपरीतं बलाबलम् ॥
पदान्तरं प्रयुक्तं चेद्यौगिकार्थविशेषकम् ।
रूढिशक्तेर्भञ्जकं स्याद्यथा चाग्रसरोरुहम् ॥
सर्वत्र यौगिकैश्शब्दैर्द्रव्यमेवाभिधीयते ।
न हि संबन्धवाचित्वं संभवत्यतिगौरवात् ॥
सर्वाण्येव हि शास्त्राणि स्वप्रदेशान्तरैस्सह ।
एकवाक्यतया युक्तमुपदेशं प्रतन्वते ॥

उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥
4 यो नाम वेदतात्पर्यनिर्णयाय विरच्यते ।
न्यायाख्यस्सोऽधिकरणमिति व्यवहृतं बुधैः ॥
विषयो विशयश्चैव विचारो निर्णयस्तथा ।
प्रयोजनं च पञ्चाङ्गं प्राञ्चोऽधिकरणं विदुः ॥
सङ्गतिर्विषयश्चैव संशयोत्थानकारणम् ।
संशयस्य प्रकारश्च तदर्था च विचिन्तना ॥
तस्यां फलफलित्वं च न्यायौ द्वौ पूर्वपक्षयोः ।
निर्णयस्तत्फलं चेति दशाङ्गानीतरे विदुः ॥
वाक्यस्य विषयत्वं तु यत्कोट्योस्संशयीययोः ।
उपस्थापकशब्दाभ्यां घटितं सत् तथैवच ॥
सन्न्यायाधीनतात्पर्यनिर्णयादेककोटिकाम् ।
प्रमिति जनयेत् वाक्यं तत्त्वमित्यवधार्यते ॥
न्यायत्वं च निरुक्ताङ्गपञ्चकाद्यवबोधकम् ।
वाक्यजातं यथा न्यायवाक्यं शास्त्रान्तरे मतम् ॥
अनन्तराभिधाने या जिज्ञासा स्यात्प्रयोजिका ।
तद्धेतुज्ञानविषयसम्बन्धः सङ्गतिर्मता ॥
तां प्रसङ्ग उपोद्घातः हेतुताऽवसरस्तथा ।
निर्वाहकैक्यं कार्यैक्यमिति षोढा विदुः परे ॥

न्यायनिरुक्तिवादः ४८
अपवाद उपोद्घातः प्रसङ्गः प्रत्युदाहृतिः ।
दृष्टान्ताक्षेपातिदेशा इति मीमांसका विदुः ॥
पूर्वाधिकृतिसिद्धान्तन्यायं यत्रावलम्बते ।
उत्तराधिक्रियापूर्वपक्षस्तत्रापवादिकी ॥
उपोद्घातः प्रस्तुतार्थस्योपपादकता मतः ।
चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं विदुर्बुधाः ॥
उपोद्घातस्य चिन्तेयं यस्मान्निर्वाहिका स्थिता ।
तस्मात्तादर्थ्यताश्चिन्तैवोपोद्घात इतीर्यते ॥
स्मृतस्योक्तार्थसंबन्धादुपेक्षाया अनर्हता ।
प्रसङ्ग इति यत्प्राहुर्यस्मात्सैव हि सङ्गतिः ॥
तस्मादुपोद्घातमुखसङ्गतिभ्यः पृथक्कृतः ।
या सङ्गतिस्स प्रसङ्ग इति निष्कृष्टलक्षणम् ॥
पूर्वाधिकृतिसिद्धान्तन्यायस्याविषयीक्रियाम् ।
आलम्ब्य पूर्वपक्षस्योत्थाने स्यात्प्रत्युदाहृतिः ॥
पूर्वाधिकृतिसिद्धान्तन्यायसाधर्म्यसंश्रयात् ।
उत्तराधिक्रियापूर्वपक्षे दृष्टान्तसङ्गतिः ॥
पूर्वाधिकृतिसिद्धान्तन्यायस्यानुपपन्नताम् ।
शङ्कित्वा पूर्वपक्षस्योत्थाने त्वाक्षेपसंगतिः ॥
कृत्वा यत्राधिकाशङ्कां पूर्वमेवातिदिश्यते ।
संगतिः कथिता सद्भिः काचित्तत्रातिदेशिकी ॥

इत्थं संगतयस्सप्त मीमांसाशास्त्रसम्मताः ।
तत्सामान्यं विशेषाश्च संग्रहेण निरूपिताः ॥
5 अथार्हतानां सिद्धान्ते प्रमाणनयवादिनाम् ।
नयस्वरूपं संक्षेपादिङ्मात्रमुपदर्श्यते ॥
श्रुतप्रमाणविषयविशिष्टैकांशगोचरः ।
अंशान्तरोदासीन्येन परामर्शो नयो मतः ॥
नयेनेतरसिद्धान्ताविरोधं प्रतिपेदिरे ।
इतरांशानिषेधे तु नयाभास उदाहृतः ॥
सकलो विकलश्चेति चादेशो द्विविधस्ततः ।
नायं वस्तु नचावस्तु वस्त्वंशः कथ्यते बुधैः ॥
नासमुद्रस्समुद्रो वा समुद्रांशो यथैव हि ।
तन्मात्रस्य समुद्रत्वे शेषांशस्यासमुद्रता ॥
काला त्मरूप संबन्धाः संसर्गोपक्रिये तथा ।
गुणिदेशा र्थ शब्दाश्चेत्यष्टौ कालादयो मताः ॥
कालादिभिरभेदेन युगपत्प्रतिपादकम् ।
वचस्स्यात्सकलादेशः तदन्यद्विकलात्मकम् ॥
सप्तभङ्गी सम्मतैव प्रमाणनयवाक्ययोः ।
विस्तरस्त्ववगन्तव्यः प्रमाणनयलोकने ॥
(99) वाक्यार्थवादः.
1 अथ वाक्यार्थवादोऽयमेष संगृह्यते तथा ।
यदर्थस्सकलश्शब्दः यतो यात्राऽपि लौकिकी

वाक्यार्थवादः 487
जगत्यामिह याकाचित्प्रवृत्तिः परिदृश्यते ।
व्यापारोऽसौ क्रियारूपः सहि धात्वर्थलक्षणः ॥
क्रियैवोत्पादना भावो भावनेति च पठ्यते ।
चलनात्मा परिस्पन्दः गतिः कर्मेत्यपीर्यते ॥
व्यापारस्स तु वस्तूनां स्वभावादेव जायते ।
रजोगुणस्वभावोऽसौ क्षीरस्येवेति कापिलः ॥
तथात्वे कालदेशादिनियमानुपपत्तितः ।
स्वतन्त्रचेतनेच्छादिमूलस्स्यादिति वैदिकः ॥
अन्यथा सकलं शास्त्रं भवेदत्तजलाञ्जलि ।
विधानप्रतिषेधार्थं लौकिकं चाप्यनर्थकम् ॥
चेतनस्य स्वतन्त्रस्य ज्ञानेच्छादिनिबन्धनः ।
अस्ति ह्याभ्यन्तरः कश्चित्प्रयत्नः कृतिलक्षणः ॥
चेष्टादिलक्षणस्तेन बाह्यो व्यापार इष्यते ।
सर्वा प्रवृत्तिस्तन्मूलेत्येतदध्यक्षसुस्थितम् ॥
बुद्धिजन्या भवेदिच्छा हीच्छाजन्या भवेत्कृतिः ।
कृतिजन्या भवेच्चेष्टा चेष्टाजन्या भवेत्क्रिया ॥
2 रजोगुणस्वभावेन चेत्प्रवृत्तिर्भविष्यति ।
स्तनंधयप्रवृत्तिश्चाप्येवमायाऽऽपतिष्यति ॥
ततश्च वीतरागादिजन्मादर्शनलक्षणम् ।
श्रान्तं जन्मान्तरे लिङ्गं अश्रान्तो बाह्यडिण्डिमः ॥

488 मानमेयरहस्यश्लोकवार्तिके
पूर्वाभ्यासेन लोके स्युः हर्षशोकभयादयः ।
जातमात्रस्य ते दृष्टाः पूर्वाभ्यासनिबन्धनाः ॥
पद्मादिषु प्रबोधाद्याः विकारा भूतसंश्रयाः ।
शीतोष्णवर्षाकालादिनिमित्ता इति निश्चिताः ॥
अयस्कान्ताभिगमनमयसो यत्प्रदृश्यते ।
अन्यत्र वृत्त्यभावेन तत्स्वभावादिति स्थितम् ॥
प्रवृत्तिस्तार्किकैस्तस्माद्दोषादेवेति सूत्रितम् ।
तथैव लोकानुभवोऽप्यनुकूलोऽवकल्पते ॥
तत्र प्रवर्तकं ज्ञानं वैदिकं वाऽथ लौकिकम् ।
कीदृशं त्विति जिज्ञासा सामान्येन प्रवर्तते ॥
स्वतन्त्रा परतन्त्रेति प्रवृत्तिर्द्विविधा मता ।
आद्या भवतु रागेण विधिनैव त्वनन्तरा ॥
वैधविज्ञानवैमत्यात् विध्यर्थोऽपि विभिद्यते ।
ततो वाक्यार्थविमतिः सर्वे संगृह्यतेऽत्र तत् ॥
फलार्था हि क्रिया लोके पुरुषार्थं फलं मतम् ।
पुरुषश्च क्रियार्थस्स्यात् इत्येवं बद्धशृङ्खले ॥
चक्रेऽत्र कस्य प्राधान्यं कस्य वाक्यार्थतेतिच ।
प्रवर्तकं किमत्रस्यात् इति संशेरते बुधाः ॥
3 लिङ्गादिशब्द एवेति जरन्मीमांसका विदुः ।
तद्व्यापारात्मिका शब्दभावनेति कुमारिलाः ॥

वाक्यार्थवादः 48
तदर्थस्तु नियोगोऽस्तीत्याहुः टीकाकृतः पुनः ।
तदर्थः कार्य इत्याहुरन्ये प्राभाकरास्तु ते ॥
इष्टसाधनता याऽस्ति धात्वर्थे सेति मण्डनः ।
पुंसां नेष्टाऽभ्युपायत्वात्क्रियास्वन्यः प्रवर्तकः ॥
प्रवृत्तिहेतुं धर्मं चेत्येषा विधिविवेकवाक् ।
फलं स्वर्गादिरेवेति नैयायिकशिरोमणिः ॥
यमर्थमधिकृत्यात्र पुरुषः संप्रवर्तते ।
तत्प्रयोजनमित्थं हि सूत्रयामास गौतमः ॥
प्रवर्तिका क्रियैवेति प्रायश्शाब्दिकसम्मता ।
क्रियैव वाक्यार्थ इति मुनिरप्याह बादरिः ॥
इष्टस्य कृत्यधीनात्मलाभलक्षणकार्यता ।
प्रवर्तिकेति वेदान्तवादिनो न्यायवेदिनः ॥
आप्तस्य हितकामस्य नियोगं केचिदूचिरे ।
यतश्श्रुतिस्स्मृतिरपि नियोगस्सर्वशासितुः ॥
आप्ताभिप्रायमाचार्याः प्राहुश्चोदयनादयः ।
वेदस्य पौरुषेयत्वे मानं चापि विधिं विदुः ॥
अज्ञातज्ञापनं वाऽथवाऽप्रवृत्तप्रवर्तनम् ।
अथाप्राप्तक्रियाकर्तृसंबन्ध इति कल्पनाः ॥
उद्योगमपरे प्राहुरात्मनस्स्पन्दलक्षणम् ।
तत्तन्मतानुरोधेन विध्यर्थोऽत्र विभज्यते ॥
M.R. 62

वाक्यज्ञाने हि वाक्यार्थविज्ञानमवकल्पते ।
ततः प्रस्तूयते वाक्यचिन्ता प्राच्यविचिन्तिता ॥
(100) वाक्यवादः.
1 अथात्र वैयाकरणसम्प्रदायस्य संग्रहः ।
एष वाक्यपदीयाख्यग्रन्थसारः प्रकाश्यते ॥
अखण्डं वाक्यमित्येके सखण्डमिति चापरे ।
संघातवर्तिनी जातिः एकोऽनवयवः स्वनः ॥
तथा बुद्ध्यनुसंहारोऽखण्डं त्रेधा विकल्प्यते ।
क्रमस्संघात आख्यातशब्द आद्यपदं तथा ॥
पृथक्सर्वपदं चेति सखण्डं पञ्चधा मतम् ।
अष्टौ वाक्यविकल्पास्ते शाब्दिकाचार्यसम्मताः ॥
2 स्फोटवादोऽखण्डपक्षः स्फोटश्शब्दः ध्वनिः पुनः ।
तद्गुणः दीपरुचिवत् स्वरव्यञ्जनलक्षणः ॥
बाह्य आभ्यन्तरश्चेति स स्फोटो द्विविधो मतः ।
जातिव्यक्तिप्रभेदेन बाह्यो द्विविध इष्यते ॥
संघातवर्तिनी जातिः बाह्यः प्रथम ईरितः ।
एकोऽनवयवश्शब्दः द्वितीयो व्यक्तिलक्षणः ॥
यदन्तरश्शब्दतत्त्वं तु नादैरेकं प्रकाशितम् ।
स स्यादाम्यन्तरः स्फोटः तदर्थोऽप्यस्ति चान्तरः ॥

वाक्यवादः 491
अर्थभागैस्तथैतेषां आन्तरोऽर्थः प्रकाश्यते ।
एकस्यैवात्मनो भेदौ शब्दार्थावपृथक्स्थितौ ॥
अतः प्रसिद्धरूपेण कालिदासेन कीर्तितम् ।
वागर्थाविव संपृक्तौ इति मङ्गलदैवतम् ॥
यश्च बुद्धयनुसंहारः स निरालम्बसोदरः ।
अखण्डपक्षे व्याख्यातं त्रिविधं वाक्यलक्ष्म ॥
३ सखण्डे क्रमसंघाताविति यल्लक्षणद्वयम् ।
तत्सङ्गतं ह्यभिहितान्वयपक्षसमीक्षया ॥
त्रीणीतराण्यन्विताभिधानपक्षकटाक्षतः ।
वाक्यमेकतिङित्यादि वाक्यलक्षणवार्तिकम् ॥
अर्थैकत्वादेकवाक्यमिति सूत्रं च जैमिनेः ।
संघातपक्ष एवान्तर्भवितुं सम्यगर्हति ॥
भेदोवाऽप्यथ संसर्गो वाक्यार्थ इति चिन्तना ।
अर्थैकत्वादितिन्याये कृता भाष्ये च वार्तिके ॥
एवं वाक्यविकल्पेन वाक्यार्थोऽपि विकल्प्यते ।
तयोरपि च संबन्धः तदधीनो विकल्प्यते ॥
४ तत्राखण्डपक्षे तु लक्षणेष्वपिच त्रिषु ।
प्रतिभा वाक्यार्थ इति तत्स्वरूपं निशाम्यताम् ॥
विच्छेदग्रहणेऽर्थानां प्रतिभाऽन्यैव जायते ।
वाक्यार्थ इति तामाहुः पदार्थैरुपपादिताम् ॥

[Header] 492 मानमेयरहस्यश्लोकवार्तिके

उपश्लेषमिवार्थानामाकरोत्यविचारिता ।
सार्वरूप्यमिवापन्ना विषयत्वेन वर्तते ॥
प्रमाणत्वेन तां लोकस्सर्वस्समुपगच्छति ।
व्यवहाराः प्रवर्तन्ते तिरश्चामपि तद्वशात् ॥
स्वरवृत्तिं विकुरुते मधौ पुंस्कोकिलः कथम् ।
जन्त्वादयः कुलायादेः करणे शिक्षिताः कथम् ॥
आहारप्रीतिविद्वेषप्लवनादिक्रियासु कः ।
जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् ॥
5 सखण्डपक्षे वाक्यार्थः क्रमसंघातपक्षयोः ।
संसर्ग इति, संघातपक्षेऽप्यस्ति मतान्तरम् ॥
पदार्थ एव विश्रान्तः विशेषे वाक्यगोचरः ।
आख्यातशब्दपक्षे तु क्रिया वाक्यार्थ इष्यते ॥
प्रतिभा यत्प्रभूतार्था यामनुष्ठानमाश्रितम् ।
फलं प्रसूयेत यतः सा क्रिया वाक्यगोचरः ॥
संसृष्ट एव वाक्यार्थः तुर्यपञ्चमकल्पयोः ।
अभिधेयः पदार्थस्स्यात् वाक्यार्थस्तु प्रयोजनम् ।
इत्युक्तः फलवाक्यार्थवादस्साधारणो मतः ।
लक्षणानां च सर्वेषां वाक्यार्थाष्षडिमे मताः ॥
प्रतिभाचैव संसर्गः पदार्थश्च विशेषतः ।
पदार्थ एव संसृष्टः क्रिया चाथ प्रयोजनम् ॥

वाक्यवादः 493
अत्रान्विताभिधानं स्यात् क्रियासंसृष्टपक्षयोः ।
चतुर्ष्वप्यवशिष्टेषु पक्षेष्वभिहितान्वयः ॥
प्रतिभायां त्वेकरसा प्रतिपत्तिरुदेत्यतः ।
न तत्र काचिच्चर्चाऽस्ति मतयोरुभयोरपि ॥
ये मीमांसकवाक्यार्थविकल्पा भावनादयः ।
तेऽप्यत्रान्तर्भवन्तीति न स्यादधिककल्पना ॥
क्रियैव भावना तत्र प्रकृतिप्रत्ययार्थयोः ।
विवादः केवलं वैयाकरणानां तु तैस्सह ॥
नियोगाद्यास्तु वाक्यार्थाः लिङादियुतवाक्यगाः ।
न सर्ववाक्यविषया इति तेष्विह नादरः ॥
अनादितद्वाक्यार्थविकल्पोत्थैरुपप्लवैः ।
बहीरूपतयाऽध्यस्तैः क्रमवद्भिरिवाक्रमैः ॥
पदार्थैश्चित्रित इव विकल्पोल्लेखलक्षणः ।
आकारो बहिरध्यस्तः निरंशश्शाक्यसम्मतः ॥
वाक्यार्थो यः प्रायशोऽसौ प्रतिभायास्सहोदरः ।
अथातो वाक्यवाक्यार्थसंसर्गस्य विकल्पना ॥
6 तत्रानवयवे स्फोटे तदर्थे प्रतिभात्मके ।
वाक्येऽप्यथच वाक्यार्थे संबन्धोऽध्यासलक्षणः ॥
एके तादात्म्यमिच्छन्ति परे परिणतिं विदुः ।
तद्विम्बप्रतिबिम्बत्वं वेति कैश्चिद्विकल्प्यते ॥

अवशिष्टेषु पक्षेषु वाच्यवाचकतात्मिका ।
मीमांसकानां दृष्ट्या तु संबन्धो योग्यता मता ॥
शाक्यदृष्ट्या तु शब्दार्थे बौद्धे विज्ञानवादतः ।
कार्यकारणभावाख्यस्संबन्ध इति निश्चितः ॥
बाह्यार्थे त्वथ वाक्यार्थे स च संकेतलक्षणः ।
इति तार्किकसिद्धान्त इति रीतिश्चतुष्टयी ॥
पदानि कल्पितानीति टीकाकारमतं स्मृतम् ।
वाक्यं तु कल्पितमिति पदकारमतं श्रुतम् ॥
अभेदपूर्वका भेदाः कल्पिता वाक्यवादिभिः ।
भेदपूर्वानभेदांस्तु मन्यन्ते पददर्शिनः ॥
7 शब्दवित्संप्रदायेऽस्मिन् वाक्यं प्रायेण शोधितम् ।
अर्थवित्संप्रदायोऽपि तथा किंचिद्विचार्यते ॥
क्रियावाक्यार्थपक्षश्च बादर्याचार्यसम्मतः ।
शेषलक्ष्माधिकरणे जैमिनीये निरूपितः ॥
पदार्थाः किल वाक्यार्थभावमायान्ति संहताः ।
अपेक्षानुगुणान्योन्यव्यतिषङ्गविशेषतः ॥
साध्यं निष्पद्यमानत्वात् प्रधानमवगम्यते ।
तस्मात्तदेव वाक्यार्थः क्रियातो नापरं च तत् ॥
यजेत दद्याज्जुहुयात् अधीयीतेति बोधितः ।
क्रियां साध्यतया वेत्ति तां च लोकोऽनुतिष्ठति ॥

भावनावाक्यार्थः 499

क्रियैव तावत्कार्यात्मा प्रेरणात्मा फलार्थिता ।
प्रतीयते ततोऽन्यस्तु नियोगो नोभयात्मकः ॥
कुर्यादित्येवमादिभ्यः क्रियादिव्यतिरेकिणः ।
नार्थान्तरस्य संवित्तिः कस्यचित्प्रेरणात्मनः ॥
स चोदनामतिक्रमेत् यः क्रियां नानुतिष्ठति ।
यश्शब्दपरतन्त्रस्स्यात् शब्दप्रामाण्यवाद्यसौ ॥
फलाभिसन्धिहीनोऽपि कर्मसंस्कारसंस्कृतः ।
परिपक्ककषायस्स्यात् स्तोकस्तोकक्रमादसौ ॥
प्रपञ्चप्रविलापेन चोत्तमाधिक्रियायुतः ।
ज्ञातास्वादस्तमेवासौ पुमर्थं प्राप्तुमिच्छति ॥
विस्तरस्तु मतस्यास्य ज्ञेयो विधिविवेकतः ।
प्रायेणैते निष्प्रपञ्चनियोगन्यायवादिनः ॥
(101) भावनावाक्यार्थः.
1 वाक्यार्थभावनापक्षसारांशोऽथावधार्यताम् ।
भाव्यनिष्ठो भावकस्य व्यापारो भावना मता ।
सा शब्दभावनाऽथार्थभावनेत्यपिच द्विधा ।
विभज्य व्यवहारस्य विषयीक्रियते बुधैः ॥
पुंप्रवृत्त्यनुकूलात्मा व्यापारश्शब्दभावना ।
प्रवर्तना प्रेरणा सा नियोग इति कीर्त्यते ॥