मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 534, कुल 672 में से
संदर्भ में पढ़ें[Header] 492 मानमेयरहस्यश्लोकवार्तिके
उपश्लेषमिवार्थानामाकरोत्यविचारिता ।
सार्वरूप्यमिवापन्ना विषयत्वेन वर्तते ॥
प्रमाणत्वेन तां लोकस्सर्वस्समुपगच्छति ।
व्यवहाराः प्रवर्तन्ते तिरश्चामपि तद्वशात् ॥
स्वरवृत्तिं विकुरुते मधौ पुंस्कोकिलः कथम् ।
जन्त्वादयः कुलायादेः करणे शिक्षिताः कथम् ॥
आहारप्रीतिविद्वेषप्लवनादिक्रियासु कः ।
जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् ॥
5 सखण्डपक्षे वाक्यार्थः क्रमसंघातपक्षयोः ।
संसर्ग इति, संघातपक्षेऽप्यस्ति मतान्तरम् ॥
पदार्थ एव विश्रान्तः विशेषे वाक्यगोचरः ।
आख्यातशब्दपक्षे तु क्रिया वाक्यार्थ इष्यते ॥
प्रतिभा यत्प्रभूतार्था यामनुष्ठानमाश्रितम् ।
फलं प्रसूयेत यतः सा क्रिया वाक्यगोचरः ॥
संसृष्ट एव वाक्यार्थः तुर्यपञ्चमकल्पयोः ।
अभिधेयः पदार्थस्स्यात् वाक्यार्थस्तु प्रयोजनम् ।
इत्युक्तः फलवाक्यार्थवादस्साधारणो मतः ।
लक्षणानां च सर्वेषां वाक्यार्थाष्षडिमे मताः ॥
प्रतिभाचैव संसर्गः पदार्थश्च विशेषतः ।
पदार्थ एव संसृष्टः क्रिया चाथ प्रयोजनम् ॥